जनमेजय उवाच 001
दुर्योधनं मोचयित्वा पाण्डुपुत्रा महाबलाः 001a
किमकार्षुर्वने तस्मिंस्तन्ममाख्यातुमर्हसि 001c
वैशम्पायन उवाच 002
ततः शयानं कौन्तेयं रात्रौ द्वैतवने मृगाः 002a
स्वप्नान्ते दर्शयामासुर्बाष्पकण्ठा युधिष्ठिरम् 002c
तानब्रवीत्स राजेन्द्रो वेपमानान्कृताञ्जलीन् 003a
ब्रूत यद्वक्तुकामाः स्थ के भवन्तः किमिष्यते 003c
एवमुक्ताः पाण्डवेन कौन्तेयेन यशस्विना 004a
प्रत्यब्रुवन्मृगास्तत्र हतशेषा युधिष्ठिरम् 004c
वयं मृगा द्वैतवने हतशिष्टाः स्म भारत 005a
नोत्सीदेम महाराज क्रियतां वासपर्ययः 005c
भवन्तो भ्रातरः शूराः सर्व एवास्त्रकोविदाः 006a
कुलान्यल्पावशिष्टानि कृतवन्तो वनौकसाम् 006c
बीजभूता वयं केचिदवशिष्टा महामते 007a
विवर्धेमहि राजेन्द्र प्रसादात्ते युधिष्ठिर 007c
तान्वेपमानान्वित्रस्तान्बीजमात्रावशेषितान् 008a
मृगान्दृष्ट्वा सुदुःखार्तो धर्मराजो युधिष्ठिरः 008c
तांस्तथेत्यब्रवीद्राजा सर्वभूतहिते रतः 009a
तथ्यं भवन्तो ब्रुवते करिष्यामि च तत्तथा 009c
इत्येवं प्रतिबुद्धः स रात्र्यन्ते राजसत्तमः 010a
अब्रवीत्सहितान्भ्रातॄन्दयापन्नो मृगान्प्रति 010c
उक्तो रात्रौ मृगैरस्मि स्वप्नान्ते हतशेषितैः 011a
तनुभूताः स्म भद्रं ते दया नः क्रियतामिति 011c
ते सत्यमाहुः कर्तव्या दयास्माभिर्वनौकसाम् 012a
साष्टमासं हि नो वर्षं यदेनानुपयुञ्ज्महे 012c
पुनर्बहुमृगं रम्यं काम्यकं काननोत्तमम् 013a
मरुभूमेः शिरः ख्यातं तृणबिन्दुसरः प्रति 013c
तत्रेमा वसतीः शिष्टा विहरन्तो रमेमहि 013e
ततस्ते पाण्डवाः शीघ्रं प्रययुर्धर्मकोविदाः 014a
ब्राह्मणैः सहिता राजन्ये च तत्र सहोषिताः 014c
इन्द्रसेनादिभिश्चैव प्रेष्यैरनुगतास्तदा 014e
ते यात्वानुसृतैर्मार्गैः स्वन्नैः शुचिजलान्वितैः 015a
ददृशुः काम्यकं पुण्यमाश्रमं तापसायुतम् 015c
विविशुस्ते स्म कौरव्या वृता विप्रर्षभैस्तदा 016a
तद्वनं भरतश्रेष्ठाः स्वर्गं सुकृतिनो यथा 016c