युधिष्ठिर उवाच 001
अस्मानभिगतांस्तात भयार्ताञ्शरणैषिणः 001a
कौरवान्विषमप्राप्तान्कथं ब्रूयास्त्वमीदृशम् 001c
भवन्ति भेदा ज्ञातीनां कलहाश्च वृकोदर 002a
प्रसक्तानि च वैराणि ज्ञातिधर्मो न नश्यति 002c
यदा तु कश्चिज्ज्ञातीनां बाह्यः प्रार्थयते कुलम् 003a
न मर्षयन्ति तत्सन्तो बाह्येनाभिप्रमर्षणम् 003c
जानाति ह्येष दुर्बुद्धिरस्मानिह चिरोषितान् 004a
स एष परिभूयास्मानकार्षीदिदमप्रियम् 004c
दुर्योधनस्य ग्रहणाद्गन्धर्वेण बलाद्रणे 005a
स्त्रीणां बाह्याभिमर्शाच्च हतं भवति नः कुलम् 005c
शरणं च प्रपन्नानां त्राणार्थं च कुलस्य नः 006a
उत्तिष्ठध्वं नरव्याघ्राः सज्जीभवत माचिरम् 006c
अर्जुनश्च यमौ चैव त्वं च भीमापराजितः 007a
मोक्षयध्वं धार्तराष्ट्रं ह्रियमाणं सुयोधनम् 007c
एते रथा नरव्याघ्राः सर्वशस्त्रसमन्विताः 008a
इन्द्रसेनादिभिः सूतैः संयताः कनकध्वजाः 008c
एतानास्थाय वै तात गन्धर्वान्योद्धुमाहवे 009a
सुयोधनस्य मोक्षाय प्रयतध्वमतन्द्रिताः 009c
य एव कश्चिद्राजन्यः शरणार्थमिहागतम् 010a
परं शक्त्याभिरक्षेत किं पुनस्त्वं वृकोदर 010c
क इहान्यो भवेत्त्राणमभिधावेति चोदितः 011a
प्राञ्जलिं शरणापन्नं दृष्ट्वा शत्रुमपि ध्रुवम् 011c
वरप्रदानं राज्यं च पुत्रजन्म च पाण्डव 012a
शत्रोश्च मोक्षणं क्लेशात्त्रीणि चैकं च तत्समम् 012c
किं ह्यभ्यधिकमेतस्माद्यदापन्नः सुयोधनः 013a
त्वद्बाहुबलमाश्रित्य जीवितं परिमार्गति 013c
स्वयमेव प्रधावेयं यदि न स्याद्वृकोदर 014a
विततोऽयं क्रतुर्वीर न हि मेऽत्र विचारणा 014c
साम्नैव तु यथा भीम मोक्षयेथाः सुयोधनम् 015a
तथा सर्वैरुपायैस्त्वं यतेथाः कुरुनन्दन 015c
न साम्ना प्रतिपद्येत यदि गन्धर्वराडसौ 016a
पराक्रमेण मृदुना मोक्षयेथाः सुयोधनम् 016c
अथासौ मृदुयुद्धेन न मुञ्चेद्भीम कौरवान् 017a
सर्वोपायैर्विमोच्यास्ते निगृह्य परिपन्थिनः 017c
एतावद्धि मया शक्यं सन्देष्टुं वै वृकोदर 018a
वैताने कर्मणि तते वर्तमाने च भारत 018c
वैशम्पायन उवाच 019
अजातशत्रोर्वचनं तच्छ्रुत्वा तु धनञ्जयः 019a
प्रतिजज्ञे गुरोर्वाक्यं कौरवाणां विमोक्षणम् 019c
अर्जुन उवाच 020
यदि साम्ना न मोक्ष्यन्ति गन्धर्वा धृतराष्ट्रजान् 020a
अद्य गन्धर्वराजस्य भूमिः पास्यति शोणितम् 020c
वैशम्पायन उवाच 021
अर्जुनस्य तु तां श्रुत्वा प्रतिज्ञां सत्यवादिनः 021a
कौरवाणां तदा राजन्पुनः प्रत्यागतं मनः 021c