वैशम्पायन उवाच 001
प्रायोपविष्टं राजानं दुर्योधनममर्षणम् 001a
उवाच सान्त्वयन्राजञ्शकुनिः सौबलस्तदा 001c
सम्यगुक्तं हि कर्णेन तच्छ्रुतं कौरव त्वया 002a
मयाहृतां श्रियं स्फीतां मोहात्समपहाय किम् 002c
त्वमबुद्ध्या नृपवर प्राणानुत्स्रष्टुमिच्छसि 002e
अद्य चाप्यवगच्छामि न वृद्धाः सेवितास्त्वया 003a
यः समुत्पतितं हर्षं दैन्यं वा न नियच्छति 003c
स नश्यति श्रियं प्राप्य पात्रमाममिवाम्भसि 003e
अतिभीरुमतिक्लीबं दीर्घसूत्रं प्रमादिनम् 004a
व्यसनाद्विषयाक्रान्तं न भजन्ति नृपं श्रियः 004c
सत्कृतस्य हि ते शोको विपरीते कथं भवेत् 005a
मा कृतं शोभनं पार्थैः शोकमालम्ब्य नाशय 005c
यत्र हर्षस्त्वया कार्यः सत्कर्तव्याश्च पाण्डवाः 006a
तत्र शोचसि राजेन्द्र विपरीतमिदं तव 006c
प्रसीद मा त्यजात्मानं तुष्टश्च सुकृतं स्मर 007a
प्रयच्छ राज्यं पार्थानां यशो धर्ममवाप्नुहि 007c
क्रियामेतां समाज्ञाय कृतघ्नो न भविष्यसि 008a
सौभ्रात्रं पाण्डवैः कृत्वा समवस्थाप्य चैव तान् 008c
पित्र्यं राज्यं प्रयच्छैषां ततः सुखमवाप्नुहि 008e
शकुनेस्तु वचः श्रुत्वा दुःशासनमवेक्ष्य च 009a
पादयोः पतितं वीरं विक्लवं भ्रातृसौहृदात् 009c
बाहुभ्यां साधुजाताभ्यां दुःशासनमरिन्दमम् 010a
उत्थाप्य सम्परिष्वज्य प्रीत्याजिघ्रत मूर्धनि 010c
कर्णसौबलयोश्चापि संस्मृत्य वचनान्यसौ 011a
निर्वेदं परमं गत्वा राजा दुर्योधनस्तदा 011c
व्रीडयाभिपरीतात्मा नैराश्यमगमत्परम् 011e
सुहृदां चैव तच्छ्रुत्वा समन्युरिदमब्रवीत् 012a
न धर्मधनसौख्येन नैश्वर्येण न चाज्ञया 012c
नैव भोगैश्च मे कार्यं मा विहन्यत गच्छत 012e
निश्चितेयं मम मतिः स्थिता प्रायोपवेशने 013a
गच्छध्वं नगरं सर्वे पूज्याश्च गुरवो मम 013c
त एवमुक्ताः प्रत्यूचू राजानमरिमर्दनम् 014a
या गतिस्तव राजेन्द्र सास्माकमपि भारत 014c
कथं वा सम्प्रवेक्ष्यामस्त्वद्विहीनाः पुरं वयम् 014e
स सुहृद्भिरमात्यैश्च भ्रातृभिः स्वजनेन च 015a
बहुप्रकारमप्युक्तो निश्चयान्न व्यचाल्यत 015c
दर्भप्रस्तरमास्तीर्य निश्चयाद्धृतराष्ट्रजः 016a
संस्पृश्यापः शुचिर्भूत्वा भूतलं समुपाश्रितः 016c
कुशचीराम्बरधरः परं नियममास्थितः 017a
वाग्यतो राजशार्दूलः स स्वर्गगतिकाङ्क्षया 017c
मनसोपचितिं कृत्वा निरस्य च बहिष्क्रियाः 017e
अथ तं निश्चयं तस्य बुद्ध्वा दैतेयदानवाः 018a
पातालवासिनो रौद्राः पूर्वं देवैर्विनिर्जिताः 018c
ते स्वपक्षक्षयं तं तु ज्ञात्वा दुर्योधनस्य वै 019a
आह्वानाय तदा चक्रुः कर्म वैतानसम्भवम् 019c
बृहस्पत्युशनोक्तैश्च मन्त्रैर्मन्त्रविशारदाः 020a
अथर्ववेदप्रोक्तैश्च याश्चोपनिषदि क्रियाः 020c
मन्त्रजप्यसमायुक्तास्तास्तदा समवर्तयन् 020e
जुह्वत्यग्नौ हविः क्षीरं मन्त्रवत्सुसमाहिताः 021a
ब्राह्मणा वेदवेदाङ्गपारगाः सुदृढव्रताः 021c
कर्मसिद्धौ तदा तत्र जृम्भमाणा महाद्भुता 022a
कृत्या समुत्थिता राजन्किं करोमीति चाब्रवीत् 022c
आहुर्दैत्याश्च तां तत्र सुप्रीतेनान्तरात्मना 023a
प्रायोपविष्टं राजानं धार्तराष्ट्रमिहानय 023c
तथेति च प्रतिश्रुत्य सा कृत्या प्रययौ तदा 024a
निमेषादगमच्चापि यत्र राजा सुयोधनः 024c
समादाय च राजानं प्रविवेश रसातलम् 025a
दानवानां मुहूर्ताच्च तमानीतं न्यवेदयत् 025c
तमानीतं नृपं दृष्ट्वा रात्रौ संहत्य दानवाः 026a
प्रहृष्टमनसः सर्वे किञ्चिदुत्फुल्ललोचनाः 026c
साभिमानमिदं वाक्यं दुर्योधनमथाब्रुवन् 026e