वैशम्पायन उवाच 001
अथ दुर्योधनो राजा तत्र तत्र वने वसन् 001a
जगाम घोषानभितस्तत्र चक्रे निवेशनम् 001c
रमणीये समाज्ञाते सोदके समहीरुहे 002a
देशे सर्वगुणोपेते चक्रुरावसथं नराः 002c
तथैव तत्समीपस्थान्पृथगावसथान्बहून् 003a
कर्णस्य शकुनेश्चैव भ्रातॄणां चैव सर्वशः 003c
ददर्श स तदा गावः शतशोऽथ सहस्रशः 004a
अङ्कैर्लक्षैश्च ताः सर्वा लक्षयामास पार्थिवः 004c
अङ्कयामास वत्सांश्च जज्ञे चोपसृतास्त्वपि 005a
बालवत्साश्च या गावः कालयामास ता अपि 005c
अथ स स्मारणं कृत्वा लक्षयित्वा त्रिहायनान् 006a
वृतो गोपालकैः प्रीतो व्यहरत्कुरुनन्दनः 006c
स च पौरजनः सर्वः सैनिकाश्च सहस्रशः 007a
यथोपजोषं चिक्रीडुर्वने तस्मिन्यथामराः 007c
ततो गोपाः प्रगातारः कुशला नृत्तवादिते 008a
धार्तराष्ट्रमुपातिष्ठन्कन्याश्चैव स्वलङ्कृताः 008c
स स्त्रीगणवृतो राजा प्रहृष्टः प्रददौ वसु 009a
तेभ्यो यथार्हमन्नानि पानानि विविधानि च 009c
ततस्ते सहिताः सर्वे तरक्षून्महिषान्मृगान् 010a
गवयर्क्षवराहांश्च समन्तात्पर्यकालयन् 010c
स ताञ्शरैर्विनिर्भिन्दन्गजान्बध्नन्महावने 011a
रमणीयेषु देशेषु ग्राहयामास वै मृगान् 011c
गोरसानुपयुञ्जान उपभोगांश्च भारत 012a
पश्यन्सुरमणीयानि पुष्पितानि वनानि च 012c
मत्तभ्रमरजुष्टानि बर्हिणाभिरुतानि च 013a
अगच्छदानुपूर्व्येण पुण्यं द्वैतवनं सरः 013c
ऋद्ध्या परमया युक्तो महेन्द्र इव वज्रभृत् 013e
यदृच्छया च तदहो धर्मपुत्रो युधिष्ठिरः 014a
ईजे राजर्षियज्ञेन सद्यस्केन विशां पते 014c
दिव्येन विधिना राजा वन्येन कुरुसत्तमः 014e
कृत्वा निवेशमभितः सरसस्तस्य कौरवः 015a
द्रौपद्या सहितो धीमान्धर्मपत्न्या नराधिपः 015c
ततो दुर्योधनः प्रेष्यानादिदेश सहानुजः 016a
आक्रीडावसथाः क्षिप्रं क्रियन्तामिति भारत 016c
ते तथेत्येव कौरव्यमुक्त्वा वचनकारिणः 017a
चिकीर्षन्तस्तदाक्रीडाञ्जग्मुर्द्वैतवनं सरः 017c
सेनाग्रं धार्तराष्ट्रस्य प्राप्तं द्वैतवनं सरः 018a
प्रविशन्तं वनद्वारि गन्धर्वाः समवारयन् 018c
तत्र गन्धर्वराजो वै पूर्वमेव विशां पते 019a
कुबेरभवनाद्राजन्नाजगाम गणावृतः 019c
गणैरप्सरसां चैव त्रिदशानां तथात्मजैः 020a
विहारशीलः क्रीडार्थं तेन तत्संवृतं सरः 020c
तेन तत्संवृतं दृष्ट्वा ते राजपरिचारकाः 021a
प्रतिजग्मुस्ततो राजन्यत्र दुर्योधनो नृपः 021c
स तु तेषां वचः श्रुत्वा सैनिकान्युद्धदुर्मदान् 022a
प्रेषयामास कौरव्य उत्सारयत तानिति 022c
तस्य तद्वचनं श्रुत्वा राज्ञः सेनाग्रयायिनः 023a
सरो द्वैतवनं गत्वा गन्धर्वानिदमब्रुवन् 023c
राजा दुर्योधनो नाम धृतराष्ट्रसुतो बली 024a
विजिहीर्षुरिहायाति तदर्थमपसर्पत 024c
एवमुक्तास्तु गन्धर्वाः प्रहसन्तो विशां पते 025a
प्रत्यब्रुवंस्तान्पुरुषानिदं सुपरुषं वचः 025c
न चेतयति वो राजा मन्दबुद्धिः सुयोधनः 026a
योऽस्मानाज्ञापयत्येवं वश्यानिव दिवौकसः 026c
यूयं मुमूर्षवश्चापि मन्दप्रज्ञा न संशयः 027a
ये तस्य वचनादेवमस्मान्ब्रूत विचेतसः 027c
गच्छत त्वरिताः सर्वे यत्र राजा स कौरवः 028a
द्वेष्यं माद्यैव गच्छध्वं धर्मराजनिवेशनम् 028c
एवमुक्तास्तु गन्धर्वै राज्ञः सेनाग्रयायिनः 029a
सम्प्राद्रवन्यतो राजा धृतराष्ट्रसुतोऽभवत् 029c