वैशम्पायन उवाच 001
युधिष्ठिरवचः श्रुत्वा भीमसेनपुरोगमाः 001a
प्रहृष्टवदनाः सर्वे समुत्तस्थुर्नरर्षभाः 001c
अभेद्यानि ततः सर्वे समनह्यन्त भारत 002a
जाम्बूनदविचित्राणि कवचानि महारथाः 002c
ते दंशिता रथैः सर्वे ध्वजिनः सशरासनाः 003a
पाण्डवाः प्रत्यदृश्यन्त ज्वलिता इव पावकाः 003c
तान्रथान्साधु सम्पन्नान्संयुक्ताञ्जवनैर्हयैः 004a
आस्थाय रथशार्दूलाः शीघ्रमेव ययुस्ततः 004c
ततः कौरवसैन्यानां प्रादुरासीन्महास्वनः 005a
प्रयातान्सहितान्दृष्ट्वा पाण्डुपुत्रान्महारथान् 005c
जितकाशिनश्च खचरास्त्वरिताश्च महारथाः 006a
क्षणेनैव वने तस्मिन्समाजग्मुरभीतवत् 006c
न्यवर्तन्त ततः सर्वे गन्धर्वा जितकाशिनः 007a
दृष्ट्वा रथगतान्वीरान्पाण्डवांश्चतुरो रणे 007c
तांस्तु विभ्राजतो दृष्ट्वा लोकपालानिवोद्यतान् 008a
व्यूढानीका व्यतिष्ठन्त गन्धमादनवासिनः 008c
राज्ञस्तु वचनं श्रुत्वा धर्मराजस्य धीमतः 009a
क्रमेण मृदुना युद्धमुपक्रामन्त भारत 009c
न तु गन्धर्वराजस्य सैनिका मन्दचेतसः 010a
शक्यन्ते मृदुना श्रेयः प्रतिपादयितुं तदा 010c
ततस्तान्युधि दुर्धर्षः सव्यसाची परन्तपः 011a
सान्त्वपूर्वमिदं वाक्यमुवाच खचरान्रणे 011c
नैतद्गन्धर्वराजस्य युक्तं कर्म जुगुप्सितम् 012a
परदाराभिमर्शश्च मानुषैश्च समागमः 012c
उत्सृजध्वं महावीर्यान्धृतराष्ट्रसुतानिमान् 013a
दारांश्चैषां विमुञ्चध्वं धर्मराजस्य शासनात् 013c
एवमुक्तास्तु गन्धर्वाः पाण्डवेन यशस्विना 014a
उत्स्मयन्तस्तदा पार्थमिदं वचनमब्रुवन् 014c
एकस्यैव वयं तात कुर्याम वचनं भुवि 015a
यस्य शासनमाज्ञाय चराम विगतज्वराः 015c
तेनैकेन यथादिष्टं तथा वर्ताम भारत 016a
न शास्ता विद्यतेऽस्माकमन्यस्तस्मात्सुरेश्वरात् 016c
एवमुक्तस्तु गन्धर्वैः कुन्तीपुत्रो धनञ्जयः 017a
गन्धर्वान्पुनरेवेदं वचनं प्रत्यभाषत 017c
यदि साम्ना न मोक्षध्वं गन्धर्वा धृतराष्ट्रजम् 018a
मोक्षयिष्यामि विक्रम्य स्वयमेव सुयोधनम् 018c
एवमुक्त्वा ततः पार्थः सव्यसाची धनञ्जयः 019a
ससर्ज निशितान्बाणान्खचरान्खचरान्प्रति 019c
तथैव शरवर्षेण गन्धर्वास्ते बलोत्कटाः 020a
पाण्डवानभ्यवर्तन्त पाण्डवाश्च दिवौकसः 020c
ततः सुतुमुलं युद्धं गन्धर्वाणां तरस्विनाम् 021a
बभूव भीमवेगानां पाण्डवानां च भारत 021c