वैशम्पायन उवाच 001
धृतराष्ट्रस्य तद्वाक्यं निशम्य सहसौबलः 001a
दुर्योधनमिदं काले कर्णो वचनमब्रवीत् 001c
प्रव्राज्य पाण्डवान्वीरान्स्वेन वीर्येण भारत 002a
भुङ्क्ष्वेमां पृथिवीमेको दिवं शम्बरहा यथा 002c
प्राच्याश्च दाक्षिणात्याश्च प्रतीच्योदीच्यवासिनः 003a
कृताः करप्रदाः सर्वे राजानस्ते नराधिप 003c
या हि सा दीप्यमानेव पाण्डवान्भजते पुरा 004a
साद्य लक्ष्मीस्त्वया राजन्नवाप्ता भ्रातृभिः सह 004c
इन्द्रप्रस्थगते यां तां दीप्यमानां युधिष्ठिरे 005a
अपश्याम श्रियं राजन्नचिरं शोककर्शिताः 005c
सा तु बुद्धिबलेनेयं राज्ञस्तस्माद्युधिष्ठिरात् 006a
त्वयाक्षिप्ता महाबाहो दीप्यमानेव दृश्यते 006c
तथैव तव राजेन्द्र राजानः परवीरहन् 007a
शासनेऽधिष्ठिताः सर्वे किं कुर्म इति वादिनः 007c
तवाद्य पृथिवी राजन्निखिला सागराम्बरा 008a
सपर्वतवना देवी सग्रामनगराकरा 008c
नानावनोद्देशवती पत्तनैरुपशोभिता 008e
वन्द्यमानो द्विजै राजन्पूज्यमानश्च राजभिः 009a
पौरुषाद्दिवि देवेषु भ्राजसे रश्मिवानिव 009c
रुद्रैरिव यमो राजा मरुद्भिरिव वासवः 010a
कुरुभिस्त्वं वृतो राजन्भासि नक्षत्रराडिव 010c
ये स्म ते नाद्रियन्तेऽऽज्ञा नोद्विजन्ते कदा च न 011a
पश्यामस्ताञ्श्रिया हीनान्पाण्डवान्वनवासिनः 011c
श्रूयन्ते हि महाराज सरो द्वैतवनं प्रति 012a
वसन्तः पाण्डवाः सार्धं ब्राह्मणैर्वनवासिभिः 012c
स प्रयाहि महाराज श्रिया परमया युतः 013a
प्रतपन्पाण्डुपुत्रांस्त्वं रश्मिवानिव तेजसा 013c
स्थितो राज्ये च्युतान्राज्याच्छ्रिया हीनाञ्श्रिया वृतः 014a
असमृद्धान्समृद्धार्थः पश्य पाण्डुसुतान्नृप 014c
महाभिजनसम्पन्नं भद्रे महति संस्थितम् 015a
पाण्डवास्त्वाभिवीक्षन्तां ययातिमिव नाहुषम् 015c
यां श्रियं सुहृदश्चैव दुर्हृदश्च विशां पते 016a
पश्यन्ति पुरुषे दीप्तां सा समर्था भवत्युत 016c
समस्थो विषमस्थान्हि दुर्हृदो योऽभिवीक्षते 017a
जगतीस्थानिवाद्रिस्थः किं ततः परमं सुखम् 017c
न पुत्रधनलाभेन न राज्येनापि विन्दति 018a
प्रीतिं नृपतिशार्दूल याममित्राघदर्शनात् 018c
किं नु तस्य सुखं न स्यादाश्रमे यो धनञ्जयम् 019a
अभिवीक्षेत सिद्धार्थो वल्कलाजिनवाससम् 019c
सुवाससो हि ते भार्या वल्कलाजिनवाससम् 020a
पश्यन्त्वसुखितां कृष्णां सा च निर्विद्यतां पुनः 020c
विनिन्दतां तथात्मानं जीवितं च धनच्युता 020e
न तथा हि सभामध्ये तस्या भवितुमर्हति 021a
वैमनस्यं यथा दृष्ट्वा तव भार्याः स्वलङ्कृताः 021c
एवमुक्त्वा तु राजानं कर्णः शकुनिना सह 022a
तूष्णीं बभूवतुरुभौ वाक्यान्ते जनमेजय 022c