वैशम्पायन उवाच 001
ततस्ते सहिताः सर्वे दुर्योधनमुपागमन् 001a
अब्रुवंश्च महाराज यदूचुः कौरवं प्रति 001c
गन्धर्वैर्वारिते सैन्ये धार्तराष्ट्रः प्रतापवान् 002a
अमर्षपूर्णः सैन्यानि प्रत्यभाषत भारत 002c
शासतैनानधर्मज्ञान्मम विप्रियकारिणः 003a
यदि प्रक्रीडितो देवैः सर्वैः सह शतक्रतुः 003c
दुर्योधनवचः श्रुत्वा धार्तराष्ट्रा महाबलाः 004a
सर्व एवाभिसन्नद्धा योधाश्चापि सहस्रशः 004c
ततः प्रमथ्य गन्धर्वांस्तद्वनं विविशुर्बलात् 005a
सिंहनादेन महता पूरयन्तो दिशो दश 005c
ततोऽपरैरवार्यन्त गन्धर्वैः कुरुसैनिकाः 006a
ते वार्यमाणा गन्धर्वैः साम्नैव वसुधाधिप 006c
ताननादृत्य गन्धर्वांस्तद्वनं विविशुर्महत् 006e
यदा वाचा न तिष्ठन्ति धार्तराष्ट्राः सराजकाः 007a
ततस्ते खेचराः सर्वे चित्रसेने न्यवेदयन् 007c
गन्धर्वराजस्तान्सर्वानब्रवीत्कौरवान्प्रति 008a
अनार्याञ्शासतेत्येवं चित्रसेनोऽत्यमर्षणः 008c
अनुज्ञातास्तु गन्धर्वाश्चित्रसेनेन भारत 009a
प्रगृहीतायुधाः सर्वे धार्तराष्ट्रानभिद्रवन् 009c
तान्दृष्ट्वा पततः शीघ्रान्गन्धर्वानुद्यतायुधान् 010a
सर्वे ते प्राद्रवन्सङ्ख्ये धार्तराष्ट्रस्य पश्यतः 010c
तान्दृष्ट्वा द्रवतः सर्वान्धार्तराष्ट्रान्पराङ्मुखान् 011a
वैकर्तनस्तदा वीरो नासीत्तत्र पराङ्मुखः 011c
आपतन्तीं तु सम्प्रेक्ष्य गन्धर्वाणां महाचमूम् 012a
महता शरवर्षेण राधेयः प्रत्यवारयत् 012c
क्षुरप्रैर्विशिखैर्भल्लैर्वत्सदन्तैस्तथायसैः 013a
गन्धर्वाञ्शतशोऽभ्यघ्नल्ँलघुत्वात्सूतनन्दनः 013c
पातयन्नुत्तमाङ्गानि गन्धर्वाणां महारथः 014a
क्षणेन व्यधमत्सर्वां चित्रसेनस्य वाहिनीम् 014c
ते वध्यमाना गन्धर्वाः सूतपुत्रेण धीमता 015a
भूय एवाभ्यवर्तन्त शतशोऽथ सहस्रशः 015c
गन्धर्वभूता पृथिवी क्षणेन समपद्यत 016a
आपतद्भिर्महावेगैश्चित्रसेनस्य सैनिकैः 016c
अथ दुर्योधनो राजा शकुनिश्चापि सौबलः 017a
दुःशासनो विकर्णश्च ये चान्ये धृतराष्ट्रजाः 017c
न्यहनंस्तत्तदा सैन्यं रथैर्गरुडनिस्वनैः 017e
भूयश्च योधयामासुः कृत्वा कर्णमथाग्रतः 018a
महता रथघोषेण हयचारेण चाप्युत 018c
वैकर्तनं परीप्सन्तो गन्धर्वान्समवारयन् 018e
ततः सन्न्यपतन्सर्वे गन्धर्वाः कौरवैः सह 019a
तदा सुतुमुलं युद्धमभवल्लोमहर्षणम् 019c
ततस्ते मृदवोऽभूवन्गन्धर्वाः शरपीडिताः 020a
उच्चुक्रुशुश्च कौरव्या गन्धर्वान्प्रेक्ष्य पीडितान् 020c
गन्धर्वांस्त्रासितान्दृष्ट्वा चित्रसेनोऽत्यमर्षणः 021a
उत्पपातासनात्क्रुद्धो वधे तेषां समाहितः 021c
ततो मायास्त्रमास्थाय युयुधे चित्रमार्गवित् 022a
तयामुह्यन्त कौरव्याश्चित्रसेनस्य मायया 022c
एकैको हि तदा योधो धार्तराष्ट्रस्य भारत 023a
पर्यवर्तत गन्धर्वैर्दशभिर्दशभिः सह 023c
ततः सम्पीड्यमानास्ते बलेन महता तदा 024a
प्राद्रवन्त रणे भीता यत्र राजा युधिष्ठिरः 024c
भज्यमानेष्वनीकेषु धार्तराष्ट्रेषु सर्वशः 025a
कर्णो वैकर्तनो राजंस्तस्थौ गिरिरिवाचलः 025c
दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः 026a
गन्धर्वान्योधयाञ्चक्रुः समरे भृशविक्षताः 026c
सर्व एव तु गन्धर्वाः शतशोऽथ सहस्रशः 027a
जिघांसमानाः सहिताः कर्णमभ्यद्रवन्रणे 027c
असिभिः पट्टिशैः शूलैर्गदाभिश्च महाबलाः 028a
सूतपुत्रं जिघांसन्तः समन्तात्पर्यवारयन् 028c
अन्येऽस्य युगमच्छिन्दन्ध्वजमन्ये न्यपातयन् 029a
ईषामन्ये हयानन्ये सूतमन्ये न्यपातयन् 029c
अन्ये छत्रं वरूथं च बन्धुरं च तथापरे 030a
गन्धर्वा बहुसाहस्राः खण्डशोऽभ्यहनन्रथम् 030c
ततो रथादवप्लुत्य सूतपुत्रोऽसिचर्मभृत् 031a
विकर्णरथमास्थाय मोक्षायाश्वानचोदयत् 031c