दुर्योधन उवाच 001
अजानतस्ते राधेय नाभ्यसूयाम्यहं वचः 001a
जानासि त्वं जिताञ्शत्रून्गन्धर्वांस्तेजसा मया 001c
आयोधितास्तु गन्धर्वाः सुचिरं सोदरैर्मम 002a
मया सह महाबाहो कृतश्चोभयतः क्षयः 002c
मायाधिकास्त्वयुध्यन्त यदा शूरा वियद्गताः 003a
तदा नो नसमं युद्धमभवत्सह खेचरैः 003c
पराजयं च प्राप्ताः स्म रणे बन्धनमेव च 004a
सभृत्यामात्यपुत्राश्च सदारधनवाहनाः 004c
उच्चैराकाशमार्गेण ह्रियामस्तैः सुदुःखिताः 004e
अथ नः सैनिकाः केचिदमात्याश्च महारथान् 005a
उपगम्याब्रुवन्दीनाः पाण्डवाञ्शरणप्रदान् 005c
एष दुर्योधनो राजा धार्तराष्ट्रः सहानुजः 006a
सामात्यदारो ह्रियते गन्धर्वैर्दिवमास्थितैः 006c
तं मोक्षयत भद्रं वः सहदारं नराधिपम् 007a
परामर्शो मा भविष्यत्कुरुदारेषु सर्वशः 007c
एवमुक्ते तु धर्मात्मा ज्येष्ठः पाण्डुसुतस्तदा 008a
प्रसाद्य सोदरान्सर्वानाज्ञापयत मोक्षणे 008c
अथागम्य तमुद्देशं पाण्डवाः पुरुषर्षभाः 009a
सान्त्वपूर्वमयाचन्त शक्ताः सन्तो महारथाः 009c
यदा चास्मान्न मुमुचुर्गन्धर्वाः सान्त्विता अपि 010a
ततोऽर्जुनश्च भीमश्च यमजौ च बलोत्कटौ 010c
मुमुचुः शरवर्षाणि गन्धर्वान्प्रत्यनेकशः 010e
अथ सर्वे रणं मुक्त्वा प्रयाताः खचरा दिवम् 011a
अस्मानेवाभिकर्षन्तो दीनान्मुदितमानसाः 011c
ततः समन्तात्पश्यामि शरजालेन वेष्टितम् 012a
अमानुषाणि चास्त्राणि प्रयुञ्जानं धनञ्जयम् 012c
समावृता दिशो दृष्ट्वा पाण्डवेन शितैः शरैः 013a
धनञ्जयसखात्मानं दर्शयामास वै तदा 013c
चित्रसेनः पाण्डवेन समाश्लिष्य परन्तपः 014a
कुशलं परिपप्रच्छ तैः पृष्टश्चाप्यनामयम् 014c
ते समेत्य तथान्योन्यं सन्नाहान्विप्रमुच्य च 015a
एकीभूतास्ततो वीरा गन्धर्वाः सह पाण्डवैः 015c
अपूजयेतामन्योन्यं चित्रसेनधनञ्जयौ 015e