वैशम्पायन उवाच 001
ततोऽर्जुनश्चित्रसेनं प्रहसन्निदमब्रवीत् 001a
मध्ये गन्धर्वसैन्यानां महेष्वासो महाद्युतिः 001c
किं ते व्यवसितं वीर कौरवाणां विनिग्रहे 002a
किमर्थं च सदारोऽयं निगृहीतः सुयोधनः 002c
चित्रसेन उवाच 003
विदितोऽयमभिप्रायस्तत्रस्थेन महात्मना 003a
दुर्योधनस्य पापस्य कर्णस्य च धनञ्जय 003c
वनस्थान्भवतो ज्ञात्वा क्लिश्यमानाननर्हवत् 004a
इमेऽवहसितुं प्राप्ता द्रौपदीं च यशस्विनीम् 004c
ज्ञात्वा चिकीर्षितं चैषां मामुवाच सुरेश्वरः 005a
गच्छ दुर्योधनं बद्ध्वा सामात्यं त्वमिहानय 005c
धनञ्जयश्च ते रक्ष्यः सह भ्रातृभिराहवे 006a
स हि प्रियः सखा तुभ्यं शिष्यश्च तव पाण्डवः 006c
वचनाद्देवराजस्य ततोऽस्मीहागतो द्रुतम् 007a
अयं दुरात्मा बद्धश्च गमिष्यामि सुरालयम् 007c
अर्जुन उवाच 008
उत्सृज्यतां चित्रसेन भ्रातास्माकं सुयोधनः 008a
धर्मराजस्य सन्देशान्मम चेदिच्छसि प्रियम् 008c
चित्रसेन उवाच 009
पापोऽयं नित्यसन्दुष्टो न विमोक्षणमर्हति 009a
प्रलब्धा धर्मराजस्य कृष्णायाश्च धनञ्जय 009c
नेदं चिकीर्षितं तस्य कुन्तीपुत्रो महाव्रतः 010a
जानाति धर्मराजो हि श्रुत्वा कुरु यथेच्छसि 010c
वैशम्पायन उवाच 011
ते सर्व एव राजानमभिजग्मुर्युधिष्ठिरम् 011a
अभिगम्य च तत्सर्वं शशंसुस्तस्य दुष्कृतम् 011c
अजातशत्रुस्तच्छ्रुत्वा गन्धर्वस्य वचस्तदा 012a
मोक्षयामास तान्सर्वान्गन्धर्वान्प्रशशंस च 012c
दिष्ट्या भवद्भिर्बलिभिः शक्तैः सर्वैर्न हिंसितः 013a
दुर्वृत्तो धार्तराष्ट्रोऽयं सामात्यज्ञातिबान्धवः 013c
उपकारो महांस्तात कृतोऽयं मम खेचराः 014a
कुलं न परिभूतं मे मोक्षेणास्य दुरात्मनः 014c
आज्ञापयध्वमिष्टानि प्रीयामो दर्शनेन वः 015a
प्राप्य सर्वानभिप्रायांस्ततो व्रजत माचिरम् 015c
अनुज्ञातास्तु गन्धर्वाः पाण्डुपुत्रेण धीमता 016a
सहाप्सरोभिः संहृष्टाश्चित्रसेनमुखा ययुः 016c
देवराडपि गन्धर्वान्मृतांस्तान्समजीवयत् 017a
दिव्येनामृतवर्षेण ये हताः कौरवैर्युधि 017c
ज्ञातींस्तानवमुच्याथ राजदारांश्च सर्वशः 018a
कृत्वा च दुष्करं कर्म प्रीतियुक्ताश्च पाण्डवाः 018c
सस्त्रीकुमारैः कुरुभिः पूज्यमाना महारथाः 019a
बभ्राजिरे महात्मानः कुरुमध्ये यथाग्नयः 019c
ततो दुर्योधनं मुच्य भ्रातृभिः सहितं तदा 020a
युधिष्ठिरः सप्रणयमिदं वचनमब्रवीत् 020c
मा स्म तात पुनः कार्षीरीदृशं साहसं क्वचित् 021a
न हि साहसकर्तारः सुखमेधन्ति भारत 021c
स्वस्तिमान्सहितः सर्वैर्भ्रातृभिः कुरुनन्दन 022a
गृहान्व्रज यथाकामं वैमनस्यं च मा कृथाः 022c
पाण्डवेनाभ्यनुज्ञातो राजा दुर्योधनस्तदा 023a
विदीर्यमाणो व्रीडेन जगाम नगरं प्रति 023c
तस्मिन्गते कौरवेये कुन्तीपुत्रो युधिष्ठिरः 024a
भ्रातृभिः सहितो वीरः पूज्यमानो द्विजातिभिः 024c
तपोधनैश्च तैः सर्वैर्वृतः शक्र इवामरैः 025a
वने द्वैतवने तस्मिन्विजहार मुदा युतः 025c