जनमेजय उवाच 001
शत्रुभिर्जितबद्धस्य पाण्डवैश्च महात्मभिः 001a
मोक्षितस्य युधा पश्चान्मानस्थस्य दुरात्मनः 001c
कत्थनस्यावलिप्तस्य गर्वितस्य च नित्यशः 002a
सदा च पौरुषौदार्यैः पाण्डवानवमन्यतः 002c
दुर्योधनस्य पापस्य नित्याहङ्कारवादिनः 003a
प्रवेशो हास्तिनपुरे दुष्करः प्रतिभाति मे 003c
तस्य लज्जान्वितस्यैव शोकव्याकुलचेतसः 004a
प्रवेशं विस्तरेण त्वं वैशम्पायन कीर्तय 004c
वैशम्पायन उवाच 005
धर्मराजनिसृष्टस्तु धार्तराष्ट्रः सुयोधनः 005a
लज्जयाधोमुखः सीदन्नुपासर्पत्सुदुःखितः 005c
स्वपुरं प्रययौ राजा चतुरङ्गबलानुगः 006a
शोकोपहतया बुद्ध्या चिन्तयानः पराभवम् 006c
विमुच्य पथि यानानि देशे सुयवसोदके 007a
सन्निविष्टः शुभे रम्ये भूमिभागे यथेप्सितम् 007c
हस्त्यश्वरथपादातं यथास्थानं न्यवेशयत् 007e
अथोपविष्टं राजानं पर्यङ्के ज्वलनप्रभे 008a
उपप्लुतं यथा सोमं राहुणा रात्रिसङ्क्षये 008c
उपगम्याब्रवीत्कर्णो दुर्योधनमिदं तदा 008e
दिष्ट्या जीवसि गान्धारे दिष्ट्या नः सङ्गमः पुनः 009a
दिष्ट्या त्वया जिताश्चैव गन्धर्वाः कामरूपिणः 009c
दिष्ट्या समग्रान्पश्यामि भ्रातॄंस्ते कुरुनन्दन 010a
विजिगीषून्रणान्मुक्तान्निर्जितारीन्महारथान् 010c
अहं त्वभिद्रुतः सर्वैर्गन्धर्वैः पश्यतस्तव 011a
नाशक्नुवं स्थापयितुं दीर्यमाणां स्ववाहिनीम् 011c
शरक्षताङ्गश्च भृशं व्यपयातोऽभिपीडितः 012a
इदं त्वत्यद्भुतं मन्ये यद्युष्मानिह भारत 012c
अरिष्टानक्षतांश्चापि सदारधनवाहनान् 013a
विमुक्तान्सम्प्रपश्यामि तस्माद्युद्धादमानुषात् 013c
नैतस्य कर्ता लोकेऽस्मिन्पुमान्विद्येत भारत 014a
यत्कृतं ते महाराज सह भ्रातृभिराहवे 014c
एवमुक्तस्तु कर्णेन राजा दुर्योधनस्तदा 015a
उवाचावाक्शिरा राजन्बाष्पगद्गदया गिरा 015c