दानवा ऊचुः 001
भोः सुयोधन राजेन्द्र भरतानां कुलोद्वह 001a
शूरैः परिवृतो नित्यं तथैव च महात्मभिः 001c
अकार्षीः साहसमिदं कस्मात्प्रायोपवेशनम् 002a
आत्मत्यागी ह्यवाग्याति वाच्यतां चायशस्करीम् 002c
न हि कार्यविरुद्धेषु बह्वपायेषु कर्मसु 003a
मूलघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः 003c
नियच्छैतां मतिं राजन्धर्मार्थसुखनाशिनीम् 004a
यशःप्रतापधैर्यघ्नीं शत्रूणां हर्षवर्धनीम् 004c
श्रूयतां च प्रभो तत्त्वं दिव्यतां चात्मनो नृप 005a
निर्माणं च शरीरस्य ततो धैर्यमवाप्नुहि 005c
पुरा त्वं तपसास्माभिर्लब्धो देवान्महेश्वरात् 006a
पूर्वकायश्च सर्वस्ते निर्मितो वज्रसञ्चयैः 006c
अस्त्रैरभेद्यः शस्त्रैश्चाप्यधःकायश्च तेऽनघ 007a
कृतः पुष्पमयो देव्या रूपतः स्त्रीमनोहरः 007c
एवमीश्वरसंयुक्तस्तव देहो नृपोत्तम 008a
देव्या च राजशार्दूल दिव्यस्त्वं हि न मानुषः 008c
क्षत्रियाश्च महावीर्या भगदत्तपुरोगमाः 009a
दिव्यास्त्रविदुषः शूराः क्षपयिष्यन्ति ते रिपून् 009c
तदलं ते विषादेन भयं तव न विद्यते 010a
साह्यार्थं च हि ते वीराः सम्भूता भुवि दानवाः 010c
भीष्मद्रोणकृपादींश्च प्रवेक्ष्यन्त्यपरेऽसुराः 011a
यैराविष्टा घृणां त्यक्त्वा योत्स्यन्ते तव वैरिभिः 011c
नैव पुत्रान्न च भ्रातॄन्न पितॄन्न च बान्धवान् 012a
नैव शिष्यान्न च ज्ञातीन्न बालान्स्थविरान्न च 012c
युधि सम्प्रहरिष्यन्तो मोक्ष्यन्ति कुरुसत्तम 013a
निःस्नेहा दानवाविष्टाः समाक्रान्तेऽन्तरात्मनि 013c
प्रहरिष्यन्ति बन्धुभ्यः स्नेहमुत्सृज्य दूरतः 014a
हृष्टाः पुरुषशार्दूलाः कलुषीकृतमानसाः 014c
अविज्ञानविमूढाश्च दैवाच्च विधिनिर्मितात् 014e
व्याभाषमाणाश्चान्योन्यं न मे जीवन्विमोक्ष्यसे 015a
सर्वशस्त्रास्त्रमोक्षेण पौरुषे समवस्थिताः 015c
श्लाघमानाः कुरुश्रेष्ठ करिष्यन्ति जनक्षयम् 015e
तेऽपि शक्त्या महात्मानः प्रतियोत्स्यन्ति पाण्डवाः 016a
वधं चैषां करिष्यन्ति दैवयुक्ता महाबलाः 016c
दैत्यरक्षोगणाश्चापि सम्भूताः क्षत्रयोनिषु 017a
योत्स्यन्ति युधि विक्रम्य शत्रुभिस्तव पार्थिव 017c
गदाभिर्मुसलैः खड्गैः शस्त्रैरुच्चावचैस्तथा 017e
यच्च तेऽन्तर्गतं वीर भयमर्जुनसम्भवम् 018a
तत्रापि विहितोऽस्माभिर्वधोपायोऽर्जुनस्य वै 018c
हतस्य नरकस्यात्मा कर्णमूर्तिमुपाश्रितः 019a
तद्वैरं संस्मरन्वीर योत्स्यते केशवार्जुनौ 019c
स ते विक्रमशौण्डीरो रणे पार्थं विजेष्यति 020a
कर्णः प्रहरतां श्रेष्ठः सर्वांश्चारीन्महारथः 020c
ज्ञात्वैतच्छद्मना वज्री रक्षार्थं सव्यसाचिनः 021a
कुण्डले कवचं चैव कर्णस्यापहरिष्यति 021c
तस्मादस्माभिरप्यत्र दैत्याः शतसहस्रशः 022a
नियुक्ता राक्षसाश्चैव ये ते संशप्तका इति 022c
प्रख्यातास्तेऽर्जुनं वीरं निहनिष्यन्ति मा शुचः 022e
असपत्ना त्वया हीयं भोक्तव्या वसुधा नृप 023a
मा विषादं नयस्वास्मान्नैतत्त्वय्युपपद्यते 023c
विनष्टे त्वयि चास्माकं पक्षो हीयेत कौरव 023e
गच्छ वीर न ते बुद्धिरन्या कार्या कथञ्चन 024a
त्वमस्माकं गतिर्नित्यं देवतानां च पाण्डवाः 024c
वैशम्पायन उवाच 025
एवमुक्त्वा परिष्वज्य दैत्यास्तं राजकुञ्जरम् 025a
समाश्वास्य च दुर्धर्षं पुत्रवद्दानवर्षभाः 025c
स्थिरां कृत्वा बुद्धिमस्य प्रियाण्युक्त्वा च भारत 026a
गम्यतामित्यनुज्ञाय जयमाप्नुहि चेत्यथ 026c
तैर्विसृष्टं महाबाहुं कृत्या सैवानयत्पुनः 027a
तमेव देशं यत्रासौ तदा प्रायमुपाविशत् 027c
प्रतिनिक्षिप्य तं वीरं कृत्या समभिपूज्य च 028a
अनुज्ञाता च राज्ञा सा तत्रैवान्तरधीयत 028c
गतायामथ तस्यां तु राजा दुर्योधनस्तदा 029a
स्वप्नभूतमिदं सर्वमचिन्तयत भारत 029c
विजेष्यामि रणे पाण्डूनिति तस्याभवन्मतिः 029e
कर्णं संशप्तकांश्चैव पार्थस्यामित्रघातिनः 030a
अमन्यत वधे युक्तान्समर्थांश्च सुयोधनः 030c
एवमाशा दृढा तस्य धार्तराष्ट्रस्य दुर्मतेः 031a
विनिर्जये पाण्डवानामभवद्भरतर्षभ 031c
कर्णोऽप्याविष्टचित्तात्मा नरकस्यान्तरात्मना 032a
अर्जुनस्य वधे क्रूरामकरोत्स मतिं तदा 032c
संशप्तकाश्च ते वीरा राक्षसाविष्टचेतसः 033a
रजस्तमोभ्यामाक्रान्ताः फल्गुनस्य वधैषिणः 033c
भीष्मद्रोणकृपाद्याश्च दानवाक्रान्तचेतसः 034a
न तथा पाण्डुपुत्राणां स्नेहवन्तो विशां पते 034c
न चाचचक्षे कस्मैचिदेतद्राजा सुयोधनः 034e
दुर्योधनं निशान्ते च कर्णो वैकर्तनोऽब्रवीत् 035a
स्मयन्निवाञ्जलिं कृत्वा पार्थिवं हेतुमद्वचः 035c
न मृतो जयते शत्रूञ्जीवन्भद्राणि पश्यति 036a
मृतस्य भद्राणि कुतः कौरवेय कुतो जयः 036c
न कालोऽद्य विषादस्य भयस्य मरणस्य वा 036e
परिष्वज्याब्रवीच्चैनं भुजाभ्यां स महाभुजः 037a
उत्तिष्ठ राजन्किं शेषे कस्माच्छोचसि शत्रुहन् 037c
शत्रून्प्रताप्य वीर्येण स कथं मर्तुमिच्छसि 037e
अथ वा ते भयं जातं दृष्ट्वार्जुनपराक्रमम् 038a
सत्यं ते प्रतिजानामि वधिष्यामि रणेऽर्जुनम् 038c
गते त्रयोदशे वर्षे सत्येनायुधमालभे 039a
आनयिष्याम्यहं पार्थान्वशं तव जनाधिप 039c
एवमुक्तस्तु कर्णेन दैत्यानां वचनात्तथा 040a
प्रणिपातेन चान्येषामुदतिष्ठत्सुयोधनः 040c
दैत्यानां तद्वचः श्रुत्वा हृदि कृत्वा स्थिरां मतिम् 040e
ततो मनुजशार्दूलो योजयामास वाहिनीम् 041a
रथनागाश्वकलिलां पदातिजनसङ्कुलाम् 041c
गङ्गौघप्रतिमा राजन्प्रयाता सा महाचमूः 042a
श्वेतच्छत्रैः पताकाभिश्चामरैश्च सुपाण्डुरैः 042c
रथैर्नागैः पदातैश्च शुशुभेऽतीव सङ्कुला 043a
व्यपेताभ्रघने काले द्यौरिवाव्यक्तशारदी 043c
जयाशीर्भिर्द्विजेन्द्रैस्तु स्तूयमानोऽधिराजवत् 044a
गृह्णन्नञ्जलिमालाश्च धार्तराष्ट्रो जनाधिपः 044c
सुयोधनो ययावग्रे श्रिया परमया ज्वलन् 045a
कर्णेन सार्धं राजेन्द्र सौबलेन च देविना 045c
दुःशासनादयश्चास्य भ्रातरः सर्व एव ते 046a
भूरिश्रवाः सोमदत्तो महाराजश्च बाह्लिकः 046c
रथैर्नानाविधाकारैर्हयैर्गजवरैस्तथा 047a
प्रयान्तं नृपसिंहं तमनुजग्मुः कुरूद्वहाः 047c
कालेनाल्पेन राजंस्ते विविशुः स्वपुरं तदा 047e