वैशम्पायन उवाच 001
कर्णस्य वचनं श्रुत्वा राजा दुर्योधनस्तदा 001a
हृष्टो भूत्वा पुनर्दीन इदं वचनमब्रवीत् 001c
ब्रवीषि यदिदं कर्ण सर्वं मे मनसि स्थितम् 002a
न त्वभ्यनुज्ञां लप्स्यामि गमने यत्र पाण्डवाः 002c
परिदेवति तान्वीरान्धृतराष्ट्रो महीपतिः 003a
मन्यतेऽभ्यधिकांश्चापि तपोयोगेन पाण्डवान् 003c
अथ वाप्यनुबुध्येत नृपोऽस्माकं चिकीर्षितम् 004a
एवमप्यायतिं रक्षन्नाभ्यनुज्ञातुमर्हति 004c
न हि द्वैतवने किञ्चिद्विद्यतेऽन्यत्प्रयोजनम् 005a
उत्सादनमृते तेषां वनस्थानां मम द्विषाम् 005c
जानासि हि यथा क्षत्ता द्यूतकाल उपस्थिते 006a
अब्रवीद्यच्च मां त्वां च सौबलं च वचस्तदा 006c
तानि पूर्वाणि वाक्यानि यच्चान्यत्परिदेवितम् 007a
विचिन्त्य नाधिगच्छामि गमनायेतराय वा 007c
ममापि हि महान्हर्षो यदहं भीमफल्गुनौ 008a
क्लिष्टावरण्ये पश्येयं कृष्णया सहिताविति 008c
न तथा प्राप्नुयां प्रीतिमवाप्य वसुधामपि 009a
दृष्ट्वा यथा पाण्डुसुतान्वल्कलाजिनवाससः 009c
किं नु स्यादधिकं तस्माद्यदहं द्रुपदात्मजाम् 010a
द्रौपदीं कर्ण पश्येयं काषायवसनां वने 010c
यदि मां धर्मराजश्च भीमसेनश्च पाण्डवः 011a
युक्तं परमया लक्ष्म्या पश्येतां जीवितं भवेत् 011c
उपायं न तु पश्यामि येन गच्छेम तद्वनम् 012a
यथा चाभ्यनुजानीयाद्गच्छन्तं मां महीपतिः 012c
स सौबलेन सहितस्तथा दुःशासनेन च 013a
उपायं पश्य निपुणं येन गच्छेम तद्वनम् 013c
अहमप्यद्य निश्चित्य गमनायेतराय वा 014a
काल्यमेव गमिष्यामि समीपं पार्थिवस्य ह 014c
मयि तत्रोपविष्टे तु भीष्मे च कुरुसत्तमे 015a
उपायो यो भवेद्दृष्टस्तं ब्रूयाः सहसौबलः 015c
ततो भीष्मस्य राज्ञश्च निशम्य गमनं प्रति 016a
व्यवसायं करिष्येऽहमनुनीय पितामहम् 016c
तथेत्युक्त्वा तु ते सर्वे जग्मुरावसथान्प्रति 017a
व्युषितायां रजन्यां तु कर्णो राजानमभ्ययात् 017c
ततो दुर्योधनं कर्णः प्रहसन्निदमब्रवीत् 018a
उपायः परिदृष्टोऽयं तं निबोध जनेश्वर 018c
घोषा द्वैतवने सर्वे त्वत्प्रतीक्षा नराधिप 019a
घोषयात्रापदेशेन गमिष्यामो न संशयः 019c
उचितं हि सदा गन्तुं घोषयात्रां विशां पते 020a
एवं च त्वां पिता राजन्समनुज्ञातुमर्हति 020c
तथा कथयमानौ तौ घोषयात्राविनिश्चयम् 021a
गान्धारराजः शकुनिः प्रत्युवाच हसन्निव 021c
उपायोऽयं मया दृष्टो गमनाय निरामयः 022a
अनुज्ञास्यति नो राजा चोदयिष्यति चाप्युत 022c
घोषा द्वैतवने सर्वे त्वत्प्रतीक्षा नराधिप 023a
घोषयात्रापदेशेन गमिष्यामो न संशयः 023c
ततः प्रहसिताः सर्वे तेऽन्योन्यस्य तलान्ददुः 024a
तदेव च विनिश्चित्य ददृशुः कुरुसत्तमम् 024c