वैशम्पायन उवाच 001
ततस्तु शिल्पिनः सर्वे अमात्यप्रवराश्च ह 001a
विदुरश्च महाप्राज्ञो धार्तराष्ट्रे न्यवेदयत् 001c
सज्जं क्रतुवरं राजन्कालप्राप्तं च भारत 002a
सौवर्णं च कृतं दिव्यं लाङ्गलं सुमहाधनम् 002c
एतच्छ्रुत्वा नृपश्रेष्ठो धार्तराष्ट्रो विशां पते 003a
आज्ञापयामास नृपः क्रतुराजप्रवर्तनम् 003c
ततः प्रववृते यज्ञः प्रभूतान्नः सुसंस्कृतः 004a
दीक्षितश्चापि गान्धारिर्यथाशास्त्रं यथाक्रमम् 004c
प्रहृष्टो धृतराष्ट्रोऽभूद्विदुरश्च महायशाः 005a
भीष्मो द्रोणः कृपः कर्णो गान्धारी च यशस्विनी 005c
निमन्त्रणार्थं दूतांश्च प्रेषयामास शीघ्रगान् 006a
पार्थिवानां च राजेन्द्र ब्राह्मणानां तथैव च 006c
ते प्रयाता यथोद्दिष्टं दूतास्त्वरितवाहनाः 006e
तत्र कञ्चित्प्रयातं तु दूतं दुःशासनोऽब्रवीत् 007a
गच्छ द्वैतवनं शीघ्रं पाण्डवान्पापपूरुषान् 007c
निमन्त्रय यथान्यायं विप्रांस्तस्मिन्महावने 007e
स गत्वा पाण्डवावासमुवाचाभिप्रणम्य तान् 008a
दुर्योधनो महाराज यजते नृपसत्तमः 008c
स्ववीर्यार्जितमर्थौघमवाप्य कुरुनन्दनः 009a
तत्र गच्छन्ति राजानो ब्राह्मणाश्च ततस्ततः 009c
अहं तु प्रेषितो राजन्कौरवेण महात्मना 010a
आमन्त्रयति वो राजा धार्तराष्ट्रो जनेश्वरः 010c
मनोऽभिलषितं राज्ञस्तं क्रतुं द्रष्टुमर्हथ 010e
ततो युधिष्ठिरो राजा तच्छ्रुत्वा दूतभाषितम् 011a
अब्रवीन्नृपशार्दूलो दिष्ट्या राजा सुयोधनः 011c
यजते क्रतुमुख्येन पूर्वेषां कीर्तिवर्धनः 011e
वयमप्युपयास्यामो न त्विदानीं कथञ्चन 012a
समयः परिपाल्यो नो यावद्वर्षं त्रयोदशम् 012c
श्रुत्वैतद्धर्मराजस्य भीमो वचनमब्रवीत् 013a
तदा तु नृपतिर्गन्ता धर्मराजो युधिष्ठिरः 013c
अस्त्रशस्त्रप्रदीप्तेऽग्नौ यदा तं पातयिष्यति 014a
वर्षात्त्रयोदशादूर्ध्वं रणसत्रे नराधिपः 014c
यदा क्रोधहविर्मोक्ता धार्तराष्ट्रेषु पाण्डवः 015a
आगन्तारस्तदा स्मेति वाच्यस्ते स सुयोधनः 015c
शेषास्तु पाण्डवा राजन्नैवोचुः किञ्चिदप्रियम् 016a
दूतश्चापि यथावृत्तं धार्तराष्ट्रे न्यवेदयत् 016c
अथाजग्मुर्नरश्रेष्ठा नानाजनपदेश्वराः 017a
ब्राह्मणाश्च महाभागा धार्तराष्ट्रपुरं प्रति 017c
ते त्वर्चिता यथाशास्त्रं यथावर्णं यथाक्रमम् 018a
मुदा परमया युक्ताः प्रीत्या चापि नरेश्वर 018c
धृतराष्ट्रोऽपि राजेन्द्र संवृतः सर्वकौरवैः 019a
हर्षेण महता युक्तो विदुरं प्रत्यभाषत 019c
यथा सुखी जनः सर्वः क्षत्तः स्यादन्नसंयुतः 020a
तुष्येच्च यज्ञसदने तथा क्षिप्रं विधीयताम् 020c
विदुरस्त्वेवमाज्ञप्तः सर्ववर्णानरिन्दम 021a
यथाप्रमाणतो विद्वान्पूजयामास धर्मवित् 021c
भक्ष्यभोज्यान्नपानेन माल्यैश्चापि सुगन्धिभिः 022a
वासोभिर्विविधैश्चैव योजयामास हृष्टवत् 022c
कृत्वा ह्यवभृथं वीरो यथाशास्त्रं यथाक्रमम् 023a
सान्त्वयित्वा च राजेन्द्रो दत्त्वा च विविधं वसु 023c
विसर्जयामास नृपान्ब्राह्मणांश्च सहस्रशः 023e
विसर्जयित्वा स नृपान्भ्रातृभिः परिवारितः 024a
विवेश हास्तिनपुरं सहितः कर्णसौबलैः 024c