वैशम्पायन उवाच 001
धृतराष्ट्रं ततः सर्वे ददृशुर्जनमेजय 001a
पृष्ट्वा सुखमथो राज्ञः पृष्ट्वा राज्ञा च भारत 001c
ततस्तैर्विहितः पूर्वं समङ्गो नाम बल्लवः 002a
समीपस्थास्तदा गावो धृतराष्ट्रे न्यवेदयत् 002c
अनन्तरं च राधेयः शकुनिश्च विशां पते 003a
आहतुः पार्थिवश्रेष्ठं धृतराष्ट्रं जनाधिपम् 003c
रमणीयेषु देशेषु घोषाः सम्प्रति कौरव 004a
स्मारणासमयः प्राप्तो वत्सानामपि चाङ्कनम् 004c
मृगया चोचिता राजन्नस्मिन्काले सुतस्य ते 005a
दुर्योधनस्य गमनं त्वमनुज्ञातुमर्हसि 005c
धृतराष्ट्र उवाच 006
मृगया शोभना तात गवां च समवेक्षणम् 006a
विश्रम्भस्तु न गन्तव्यो बल्लवानामिति स्मरे 006c
ते तु तत्र नरव्याघ्राः समीप इति नः श्रुतम् 007a
अतो नाभ्यनुजानामि गमनं तत्र वः स्वयम् 007c
छद्मना निर्जितास्ते हि कर्शिताश्च महावने 008a
तपोनित्याश्च राधेय समर्थाश्च महारथाः 008c
धर्मराजो न सङ्क्रुध्येद्भीमसेनस्त्वमर्षणः 009a
यज्ञसेनस्य दुहिता तेज एव तु केवलम् 009c
यूयं चाप्यपराध्येयुर्दर्पमोहसमन्विताः 010a
ततो विनिर्दहेयुस्ते तपसा हि समन्विताः 010c
अथ वा सायुधा वीरा मन्युनाभिपरिप्लुताः 011a
सहिता बद्धनिस्त्रिंशा दहेयुः शस्त्रतेजसा 011c
अथ यूयं बहुत्वात्तानारभध्वं कथञ्चन 012a
अनार्यं परमं तत्स्यादशक्यं तच्च मे मतम् 012c
उषितो हि महाबाहुरिन्द्रलोके धनञ्जयः 013a
दिव्यान्यस्त्राण्यवाप्याथ ततः प्रत्यागतो वनम् 013c
अकृतास्त्रेण पृथिवी जिता बीभत्सुना पुरा 014a
किं पुनः स कृतास्त्रोऽद्य न हन्याद्वो महारथः 014c
अथ वा मद्वचः श्रुत्वा तत्र यत्ता भविष्यथ 015a
उद्विग्नवासो विश्रम्भाद्दुःखं तत्र भविष्यति 015c
अथ वा सैनिकाः केचिदपकुर्युर्युधिष्ठिरे 016a
तदबुद्धिकृतं कर्म दोषमुत्पादयेच्च वः 016c
तस्माद्गच्छन्तु पुरुषाः स्मारणायाप्तकारिणः 017a
न स्वयं तत्र गमनं रोचये तव भारत 017c
शकुनिरुवाच 018
धर्मज्ञः पाण्डवो ज्येष्ठः प्रतिज्ञातं च संसदि 018a
तेन द्वादश वर्षाणि वस्तव्यानीति भारत 018c
अनुवृत्ताश्च ते सर्वे पाण्डवा धर्मचारिणः 019a
युधिष्ठिरश्च कौन्तेयो न नः कोपं करिष्यति 019c
मृगयां चैव नो गन्तुमिच्छा संवर्धते भृशम् 020a
स्मारणं च चिकीर्षामो न तु पाण्डवदर्शनम् 020c
न चानार्यसमाचारः कश्चित्तत्र भविष्यति 021a
न च तत्र गमिष्यामो यत्र तेषां प्रतिश्रयः 021c
वैशम्पायन उवाच 022
एवमुक्तः शकुनिना धृतराष्ट्रो जनेश्वरः 022a
दुर्योधनं सहामात्यमनुजज्ञे न कामतः 022c
अनुज्ञातस्तु गान्धारिः कर्णेन सहितस्तदा 023a
निर्ययौ भरतश्रेष्ठो बलेन महता वृतः 023c
दुःशासनेन च तथा सौबलेन च देविना 024a
संवृतो भ्रातृभिश्चान्यैः स्त्रीभिश्चापि सहस्रशः 024c
तं निर्यान्तं महाबाहुं द्रष्टुं द्वैतवनं सरः 025a
पौराश्चानुययुः सर्वे सहदारा वनं च तत् 025c
अष्टौ रथसहस्राणि त्रीणि नागायुतानि च 026a
पत्तयो बहुसाहस्रा हयाश्च नवतिः शताः 026c
शकटापणवेश्याश्च वणिजो बन्दिनस्तथा 027a
नराश्च मृगयाशीलाः शतशोऽथ सहस्रशः 027c
ततः प्रयाणे नृपतेः सुमहानभवत्स्वनः 028a
प्रावृषीव महावायोरुद्धतस्य विशां पते 028c
गव्यूतिमात्रे न्यवसद्राजा दुर्योधनस्तदा 029a
प्रयातो वाहनैः सर्वैस्ततो द्वैतवनं सरः 029c