वैशम्पायन उवाच 001
गन्धर्वैस्तु महाराज भग्ने कर्णे महारथे 001a
सम्प्राद्रवच्चमूः सर्वा धार्तराष्ट्रस्य पश्यतः 001c
तान्दृष्ट्वा द्रवतः सर्वान्धार्तराष्ट्रान्पराङ्मुखान् 002a
दुर्योधनो महाराज नासीत्तत्र पराङ्मुखः 002c
तामापतन्तीं सम्प्रेक्ष्य गन्धर्वाणां महाचमूम् 003a
महता शरवर्षेण सोऽभ्यवर्षदरिन्दमः 003c
अचिन्त्य शरवर्षं तु गन्धर्वास्तस्य तं रथम् 004a
दुर्योधनं जिघांसन्तः समन्तात्पर्यवारयन् 004c
युगमीषां वरूथं च तथैव ध्वजसारथी 005a
अश्वांस्त्रिवेणुं तल्पं च तिलशोऽभ्यहनन्रथम् 005c
दुर्योधनं चित्रसेनो विरथं पतितं भुवि 006a
अभिद्रुत्य महाबाहुर्जीवग्राहमथाग्रहीत् 006c
तस्मिन्गृहीते राजेन्द्र स्थितं दुःशासनं रथे 007a
पर्यगृह्णन्त गन्धर्वाः परिवार्य समन्ततः 007c
विविंशतिं चित्रसेनमादायान्ये प्रदुद्रुवुः 008a
विन्दानुविन्दावपरे राजदारांश्च सर्वशः 008c
सैन्यास्तु धार्तराष्ट्रस्य गन्धर्वैः समभिद्रुताः 009a
पूर्वं प्रभग्नैः सहिताः पाण्डवानभ्ययुस्तदा 009c
शकटापणवेश्याश्च यानयुग्यं च सर्वशः 010a
शरणं पाण्डवाञ्जग्मुर्ह्रियमाणे महीपतौ 010c
प्रियदर्शनो महाबाहुर्धार्तराष्ट्रो महाबलः 011a
गन्धर्वैर्ह्रियते राजा पार्थास्तमनुधावत 011c
दुःशासनो दुर्विषहो दुर्मुखो दुर्जयस्तथा 012a
बद्ध्वा ह्रियन्ते गन्धर्वै राजदाराश्च सर्वशः 012c
इति दुर्योधनामात्याः क्रोशन्तो राजगृद्धिनः 013a
आर्ता दीनस्वराः सर्वे युधिष्ठिरमुपागमन् 013c
तांस्तथा व्यथितान्दीनान्भिक्षमाणान्युधिष्ठिरम् 014a
वृद्धान्दुर्योधनामात्यान्भीमसेनोऽभ्यभाषत 014c
अन्यथा वर्तमानानामर्थो जातोऽयमन्यथा 015a
अस्माभिर्यदनुष्ठेयं गन्धर्वैस्तदनुष्ठितम् 015c
दुर्मन्त्रितमिदं तात राज्ञो दुर्द्यूतदेविनः 016a
द्वेष्टारमन्ये क्लीबस्य पातयन्तीति नः श्रुतम् 016c
तदिदं कृतं नः प्रत्यक्षं गन्धर्वैरतिमानुषम् 017a
दिष्ट्या लोके पुमानस्ति कश्चिदस्मत्प्रिये स्थितः 017c
येनास्माकं हृतो भार आसीनानां सुखावहः 017e
शीतवातातपसहांस्तपसा चैव कर्शितान् 018a
समस्थो विषमस्थान्हि द्रष्टुमिच्छति दुर्मतिः 018c
अधर्मचारिणस्तस्य कौरव्यस्य दुरात्मनः 019a
ये शीलमनुवर्तन्ते ते पश्यन्ति पराभवम् 019c
अधर्मो हि कृतस्तेन येनैतदुपशिक्षितम् 020a
अनृशंसास्तु कौन्तेयास्तस्याध्यक्षान्ब्रवीमि वः 020c
एवं ब्रुवाणं कौन्तेयं भीमसेनममर्षणम् 021a
न कालः परुषस्यायमिति राजाभ्यभाषत 021c