जनमेजय उवाच 001
एवं वने वर्तमाना नराग्र्याः शीतोष्णवातातपकर्शिताङ्गाः 001a
सरस्तदासाद्य वनं च पुण्यं ततः परं किमकुर्वन्त पार्थाः 001c
वैशम्पायन उवाच 002
सरस्तदासाद्य तु पाण्डुपुत्रा जनं समुत्सृज्य विधाय चैषाम् 002a
वनानि रम्याण्यथ पर्वतांश्च नदीप्रदेशांश्च तदा विचेरुः 002c
तथा वने तान्वसतः प्रवीरान्स्वाध्यायवन्तश्च तपोधनाश्च 003a
अभ्याययुर्वेदविदः पुराणास्तान्पूजयामासुरथो नराग्र्याः 003c
ततः कदाचित्कुशलः कथासु विप्रोऽभ्यगच्छद्भुवि कौरवेयान् 004a
स तैः समेत्याथ यदृच्छयैव वैचित्रवीर्यं नृपमभ्यगच्छत् 004c
अथोपविष्टः प्रतिसत्कृतश्च वृद्धेन राज्ञा कुरुसत्तमेन 005a
प्रचोदितः सन्कथयाम्बभूव धर्मानिलेन्द्रप्रभवान्यमौ च 005c
कृशांश्च वातातपकर्शिताङ्गान्दुःखस्य चोग्रस्य मुखे प्रपन्नान् 006a
तां चाप्यनाथामिव वीरनाथां कृष्णां परिक्लेशगुणेन युक्ताम् 006c
ततः कथां तस्य निशम्य राजा वैचित्रवीर्यः कृपयाभितप्तः 007a
वने स्थितान्पार्थिवपुत्रपौत्राञ्श्रुत्वा तदा दुःखनदीं प्रपन्नान् 007c
प्रोवाच दैन्याभिहतान्तरात्मा निःश्वासबाष्पोपहतः स पार्थान् 008a
वाचं कथञ्चित्स्थिरतामुपेत्य तत्सर्वमात्मप्रभवं विचिन्त्य 008c
कथं नु सत्यः शुचिरार्यवृत्तो ज्येष्ठः सुतानां मम धर्मराजः 009a
अजातशत्रुः पृथिवीतलस्थः शेते पुरा राङ्कवकूटशायी 009c
प्रबोध्यते मागधसूतपूगैर्नित्यं स्तुवद्भिः स्वयमिन्द्रकल्पः 010a
पतत्रिसङ्घैः स जघन्यरात्रे प्रबोध्यते नूनमिडातलस्थः 010c
कथं नु वातातपकर्शिताङ्गो वृकोदरः कोपपरिप्लुताङ्गः 011a
शेते पृथिव्यामतथोचिताङ्गः कृष्णासमक्षं वसुधातलस्थः 011c
तथार्जुनः सुकुमारो मनस्वी वशे स्थितो धर्मसुतस्य राज्ञः 012a
विदूयमानैरिव सर्वगात्रैर्ध्रुवं न शेते वसतीरमर्षात् 012c
यमौ च कृष्णां च युधिष्ठिरं च भीमं च दृष्ट्वा सुखविप्रयुक्तान् 013a
विनिःश्वसन्सर्प इवोग्रतेजा ध्रुवं न शेते वसतीरमर्षात् 013c
तथा यमौ चाप्यसुखौ सुखार्हौ समृद्धरूपावमरौ दिवीव 014a
प्रजागरस्थौ ध्रुवमप्रशान्तौ धर्मेण सत्येन च वार्यमाणौ 014c
समीरणेनापि समो बलेन समीरणस्यैव सुतो बलीयान् 015a
स धर्मपाशेन सितोग्रतेजा ध्रुवं विनिःश्वस्य सहत्यमर्षम् 015c
स चापि भूमौ परिवर्तमानो वधं सुतानां मम काङ्क्षमाणः 016a
सत्येन धर्मेण च वार्यमाणः कालं प्रतीक्षत्यधिको रणेऽन्यैः 016c
अजातशत्रौ तु जिते निकृत्या दुःशासनो यत्परुषाण्यवोचत् 017a
तानि प्रविष्टानि वृकोदराङ्गं दहन्ति मर्माग्निरिवेन्धनानि 017c
न पापकं ध्यास्यति धर्मपुत्रो धनञ्जयश्चाप्यनुवर्तते तम् 018a
अरण्यवासेन विवर्धते तु भीमस्य कोपोऽग्निरिवानिलेन 018c
स तेन कोपेन विदीर्यमाणः करं करेणाभिनिपीड्य वीरः 019a
विनिःश्वसत्युष्णमतीव घोरं दहन्निवेमान्मम पुत्रपौत्रान् 019c
गाण्डीवधन्वा च वृकोदरश्च संरम्भिणावन्तककालकल्पौ 020a
न शेषयेतां युधि शत्रुसेनां शरान्किरन्तावशनिप्रकाशान् 020c
दुर्योधनः शकुनिः सूतपुत्रो दुःशासनश्चापि सुमन्दचेताः 021a
मधु प्रपश्यन्ति न तु प्रपातं वृकोदरं चैव धनञ्जयं च 021c
शुभाशुभं पुरुषः कर्म कृत्वा प्रतीक्षते तस्य फलं स्म कर्ता 022a
स तेन युज्यत्यवशः फलेन मोक्षः कथं स्यात्पुरुषस्य तस्मात् 022c
क्षेत्रे सुकृष्टे ह्युपिते च बीजे देवे च वर्षत्यृतुकालयुक्तम् 023a
न स्यात्फलं तस्य कुतः प्रसिद्धिरन्यत्र दैवादिति चिन्तयामि 023c
कृतं मताक्षेण यथा न साधु साधुप्रवृत्तेन च पाण्डवेन 024a
मया च दुष्पुत्रवशानुगेन यथा कुरूणामयमन्तकालः 024c
ध्रुवं प्रवास्यत्यसमीरितोऽपि ध्रुवं प्रजास्यत्युत गर्भिणी या 025a
ध्रुवं दिनादौ रजनीप्रणाशस्तथा क्षपादौ च दिनप्रणाशः 025c
क्रियेत कस्मान्न परे च कुर्युर्वित्तं न दद्युः पुरुषाः कथञ्चित् 026a
प्राप्यार्थकालं च भवेदनर्थः कथं नु तत्स्यादिति तत्कुतः स्यात् 026c
कथं न भिद्येत न च स्रवेत न च प्रसिच्येदिति रक्षितव्यम् 027a
अरक्ष्यमाणः शतधा विशीर्येद्ध्रुवं न नाशोऽस्ति कृतस्य लोके 027c
गतो ह्यरण्यादपि शक्रलोकं धनञ्जयः पश्यत वीर्यमस्य 028a
अस्त्राणि दिव्यानि चतुर्विधानि ज्ञात्वा पुनर्लोकमिमं प्रपन्नः 028c
स्वर्गं हि गत्वा सशरीर एव को मानुषः पुनरागन्तुमिच्छेत् 029a
अन्यत्र कालोपहताननेकान्समीक्षमाणस्तु कुरून्मुमूर्षून् 029c
धनुर्ग्राहश्चार्जुनः सव्यसाची धनुश्च तद्गाण्डिवं लोकसारम् 030a
अस्त्राणि दिव्यानि च तानि तस्य त्रयस्य तेजः प्रसहेत को नु 030c
निशम्य तद्वचनं पार्थिवस्य दुर्योधनो रहिते सौबलश्च 031a
अबोधयत्कर्णमुपेत्य सर्वं स चाप्यहृष्टोऽभवदल्पचेताः 031c