दुर्योधन उवाच 001
चित्रसेनं समागम्य प्रहसन्नर्जुनस्तदा 001a
इदं वचनमक्लीबमब्रवीत्परवीरहा 001c
भ्रातॄनर्हसि नो वीर मोक्तुं गन्धर्वसत्तम 002a
अनर्हा धर्षणं हीमे जीवमानेषु पाण्डुषु 002c
एवमुक्तस्तु गन्धर्वः पाण्डवेन महात्मना 003a
उवाच यत्कर्ण वयं मन्त्रयन्तो विनिर्गताः 003c
द्रष्टारः स्म सुखाद्धीनान्सदारान्पाण्डवानिति 003e
तस्मिन्नुच्चार्यमाणे तु गन्धर्वेण वचस्यथ 004a
भूमेर्विवरमन्वैच्छं प्रवेष्टुं व्रीडयान्वितः 004c
युधिष्ठिरमथागम्य गन्धर्वाः सह पाण्डवैः 005a
अस्मद्दुर्मन्त्रितं तस्मै बद्धांश्चास्मान्न्यवेदयन् 005c
स्त्रीसमक्षमहं दीनो बद्धः शत्रुवशं गतः 006a
युधिष्ठिरस्योपहृतः किं नु दुःखमतः परम् 006c
ये मे निराकृता नित्यं रिपुर्येषामहं सदा 007a
तैर्मोक्षितोऽहं दुर्बुद्धिर्दत्तं तैर्जीवितं च मे 007c
प्राप्तः स्यां यद्यहं वीर वधं तस्मिन्महारणे 008a
श्रेयस्तद्भविता मह्यमेवम्भूतं न जीवितम् 008c
भवेद्यशः पृथिव्यां मे ख्यातं गन्धर्वतो वधात् 009a
प्राप्ताश्च लोकाः पुण्याः स्युर्महेन्द्रसदनेऽक्षयाः 009c
यत्त्वद्य मे व्यवसितं तच्छृणुध्वं नरर्षभाः 010a
इह प्रायमुपासिष्ये यूयं व्रजत वै गृहान् 010c
भ्रातरश्चैव मे सर्वे प्रयान्त्वद्य पुरं प्रति 010e
कर्णप्रभृतयश्चैव सुहृदो बान्धवाश्च ये 011a
दुःशासनं पुरस्कृत्य प्रयान्त्वद्य पुरं प्रति 011c
न ह्यहं प्रतियास्यामि पुरं शत्रुनिराकृतः 012a
शत्रुमानापहो भूत्वा सुहृदां मानकृत्तथा 012c
स सुहृच्छोकदो भूत्वा शत्रूणां हर्षवर्धनः 013a
वारणाह्वयमासाद्य किं वक्ष्यामि जनाधिपम् 013c
भीष्मो द्रोणः कृपो द्रौणिर्विदुरः सञ्जयस्तथा 014a
बाह्लीकः सोमदत्तश्च ये चान्ये वृद्धसम्मताः 014c
ब्राह्मणाः श्रेणिमुख्याश्च तथोदासीनवृत्तयः 015a
किं मां वक्ष्यन्ति किं चापि प्रतिवक्ष्यामि तानहम् 015c
रिपूणां शिरसि स्थित्वा तथा विक्रम्य चोरसि 016a
आत्मदोषात्परिभ्रष्टः कथं वक्ष्यामि तानहम् 016c
दुर्विनीताः श्रियं प्राप्य विद्यामैश्वर्यमेव च 017a
तिष्ठन्ति न चिरं भद्रे यथाहं मदगर्वितः 017c
अहो बत यथेदं मे कष्टं दुश्चरितं कृतम् 018a
स्वयं दुर्बुद्धिना मोहाद्येन प्राप्तोऽस्मि संशयम् 018c
तस्मात्प्रायमुपासिष्ये न हि शक्ष्यामि जीवितुम् 019a
चेतयानो हि को जीवेत्कृच्छ्राच्छत्रुभिरुद्धृतः 019c
शत्रुभिश्चावहसितो मानी पौरुषवर्जितः 020a
पाण्डवैर्विक्रमाढ्यैश्च सावमानमवेक्षितः 020c
वैशम्पायन उवाच 021
एवं चिन्तापरिगतो दुःशासनमथाब्रवीत् 021a
दुःशासन निबोधेदं वचनं मम भारत 021c
प्रतीच्छ त्वं मया दत्तमभिषेकं नृपो भव 022a
प्रशाधि पृथिवीं स्फीतां कर्णसौबलपालिताम् 022c
भ्रातॄन्पालय विस्रब्धं मरुतो वृत्रहा यथा 023a
बान्धवास्त्वोपजीवन्तु देवा इव शतक्रतुम् 023c
ब्राह्मणेषु सदा वृत्तिं कुर्वीथाश्चाप्रमादतः 024a
बन्धूनां सुहृदां चैव भवेथास्त्वं गतिः सदा 024c
ज्ञातींश्चाप्यनुपश्येथा विष्णुर्देवगणानिव 025a
गुरवः पालनीयास्ते गच्छ पालय मेदिनीम् 025c
नन्दयन्सुहृदः सर्वाञ्शात्रवांश्चावभर्त्सयन् 026a
कण्ठे चैनं परिष्वज्य गम्यतामित्युवाच ह 026c
तस्य तद्वचनं श्रुत्वा दीनो दुःशासनोऽब्रवीत् 027a
अश्रुकण्ठः सुदुःखार्तः प्राञ्जलिः प्रणिपत्य च 027c
सगद्गदमिदं वाक्यं भ्रातरं ज्येष्ठमात्मनः 027e
प्रसीदेत्यपतद्भूमौ दूयमानेन चेतसा 028a
दुःखितः पादयोस्तस्य नेत्रजं जलमुत्सृजन् 028c
उक्तवांश्च नरव्याघ्रो नैतदेवं भविष्यति 029a
विदीर्येत्सनगा भूमिर्द्यौश्चापि शकलीभवेत् 029c
रविरात्मप्रभां जह्यात्सोमः शीतांशुतां त्यजेत् 029e
वायुः शैघ्र्यमथो जह्याद्धिमवांश्च परिव्रजेत् 030a
शुष्येत्तोयं समुद्रेषु वह्निरप्युष्णतां त्यजेत् 030c
न चाहं त्वदृते राजन्प्रशासेयं वसुन्धराम् 031a
पुनः पुनः प्रसीदेति वाक्यं चेदमुवाच ह 031c
त्वमेव नः कुले राजा भविष्यसि शतं समाः 031e
एवमुक्त्वा स राजेन्द्र सस्वनं प्ररुरोद ह 032a
पादौ सङ्गृह्य मानार्हौ भ्रातुर्ज्येष्ठस्य भारत 032c
तथा तौ दुःखितौ दृष्ट्वा दुःशासनसुयोधनौ 033a
अभिगम्य व्यथाविष्टः कर्णस्तौ प्रत्यभाषत 033c
विषीदथः किं कौरव्यौ बालिश्यात्प्राकृताविव 034a
न शोकः शोचमानस्य विनिवर्तेत कस्यचित् 034c
यदा च शोचतः शोको व्यसनं नापकर्षति 035a
सामर्थ्यं किं त्वतः शोके शोचमानौ प्रपश्यथः 035c
धृतिं गृह्णीत मा शत्रूञ्शोचन्तौ नन्दयिष्यथः 035e
कर्तव्यं हि कृतं राजन्पाण्डवैस्तव मोक्षणम् 036a
नित्यमेव प्रियं कार्यं राज्ञो विषयवासिभिः 036c
पाल्यमानास्त्वया ते हि निवसन्ति गतज्वराः 036e
नार्हस्येवङ्गते मन्युं कर्तुं प्राकृतवद्यथा 037a
विषण्णास्तव सोदर्यास्त्वयि प्रायं समास्थिते 037c
उत्तिष्ठ व्रज भद्रं ते समाश्वासय सोदरान् 037e
राजन्नद्यावगच्छामि तवेह लघुसत्त्वताम् 038a
किमत्र चित्रं यद्वीर मोक्षितः पाण्डवैरसि 038c
सद्यो वशं समापन्नः शत्रूणां शत्रुकर्शन 038e
सेनाजीवैश्च कौरव्य तथा विषयवासिभिः 039a
अज्ञातैर्यदि वा ज्ञातैः कर्तव्यं नृपतेः प्रियम् 039c
प्रायः प्रधानाः पुरुषाः क्षोभयन्त्यरिवाहिनीम् 040a
निगृह्यन्ते च युद्धेषु मोक्ष्यन्ते च स्वसैनिकैः 040c
सेनाजीवाश्च ये राज्ञां विषये सन्ति मानवाः 041a
तैः सङ्गम्य नृपार्थाय यतितव्यं यथातथम् 041c
यद्येवं पाण्डवै राजन्भवद्विषयवासिभिः 042a
यदृच्छया मोक्षितोऽद्य तत्र का परिदेवना 042c
न चैतत्साधु यद्राजन्पाण्डवास्त्वां नृपोत्तम 043a
स्वसेनया सम्प्रयान्तं नानुयान्ति स्म पृष्ठतः 043c
शूराश्च बलवन्तश्च संयुगेष्वपलायिनः 044a
भवतस्ते सभायां वै प्रेष्यतां पूर्वमागताः 044c
पाण्डवेयानि रत्नानि त्वमद्याप्युपभुञ्जसे 045a
सत्त्वस्थान्पाण्डवान्पश्य न ते प्रायमुपाविशन् 045c
उत्तिष्ठ राजन्भद्रं ते न चिन्तां कर्तुमर्हसि 045e
अवश्यमेव नृपते राज्ञो विषयवासिभिः 046a
प्रियाण्याचरितव्यानि तत्र का परिदेवना 046c
मद्वाक्यमेतद्राजेन्द्र यद्येवं न करिष्यसि 047a
स्थास्यामीह भवत्पादौ शुश्रूषन्नरिमर्दन 047c
नोत्सहे जीवितुमहं त्वद्विहीनो नरर्षभ 048a
प्रायोपविष्टस्तु नृप राज्ञां हास्यो भविष्यसि 048c
वैशम्पायन उवाच 049
एवमुक्तस्तु कर्णेन राजा दुर्योधनस्तदा 049a
नैवोत्थातुं मनश्चक्रे स्वर्गाय कृतनिश्चयः 049c