वैशम्पायन उवाच 001
उपासीनेषु विप्रेषु पाण्डवेषु महात्मसु 001a
द्रौपदी सत्यभामा च विविशाते तदा समम् 001c
जाहस्यमाने सुप्रीते सुखं तत्र निषीदतुः 001e
चिरस्य दृष्ट्वा राजेन्द्र तेऽन्योन्यस्य प्रियंवदे 002a
कथयामासतुश्चित्राः कथाः कुरुयदुक्षिताम् 002c
अथाब्रवीत्सत्यभामा कृष्णस्य महिषी प्रिया 003a
सात्राजिती याज्ञसेनीं रहसीदं सुमध्यमा 003c
केन द्रौपदि वृत्तेन पाण्डवानुपतिष्ठसि 004a
लोकपालोपमान्वीरान्यूनः परमसम्मतान् 004c
कथं च वशगास्तुभ्यं न कुप्यन्ति च ते शुभे 004e
तव वश्या हि सततं पाण्डवाः प्रियदर्शने 005a
मुखप्रेक्षाश्च ते सर्वे तत्त्वमेतद्ब्रवीहि मे 005c
व्रतचर्या तपो वापि स्नानमन्त्रौषधानि वा 006a
विद्यावीर्यं मूलवीर्यं जपहोमस्तथागदाः 006c
मम आचक्ष्व पाञ्चालि यशस्यं भगवेदनम् 007a
येन कृष्णे भवेन्नित्यं मम कृष्णो वशानुगः 007c
एवमुक्त्वा सत्यभामा विरराम यशस्विनी 008a
पतिव्रता महाभागा द्रौपदी प्रत्युवाच ताम् 008c
असत्स्त्रीणां समाचारं सत्ये मामनुपृच्छसि 009a
असदाचरिते मार्गे कथं स्यादनुकीर्तनम् 009c
अनुप्रश्नः संशयो वा नैतत्त्वय्युपपद्यते 010a
तथा ह्युपेता बुद्ध्या त्वं कृष्णस्य महिषी प्रिया 010c
यदैव भर्ता जानीयान्मन्त्रमूलपरां स्त्रियम् 011a
उद्विजेत तदैवास्याः सर्पाद्वेश्मगतादिव 011c
उद्विग्नस्य कुतः शान्तिरशान्तस्य कुतः सुखम् 012a
न जातु वशगो भर्ता स्त्रियाः स्यान्मन्त्रकारणात् 012c
अमित्रप्रहितांश्चापि गदान्परमदारुणान् 013a
मूलप्रवादैर्हि विषं प्रयच्छन्ति जिघांसवः 013c
जिह्वया यानि पुरुषस्त्वचा वाप्युपसेवते 014a
तत्र चूर्णानि दत्तानि हन्युः क्षिप्रमसंशयम् 014c
जलोदरसमायुक्ताः श्वित्रिणः पलितास्तथा 015a
अपुमांसः कृताः स्त्रीभिर्जडान्धबधिरास्तथा 015c
पापानुगास्तु पापास्ताः पतीनुपसृजन्त्युत 016a
न जातु विप्रियं भर्तुः स्त्रिया कार्यं कथञ्चन 016c
वर्ताम्यहं तु यां वृत्तिं पाण्डवेषु महात्मसु 017a
तां सर्वां शृणु मे सत्यां सत्यभामे यशस्विनि 017c
अहङ्कारं विहायाहं कामक्रोधौ च सर्वदा 018a
सदारान्पाण्डवान्नित्यं प्रयतोपचराम्यहम् 018c
प्रणयं प्रतिसङ्गृह्य निधायात्मानमात्मनि 019a
शुश्रूषुर्निरभीमाना पतीनां चित्तरक्षिणी 019c
दुर्व्याहृताच्छङ्कमाना दुःस्थिताद्दुरवेक्षितात् 020a
दुरासिताद्दुर्व्रजितादिङ्गिताध्यासितादपि 020c
सूर्यवैश्वानरनिभान्सोमकल्पान्महारथान् 021a
सेवे चक्षुर्हणः पार्थानुग्रतेजःप्रतापिनः 021c
देवो मनुष्यो गन्धर्वो युवा चापि स्वलङ्कृतः 022a
द्रव्यवानभिरूपो वा न मेऽन्यः पुरुषो मतः 022c
नाभुक्तवति नास्नाते नासंविष्टे च भर्तरि 023a
न संविशामि नाश्नामि सदा कर्मकरेष्वपि 023c
क्षेत्राद्वनाद्वा ग्रामाद्वा भर्तारं गृहमागतम् 024a
प्रत्युत्थायाभिनन्दामि आसनेनोदकेन च 024c
प्रमृष्टभाण्डा मृष्टान्ना काले भोजनदायिनी 025a
संयता गुप्तधान्या च सुसम्मृष्टनिवेशना 025c
अतिरस्कृतसम्भाषा दुःस्त्रियो नानुसेवती 026a
अनुकूलवती नित्यं भवाम्यनलसा सदा 026c
अनर्मे चापि हसनं द्वारि स्थानमभीक्ष्णशः 027a
अवस्करे चिरस्थानं निष्कुटेषु च वर्जये 027c
अतिहासातिरोषौ च क्रोधस्थानं च वर्जये 028a
निरताहं सदा सत्ये भर्तॄणामुपसेवने 028c
सर्वथा भर्तृरहितं न ममेष्टं कथञ्चन 028e
यदा प्रवसते भर्ता कुटुम्बार्थेन केनचित् 029a
सुमनोवर्णकापेता भवामि व्रतचारिणी 029c
यच्च भर्ता न पिबति यच्च भर्ता न खादति 030a
यच्च नाश्नाति मे भर्ता सर्वं तद्वर्जयाम्यहम् 030c
यथोपदेशं नियता वर्तमाना वराङ्गने 031a
स्वलङ्कृता सुप्रयता भर्तुः प्रियहिते रता 031c
ये च धर्माः कुटुम्बेषु श्वश्र्वा मे कथिताः पुरा 032a
भिक्षाबलिश्राद्धमिति स्थालीपाकाश्च पर्वसु 032c
मान्यानां मानसत्कारा ये चान्ये विदिता मया 032e
तान्सर्वाननुवर्तामि दिवारात्रमतन्द्रिता 033a
विनयान्नियमांश्चापि सदा सर्वात्मना श्रिता 033c
मृदून्सतः सत्यशीलान्सत्यधर्मानुपालिनः 034a
आशीविषानिव क्रुद्धान्पतीन्परिचराम्यहम् 034c
पत्याश्रयो हि मे धर्मो मतः स्त्रीणां सनातनः 035a
स देवः सा गतिर्नान्या तस्य का विप्रियं चरेत् 035c
अहं पतीन्नातिशये नात्यश्ने नातिभूषये 036a
नापि परिवदे श्वश्रूं सर्वदा परियन्त्रिता 036c
अवधानेन सुभगे नित्योत्थानतयैव च 037a
भर्तारो वशगा मह्यं गुरुशुश्रूषणेन च 037c
नित्यमार्यामहं कुन्तीं वीरसूं सत्यवादिनीम् 038a
स्वयं परिचराम्येका स्नानाच्छादनभोजनैः 038c
नैतामतिशये जातु वस्त्रभूषणभोजनैः 039a
नापि परिवदे चाहं तां पृथां पृथिवीसमाम् 039c
अष्टावग्रे ब्राह्मणानां सहस्राणि स्म नित्यदा 040a
भुञ्जते रुक्मपात्रीषु युधिष्ठिरनिवेशने 040c
अष्टाशीतिसहस्राणि स्नातका गृहमेधिनः 041a
त्रिंशद्दासीक एकैको यान्बिभर्ति युधिष्ठिरः 041c
दशान्यानि सहस्राणि येषामन्नं सुसंस्कृतम् 042a
ह्रियते रुक्मपात्रीभिर्यतीनामूर्ध्वरेतसाम् 042c
तान्सर्वानग्रहारेण ब्राह्मणान्ब्रह्मवादिनः 043a
यथार्हं पूजयामि स्म पानाच्छादनभोजनैः 043c
शतं दासीसहस्राणि कौन्तेयस्य महात्मनः 044a
कम्बुकेयूरधारिण्यो निष्ककण्ठ्यः स्वलङ्कृताः 044c
महार्हमाल्याभरणाः सुवर्णाश्चन्दनोक्षिताः 045a
मणीन्हेम च बिभ्रत्यो नृत्यगीतविशारदाः 045c
तासां नाम च रूपं च भोजनाच्छादनानि च 046a
सर्वासामेव वेदाहं कर्म चैव कृताकृतम् 046c
शतं दासीसहस्राणि कुन्तीपुत्रस्य धीमतः 047a
पात्रीहस्ता दिवारात्रमतिथीन्भोजयन्त्युत 047c
शतमश्वसहस्राणि दश नागायुतानि च 048a
युधिष्ठिरस्यानुयात्रमिन्द्रप्रस्थनिवासिनः 048c
एतदासीत्तदा राज्ञो यन्महीं पर्यपालयत् 049a
येषां सङ्ख्याविधिं चैव प्रदिशामि शृणोमि च 049c
अन्तःपुराणां सर्वेषां भृत्यानां चैव सर्वशः 050a
आ गोपालाविपालेभ्यः सर्वं वेद कृताकृतम् 050c
सर्वं राज्ञः समुदयमायं च व्ययमेव च 051a
एकाहं वेद्मि कल्याणि पाण्डवानां यशस्विनाम् 051c
मयि सर्वं समासज्य कुटुम्बं भरतर्षभाः 052a
उपासनरताः सर्वे घटन्ते स्म शुभानने 052c
तमहं भारमासक्तमनाधृष्यं दुरात्मभिः 053a
सुखं सर्वं परित्यज्य रात्र्यहानि घटामि वै 053c
अधृष्यं वरुणस्येव निधिपूर्णमिवोदधिम् 054a
एकाहं वेद्मि कोशं वै पतीनां धर्मचारिणाम् 054c
अनिशायां निशायां च सहायाः क्षुत्पिपासयोः 055a
आराधयन्त्याः कौरव्यांस्तुल्या रात्रिरहश्च मे 055c
प्रथमं प्रतिबुध्यामि चरमं संविशामि च 056a
नित्यकालमहं सत्ये एतत्संवननं मम 056c
एतज्जानाम्यहं कर्तुं भर्तृसंवननं महत् 057a
असत्स्त्रीणां समाचारं नाहं कुर्यां न कामये 057c
तच्छ्रुत्वा धर्मसहितं व्याहृतं कृष्णया तदा 058a
उवाच सत्या सत्कृत्य पाञ्चालीं धर्मचारिणीम् 058c
अभिपन्नास्मि पाञ्चालि याज्ञसेनि क्षमस्व मे 059a
कामकारः सखीनां हि सोपहासं प्रभाषितुम् 059c