वैशम्पायन उवाच 001
ततो दिव्यास्त्रसम्पन्ना गन्धर्वा हेममालिनः 001a
विसृजन्तः शरान्दीप्तान्समन्तात्पर्यवारयन् 001c
चत्वारः पाण्डवा वीरा गन्धर्वाश्च सहस्रशः 002a
रणे सन्न्यपतन्राजंस्तदद्भुतमिवाभवत् 002c
यथा कर्णस्य च रथो धार्तराष्ट्रस्य चोभयोः 003a
गन्धर्वैः शतशश्छिन्नौ तथा तेषां प्रचक्रिरे 003c
तान्समापततो राजन्गन्धर्वाञ्शतशो रणे 004a
प्रत्यगृह्णन्नरव्याघ्राः शरवर्षैरनेकशः 004c
अवकीर्यमाणाः खगमाः शरवर्षैः समन्ततः 005a
न शेकुः पाण्डुपुत्राणां समीपे परिवर्तितुम् 005c
अभिक्रुद्धानभिप्रेक्ष्य गन्धर्वानर्जुनस्तदा 006a
लक्षयित्वाथ दिव्यानि महास्त्राण्युपचक्रमे 006c
सहस्राणां सहस्रं स प्राहिणोद्यमसादनम् 007a
आग्नेयेनार्जुनः सङ्ख्ये गन्धर्वाणां बलोत्कटः 007c
तथा भीमो महेष्वासः संयुगे बलिनां वरः 008a
गन्धर्वाञ्शतशो राजञ्जघान निशितैः शरैः 008c
माद्रीपुत्रावपि तथा युध्यमानौ बलोत्कटौ 009a
परिगृह्याग्रतो राजञ्जघ्नतुः शतशः परान् 009c
ते वध्यमाना गन्धर्वा दिव्यैरस्त्रैर्महात्मभिः 010a
उत्पेतुः खमुपादाय धृतराष्ट्रसुतांस्ततः 010c
तानुत्पतिष्णून्बुद्ध्वा तु कुन्तीपुत्रो धनञ्जयः 011a
महता शरजालेन समन्तात्पर्यवारयत् 011c
ते बद्धाः शरजालेन शकुन्ता इव पञ्जरे 012a
ववर्षुरर्जुनं क्रोधाद्गदाशक्त्यृष्टिवृष्टिभिः 012c
गदाशक्त्यसिवृष्टीस्ता निहत्य स महास्त्रवित् 013a
गात्राणि चाहनद्भल्लैर्गन्धर्वाणां धनञ्जयः 013c
शिरोभिः प्रपतद्भिश्च चरणैर्बाहुभिस्तथा 014a
अश्मवृष्टिरिवाभाति परेषामभवद्भयम् 014c
ते वध्यमाना गन्धर्वाः पाण्डवेन महात्मना 015a
भूमिष्ठमन्तरिक्षस्थाः शरवर्षैरवाकिरन् 015c
तेषां तु शरवर्षाणि सव्यसाची परन्तपः 016a
अस्त्रैः संवार्य तेजस्वी गन्धर्वान्प्रत्यविध्यत 016c
स्थूणाकर्णेन्द्रजालं च सौरं चापि तथार्जुनः 017a
आग्नेयं चापि सौम्यं च ससर्ज कुरुनन्दनः 017c
ते दह्यमाना गन्धर्वाः कुन्तीपुत्रस्य सायकैः 018a
दैतेया इव शक्रेण विषादमगमन्परम् 018c
ऊर्ध्वमाक्रममाणाश्च शरजालेन वारिताः 019a
विसर्पमाणा भल्लैश्च वार्यन्ते सव्यसाचिना 019c
गन्धर्वांस्त्रासितान्दृष्ट्वा कुन्तीपुत्रेण धीमता 020a
चित्रसेनो गदां गृह्य सव्यसाचिनमाद्रवत् 020c
तस्याभिपततस्तूर्णं गदाहस्तस्य संयुगे 021a
गदां सर्वायसीं पार्थः शरैश्चिच्छेद सप्तधा 021c
स गदां बहुधा दृष्ट्वा कृत्तां बाणैस्तरस्विना 022a
संवृत्य विद्ययात्मानं योधयामास पाण्डवम् 022c
अस्त्राणि तस्य दिव्यानि योधयामास खे स्थितः 022e
गन्धर्वराजो बलवान्माययान्तर्हितस्तदा 023a
अन्तर्हितं समालक्ष्य प्रहरन्तमथार्जुनः 023c
ताडयामास खचरैर्दिव्यास्त्रप्रतिमन्त्रितैः 023e
अन्तर्धानवधं चास्य चक्रे क्रुद्धोऽर्जुनस्तदा 024a
शब्दवेध्यमुपाश्रित्य बहुरूपो धनञ्जयः 024c
स वध्यमानस्तैरस्त्रैरर्जुनेन महात्मना 025a
अथास्य दर्शयामास तदात्मानं प्रियः सखा 025c
चित्रसेनमथालक्ष्य सखायं युधि दुर्बलम् 026a
सञ्जहारास्त्रमथ तत्प्रसृष्टं पाण्डवर्षभः 026c
दृष्ट्वा तु पाण्डवाः सर्वे संहृतास्त्रं धनञ्जयम् 027a
सञ्जह्रुः प्रद्रुतानश्वाञ्शरवेगान्धनूंषि च 027c
चित्रसेनश्च भीमश्च सव्यसाची यमावपि 028a
पृष्ट्वा कौशलमन्योन्यं रथेष्वेवावतस्थिरे 028c