वैशम्पायन उवाच 001
मार्कण्डेयादिभिर्विप्रैः पाण्डवैश्च महात्मभिः 001a
कथाभिरनुकूलाभिः सहासित्वा जनार्दनः 001c
ततस्तैः संविदं कृत्वा यथावन्मधुसूदनः 002a
आरुरुक्षू रथं सत्यामाह्वयामास केशवः 002c
सत्यभामा ततस्तत्र स्वजित्वा द्रुपदात्मजाम् 003a
उवाच वचनं हृद्यं यथाभावसमाहितम् 003c
कृष्णे मा भूत्तवोत्कण्ठा मा व्यथा मा प्रजागरः 004a
भर्तृभिर्देवसङ्काशैर्जितां प्राप्स्यसि मेदिनीम् 004c
न ह्येवं शीलसम्पन्ना नैवं पूजितलक्षणाः 005a
प्राप्नुवन्ति चिरं क्लेशं यथा त्वमसितेक्षणे 005c
अवश्यं च त्वया भूमिरियं निहतकण्टका 006a
भर्तृभिः सह भोक्तव्या निर्द्वन्द्वेति श्रुतं मया 006c
धार्तराष्ट्रवधं कृत्वा वैराणि प्रतियात्य च 007a
युधिष्ठिरस्थां पृथिवीं द्रष्टासि द्रुपदात्मजे 007c
यास्ताः प्रव्राजमानां त्वां प्राहसन्दर्पमोहिताः 008a
ताः क्षिप्रं हतसङ्कल्पा द्रक्ष्यसि त्वं कुरुस्त्रियः 008c
तव दुःखोपपन्नाया यैराचरितमप्रियम् 009a
विद्धि सम्प्रस्थितान्सर्वांस्तान्कृष्णे यमसादनम् 009c
पुत्रस्ते प्रतिविन्ध्यश्च सुतसोमस्तथा विभुः 010a
श्रुतकर्मार्जुनिश्चैव शतानीकश्च नाकुलिः 010c
सहदेवाच्च यो जातः श्रुतसेनस्तवात्मजः 010e
सर्वे कुशलिनो वीराः कृतास्त्राश्च सुतास्तव 011a
अभिमन्युरिव प्रीता द्वारवत्यां रता भृशम् 011c
त्वमिवैषां सुभद्रा च प्रीत्या सर्वात्मना स्थिता 012a
प्रीयते भावनिर्द्वन्द्वा तेभ्यश्च विगतज्वरा 012c
भेजे सर्वात्मना चैव प्रद्युम्नजननी तथा 013a
भानुप्रभृतिभिश्चैनान्विशिनष्टि च केशवः 013c
भोजनाच्छादने चैषां नित्यं मे श्वशुरः स्थितः 014a
रामप्रभृतयः सर्वे भजन्त्यन्धकवृष्णयः 014c
तुल्यो हि प्रणयस्तेषां प्रद्युम्नस्य च भामिनि 014e
एवमादि प्रियं प्रीत्या हृद्यमुक्त्वा मनोनुगम् 015a
गमनाय मनश्चक्रे वासुदेवरथं प्रति 015c
तां कृष्णां कृष्णमहिषी चकाराभिप्रदक्षिणम् 016a
आरुरोह रथं शौरेः सत्यभामा च भामिनी 016c
स्मयित्वा तु यदुश्रेष्ठो द्रौपदीं परिसान्त्व्य च 017a
उपावर्त्य ततः शीघ्रैर्हयैः प्रायात्परन्तपः 017c