वैशम्पायन उवाच 001
प्रविशन्तं महाराज सूतास्तुष्टुवुरच्युतम् 001a
जनाश्चापि महेष्वासं तुष्टुवू राजसत्तमम् 001c
लाजैश्चन्दनचूर्णैश्चाप्यवकीर्य जनास्तदा 002a
ऊचुर्दिष्ट्या नृपाविघ्नात्समाप्तोऽयं क्रतुस्तव 002c
अपरे त्वब्रुवंस्तत्र वातिकास्तं महीपतिम् 003a
युधिष्ठिरस्य यज्ञेन न समो ह्येष तु क्रतुः 003c
नैव तस्य क्रतोरेष कलामर्हति षोडशीम् 003e
एवं तत्राब्रुवन्केचिद्वातिकास्तं नरेश्वरम् 004a
सुहृदस्त्वब्रुवंस्तत्र अति सर्वानयं क्रतुः 004c
ययातिर्नहुषश्चापि मान्धाता भरतस्तथा 005a
क्रतुमेनं समाहृत्य पूताः सर्वे दिवं गताः 005c
एता वाचः शुभाः शृण्वन्सुहृदां भरतर्षभ 006a
प्रविवेश पुरं हृष्टः स्ववेश्म च नराधिपः 006c
अभिवाद्य ततः पादौ मातापित्रोर्विशां पते 007a
भीष्मद्रोणकृपाणां च विदुरस्य च धीमतः 007c
अभिवादितः कनीयोभिर्भ्रातृभिर्भ्रातृवत्सलः 008a
निषसादासने मुख्ये भ्रातृभिः परिवारितः 008c
तमुत्थाय महाराज सूतपुत्रोऽब्रवीद्वचः 009a
दिष्ट्या ते भरतश्रेष्ठ समाप्तोऽयं महाक्रतुः 009c
हतेषु युधि पार्थेषु राजसूये तथा त्वया 010a
आहृतेऽहं नरश्रेष्ठ त्वां सभाजयिता पुनः 010c
तमब्रवीन्महाराजो धार्तराष्ट्रो महायशाः 011a
सत्यमेतत्त्वया वीर पाण्डवेषु दुरात्मसु 011c
निहतेषु नरश्रेष्ठ प्राप्ते चापि महाक्रतौ 012a
राजसूये पुनर्वीर त्वं मां संवर्धयिष्यसि 012c
एवमुक्त्वा महाप्राज्ञः कर्णमाश्लिष्य भारत 013a
राजसूयं क्रतुश्रेष्ठं चिन्तयामास कौरवः 013c
सोऽब्रवीत्सुहृदश्चापि पार्श्वस्थान्नृपसत्तमः 014a
कदा तु तं क्रतुवरं राजसूयं महाधनम् 014c
निहत्य पाण्डवान्सर्वानाहरिष्यामि कौरवाः 014e
तमब्रवीत्तदा कर्णः शृणु मे राजकुञ्जर 015a
पादौ न धावये तावद्यावन्न निहतोऽर्जुनः 015c
अथोत्क्रुष्टं महेष्वासैर्धार्तराष्ट्रैर्महारथैः 016a
प्रतिज्ञाते फल्गुनस्य वधे कर्णेन संयुगे 016c
विजितांश्चाप्यमन्यन्त पाण्डवान्धृतराष्ट्रजाः 016e
दुर्योधनोऽपि राजेन्द्र विसृज्य नरपुङ्गवान् 017a
प्रविवेश गृहं श्रीमान्यथा चैत्ररथं प्रभुः 017c
तेऽपि सर्वे महेष्वासा जग्मुर्वेश्मानि भारत 017e
पाण्डवाश्च महेष्वासा दूतवाक्यप्रचोदिताः 018a
चिन्तयन्तस्तमेवार्थं नालभन्त सुखं क्वचित् 018c
भूयश्च चारै राजेन्द्र प्रवृत्तिरुपपादिता 019a
प्रतिज्ञा सूतपुत्रस्य विजयस्य वधं प्रति 019c
एतच्छ्रुत्वा धर्मसुतः समुद्विग्नो नराधिप 020a
अभेद्यकवचं मत्वा कर्णमद्भुतविक्रमम् 020c
अनुस्मरंश्च सङ्क्लेशान्न शान्तिमुपयाति सः 020e
तस्य चिन्तापरीतस्य बुद्धिर्जज्ञे महात्मनः 021a
बहुव्यालमृगाकीर्णं त्यक्तुं द्वैतवनं वनम् 021c
धार्तराष्ट्रोऽपि नृपतिः प्रशशास वसुन्धराम् 022a
भ्रातृभिः सहितो वीरैर्भीष्मद्रोणकृपैस्तथा 022c
सङ्गम्य सूतपुत्रेण कर्णेनाहवशोभिना 023a
दुर्योधनः प्रिये नित्यं वर्तमानो महीपतिः 023c
पूजयामास विप्रेन्द्रान्क्रतुभिर्भूरिदक्षिणैः 023e
भ्रातॄणां च प्रियं राजन्स चकार परन्तपः 024a
निश्चित्य मनसा वीरो दत्तभुक्तफलं धनम् 024c