द्रौपद्युवाच 001
इमं तु ते मार्गमपेतदोषं वक्ष्यामि चित्तग्रहणाय भर्तुः 001a
यस्मिन्यथावत्सखि वर्तमाना भर्तारमाच्छेत्स्यसि कामिनीभ्यः 001c
नैतादृशं दैवतमस्ति सत्ये सर्वेषु लोकेषु सदैवतेषु 002a
यथा पतिस्तस्य हि सर्वकामा लभ्याः प्रसादे कुपितश्च हन्यात् 002c
तस्मादपत्यं विविधाश्च भोगाः शय्यासनान्यद्भुतदर्शनानि 003a
वस्त्राणि माल्यानि तथैव गन्धाः स्वर्गश्च लोको विषमा च कीर्तिः 003c
सुखं सुखेनेह न जातु लभ्यं दुःखेन साध्वी लभते सुखानि 004a
सा कृष्णमाराधय सौहृदेन प्रेम्णा च नित्यं प्रतिकर्मणा च 004c
तथाशनैश्चारुभिरग्र्यमाल्यैर्दाक्षिण्ययोगैर्विविधैश्च गन्धैः 005a
अस्याः प्रियोऽस्मीति यथा विदित्वा त्वामेव संश्लिष्यति सर्वभावैः 005c
श्रुत्वा स्वरं द्वारगतस्य भर्तुः प्रत्युत्थिता तिष्ठ गृहस्य मध्ये 006a
दृष्ट्वा प्रविष्टं त्वरितासनेन पाद्येन चैव प्रतिपूजय त्वम् 006c
सम्प्रेषितायामथ चैव दास्यामुत्थाय सर्वं स्वयमेव कुर्याः 007a
जानातु कृष्णस्तव भावमेतं सर्वात्मना मां भजतीति सत्ये 007c
त्वत्सन्निधौ यत्कथयेत्पतिस्ते यद्यप्यगुह्यं परिरक्षितव्यम् 008a
काचित्सपत्नी तव वासुदेवं प्रत्यादिशेत्तेन भवेद्विरागः 008c
प्रियांश्च रक्तांश्च हितांश्च भर्तुस्तान्भोजयेथा विविधैरुपायैः 009a
द्वेष्यैरपक्षैरहितैश्च तस्य भिद्यस्व नित्यं कुहकोद्धतैश्च 009c
मदं प्रमादं पुरुषेषु हित्वा संयच्छ भावं प्रतिगृह्य मौनम् 010a
प्रद्युम्नसाम्बावपि ते कुमारौ नोपासितव्यौ रहिते कदाचित् 010c
महाकुलीनाभिरपापिकाभिः स्त्रीभिः सतीभिस्तव सख्यमस्तु 011a
चण्डाश्च शौण्डाश्च महाशनाश्च चौराश्च दुष्टाश्चपलाश्च वर्ज्याः 011c
एतद्यशस्यं भगवेदनं च स्वर्ग्यं तथा शत्रुनिबर्हणं च 012a
महार्हमाल्याभरणाङ्गरागा भर्तारमाराधय पुण्यगन्धा 012c