जनमेजय उवाच 001
वसमानेषु पार्थेषु वने तस्मिन्महात्मसु 001a
धार्तराष्ट्रा महेष्वासाः किमकुर्वन्त सत्तम 001c
कर्णो वैकर्तनश्चापि शकुनिश्च महाबलः 002a
भीष्मद्रोणकृपाश्चैव तन्मे शंसितुमर्हसि 002c
वैशम्पायन उवाच 003
एवं गतेषु पार्थेषु विसृष्टे च सुयोधने 003a
आगते हास्तिनपुरं मोक्षिते पाण्डुनन्दनैः 003c
भीष्मोऽब्रवीन्महाराज धार्तराष्ट्रमिदं वचः 003e
उक्तं तात मया पूर्वं गच्छतस्ते तपोवनम् 004a
गमनं मे न रुचितं तव तन्न कृतं च ते 004c
ततः प्राप्तं त्वया वीर ग्रहणं शत्रुभिर्बलात् 005a
मोक्षितश्चासि धर्मज्ञैः पाण्डवैर्न च लज्जसे 005c
प्रत्यक्षं तव गान्धारे ससैन्यस्य विशां पते 006a
सूतपुत्रोऽपयाद्भीतो गन्धर्वाणां तदा रणात् 006c
क्रोशतस्तव राजेन्द्र ससैन्यस्य नृपात्मज 006e
दृष्टस्ते विक्रमश्चैव पाण्डवानां महात्मनाम् 007a
कर्णस्य च महाबाहो सूतपुत्रस्य दुर्मतेः 007c
न चापि पादभाक्कर्णः पाण्डवानां नृपोत्तम 008a
धनुर्वेदे च शौर्ये च धर्मे वा धर्मवत्सल 008c
तस्य तेऽहं क्षमं मन्ये पाण्डवैस्तैर्महात्मभिः 009a
सन्धिं सन्धिविदां श्रेष्ठ कुलस्यास्य विवृद्धये 009c
एवमुक्तस्तु भीष्मेण धार्तराष्ट्रो जनेश्वरः 010a
प्रहस्य सहसा राजन्विप्रतस्थे ससौबलः 010c
तं तु प्रस्थितमाज्ञाय कर्णदुःशासनादयः 011a
अनुजग्मुर्महेष्वासा धार्तराष्ट्रं महाबलम् 011c
तांस्तु सम्प्रस्थितान्दृष्ट्वा भीष्मः कुरुपितामहः 012a
लज्जया व्रीडितो राजञ्जगाम स्वं निवेशनम् 012c
गते भीष्मे महाराज धार्तराष्ट्रो जनाधिपः 013a
पुनरागम्य तं देशममन्त्रयत मन्त्रिभिः 013c
किमस्माकं भवेच्छ्रेयः किं कार्यमवशिष्यते 014a
कथं नु सुकृतं च स्यान्मन्त्रयामास भारत 014c
कर्ण उवाच 015
दुर्योधन निबोधेदं यत्त्वा वक्ष्यामि कौरव 015a
श्रुत्वा च तत्तथा सर्वं कर्तुमर्हस्यरिन्दम 015c
तवाद्य पृथिवी वीर निःसपत्ना नृपोत्तम 016a
तां पालय यथा शक्रो हतशत्रुर्महामनाः 016c
वैशम्पायन उवाच 017
एवमुक्तस्तु कर्णेन कर्णं राजाब्रवीत्पुनः 017a
न किञ्चिद्दुर्लभं तस्य यस्य त्वं पुरुषर्षभ 017c
सहायश्चानुरक्तश्च मदर्थं च समुद्यतः 018a
अभिप्रायस्तु मे कश्चित्तं वै शृणु यथातथम् 018c
राजसूयं पाण्डवस्य दृष्ट्वा क्रतुवरं तदा 019a
मम स्पृहा समुत्पन्ना तां सम्पादय सूतज 019c
एवमुक्तस्ततः कर्णो राजानमिदमब्रवीत् 020a
तवाद्य पृथिवीपाला वश्याः सर्वे नृपोत्तम 020c
आहूयन्तां द्विजवराः सम्भाराश्च यथाविधि 021a
सम्भ्रियन्तां कुरुश्रेष्ठ यज्ञोपकरणानि च 021c
ऋत्विजश्च समाहूता यथोक्तं वेदपारगाः 022a
क्रियां कुर्वन्तु ते राजन्यथाशास्त्रमरिन्दम 022c
बह्वन्नपानसंयुक्तः सुसमृद्धगुणान्वितः 023a
प्रवर्ततां महायज्ञस्तवापि भरतर्षभ 023c
एवमुक्तस्तु कर्णेन धार्तराष्ट्रो विशां पते 024a
पुरोहितं समानाय्य इदं वचनमब्रवीत् 024c
राजसूयं क्रतुश्रेष्ठं समाप्तवरदक्षिणम् 025a
आहर त्वं मम कृते यथान्यायं यथाक्रमम् 025c
स एवमुक्तो नृपतिमुवाच द्विजपुङ्गवः 026a
न स शक्यः क्रतुश्रेष्ठो जीवमाने युधिष्ठिरे 026c
आहर्तुं कौरवश्रेष्ठ कुले तव नृपोत्तम 026e
दीर्घायुर्जीवति च वै धृतराष्ट्रः पिता तव 027a
अतश्चापि विरुद्धस्ते क्रतुरेष नृपोत्तम 027c
अस्ति त्वन्यन्महत्सत्रं राजसूयसमं प्रभो 028a
तेन त्वं यज राजेन्द्र शृणु चेदं वचो मम 028c
य इमे पृथिवीपालाः करदास्तव पार्थिव 029a
ते करान्सम्प्रयच्छन्तु सुवर्णं च कृताकृतम् 029c
तेन ते क्रियतामद्य लाङ्गलं नृपसत्तम 030a
यज्ञवाटस्य ते भूमिः कृष्यतां तेन भारत 030c
तत्र यज्ञो नृपश्रेष्ठ प्रभूतान्नः सुसंस्कृतः 031a
प्रवर्ततां यथान्यायं सर्वतो ह्यनिवारितः 031c
एष ते वैष्णवो नाम यज्ञः सत्पुरुषोचितः 032a
एतेन नेष्टवान्कश्चिदृते विष्णुं पुरातनम् 032c
राजसूयं क्रतुश्रेष्ठं स्पर्धत्येष महाक्रतुः 033a
अस्माकं रोचते चैव श्रेयश्च तव भारत 033c
अविघ्नश्च भवेदेष सफला स्यात्स्पृहा तव 033e
एवमुक्तस्तु तैर्विप्रैर्धार्तराष्ट्रो महीपतिः 034a
कर्णं च सौबलं चैव भ्रातॄंश्चैवेदमब्रवीत् 034c
रोचते मे वचः कृत्स्नं ब्राह्मणानां न संशयः 035a
रोचते यदि युष्माकं तन्मा प्रब्रूत माचिरम् 035c
एवमुक्तास्तु ते सर्वे तथेत्यूचुर्नराधिपम् 036a
सन्दिदेश ततो राजा व्यापारस्थान्यथाक्रमम् 036c
हलस्य करणे चापि व्यादिष्टाः सर्वशिल्पिनः 037a
यथोक्तं च नृपश्रेष्ठ कृतं सर्वं यथाक्रमम् 037c