मार्कण्डेय उवाच 001
यदाभिषिक्तो भगवान्सेनापत्येन पावकिः 001a
तदा सम्प्रस्थितः श्रीमान्हृष्टो भद्रवटं हरः 001c
रथेनादित्यवर्णेन पार्वत्या सहितः प्रभुः 001e
सहस्रं तस्य सिंहानां तस्मिन्युक्तं रथोत्तमे 002a
उत्पपात दिवं शुभ्रं कालेनाभिप्रचोदितः 002c
ते पिबन्त इवाकाशं त्रासयन्तश्चराचरान् 003a
सिंहा नभस्यगच्छन्त नदन्तश्चारुकेसराः 003c
तस्मिन्रथे पशुपतिः स्थितो भात्युमया सह 004a
विद्युता सहितः सूर्यः सेन्द्रचापे घने यथा 004c
अग्रतस्तस्य भगवान्धनेशो गुह्यकैः सह 005a
आस्थाय रुचिरं याति पुष्पकं नरवाहनः 005c
ऐरावतं समास्थाय शक्रश्चापि सुरैः सह 006a
पृष्ठतोऽनुययौ यान्तं वरदं वृषभध्वजम् 006c
जम्भकैर्यक्षरक्षोभिः स्रग्विभिः समलङ्कृतः 007a
यात्यमोघो महायक्षो दक्षिणं पक्षमास्थितः 007c
तस्य दक्षिणतो देवा मरुतश्चित्रयोधिनः 008a
गच्छन्ति वसुभिः सार्धं रुद्रैश्च सह सङ्गताः 008c
यमश्च मृत्युना सार्धं सर्वतः परिवारितः 009a
घोरैर्व्याधिशतैर्याति घोररूपवपुस्तथा 009c
यमस्य पृष्ठतश्चैव घोरस्त्रिशिखरः शितः 010a
विजयो नाम रुद्रस्य याति शूलः स्वलङ्कृतः 010c
तमुग्रपाशो वरुणो भगवान्सलिलेश्वरः 011a
परिवार्य शनैर्याति यादोभिर्विविधैर्वृतः 011c
पृष्ठतो विजयस्यापि याति रुद्रस्य पट्टिशः 012a
गदामुसलशक्त्याद्यैर्वृतः प्रहरणोत्तमैः 012c
पट्टिशं त्वन्वगाद्राजंश्छत्रं रौद्रं महाप्रभम् 013a
कमण्डलुश्चाप्यनु तं महर्षिगणसंवृतः 013c
तस्य दक्षिणतो भाति दण्डो गच्छञ्श्रिया वृतः 014a
भृग्वङ्गिरोभिः सहितो देवैश्चाप्यभिपूजितः 014c
एषां तु पृष्ठतो रुद्रो विमले स्यन्दने स्थितः 015a
याति संहर्षयन्सर्वांस्तेजसा त्रिदिवौकसः 015c
ऋषयश्चैव देवाश्च गन्धर्वा भुजगास्तथा 016a
नद्यो नदा द्रुमाश्चैव तथैवाप्सरसां गणाः 016c
नक्षत्राणि ग्रहाश्चैव देवानां शिशवश्च ये 017a
स्त्रियश्च विविधाकारा यान्ति रुद्रस्य पृष्ठतः 017c
सृजन्त्यः पुष्पवर्षाणि चारुरूपा वराङ्गनाः 017e
पर्जन्यश्चाप्यनुययौ नमस्कृत्य पिनाकिनम् 018a
छत्रं तु पाण्डुरं सोमस्तस्य मूर्धन्यधारयत् 018c
चामरे चापि वायुश्च गृहीत्वाग्निश्च विष्ठितौ 018e
शक्रश्च पृष्ठतस्तस्य याति राजञ्श्रिया वृतः 019a
सह राजर्षिभिः सर्वैः स्तुवानो वृषकेतनम् 019c
गौरी विद्याथ गान्धारी केशिनी मित्रसाह्वया 020a
सावित्र्या सह सर्वास्ताः पार्वत्या यान्ति पृष्ठतः 020c
तत्र विद्यागणाः सर्वे ये केचित्कविभिः कृताः 021a
यस्य कुर्वन्ति वचनं सेन्द्रा देवाश्चमूमुखे 021c
स गृहीत्वा पताकां तु यात्यग्रे राक्षसो ग्रहः 022a
व्यापृतस्तु श्मशाने यो नित्यं रुद्रस्य वै सखा 022c
पिङ्गलो नाम यक्षेन्द्रो लोकस्यानन्ददायकः 022e
एभिः स सहितस्तत्र ययौ देवो यथासुखम् 023a
अग्रतः पृष्ठतश्चैव न हि तस्य गतिर्ध्रुवा 023c
रुद्रं सत्कर्मभिर्मर्त्याः पूजयन्तीह दैवतम् 024a
शिवमित्येव यं प्राहुरीशं रुद्रं पिनाकिनम् 024c
भावैस्तु विविधाकारैः पूजयन्ति महेश्वरम् 024e
देवसेनापतिस्त्वेवं देवसेनाभिरावृतः 025a
अनुगच्छति देवेशं ब्रह्मण्यः कृत्तिकासुतः 025c
अथाब्रवीन्महासेनं महादेवो बृहद्वचः 026a
सप्तमं मारुतस्कन्धं रक्ष नित्यमतन्द्रितः 026c
स्कन्द उवाच 027
सप्तमं मारुतस्कन्धं पालयिष्याम्यहं प्रभो 027a
यदन्यदपि मे कार्यं देव तद्वद माचिरम् 027c
रुद्र उवाच 028
कार्येष्वहं त्वया पुत्र सन्द्रष्टव्यः सदैव हि 028a
दर्शनान्मम भक्त्या च श्रेयः परमवाप्स्यसि 028c
मार्कण्डेय उवाच 029
इत्युक्त्वा विससर्जैनं परिष्वज्य महेष्वरः 029a
विसर्जिते ततः स्कन्दे बभूवौत्पातिकं महत् 029c
सहसैव महाराज देवान्सर्वान्प्रमोहयत् 029e
जज्वाल खं सनक्षत्रं प्रमूढं भुवनं भृशम् 030a
चचाल व्यनदच्चोर्वी तमोभूतं जगत्प्रभो 030c
ततस्तद्दारुणं दृष्ट्वा क्षुभितः शङ्करस्तदा 031a
उमा चैव महाभागा देवाश्च समहर्षयः 031c
ततस्तेषु प्रमूढेषु पर्वताम्बुदसन्निभम् 032a
नानाप्रहरणं घोरमदृश्यत महद्बलम् 032c
तद्धि घोरमसङ्ख्येयं गर्जच्च विविधा गिरः 033a
अभ्यद्रवद्रणे देवान्भगवन्तं च शङ्करम् 033c
तैर्विसृष्टान्यनीकेषु बाणजालान्यनेकशः 034a
पर्वताश्च शतघ्न्यश्च प्रासाश्च परिघा गदाः 034c
निपतद्भिश्च तैर्घोरैर्देवानीकं महायुधैः 035a
क्षणेन व्यद्रवत्सर्वं विमुखं चाप्यदृश्यत 035c
निकृत्तयोधनागाश्वं कृत्तायुधमहारथम् 036a
दानवैरर्दितं सैन्यं देवानां विमुखं बभौ 036c
असुरैर्वध्यमानं तत्पावकैरिव काननम् 037a
अपतद्दग्धभूयिष्ठं महाद्रुमवनं यथा 037c
ते विभिन्नशिरोदेहाः प्रच्यवन्ते दिवौकसः 038a
न नाथमध्यगच्छन्त वध्यमाना महारणे 038c
अथ तद्विद्रुतं सैन्यं दृष्ट्वा देवः पुरन्दरः 039a
आश्वासयन्नुवाचेदं बलवद्दानवार्दितम् 039c
भयं त्यजत भद्रं वः शूराः शस्त्राणि गृह्णत 040a
कुरुध्वं विक्रमे बुद्धिं मा वः काचिद्व्यथा भवेत् 040c
जयतैनान्सुदुर्वृत्तान्दानवान्घोरदर्शनान् 041a
अभिद्रवत भद्रं वो मया सह महासुरान् 041c
शक्रस्य वचनं श्रुत्वा समाश्वस्ता दिवौकसः 042a
दानवान्प्रत्ययुध्यन्त शक्रं कृत्वा व्यपाश्रयम् 042c
ततस्ते त्रिदशाः सर्वे मरुतश्च महाबलाः 043a
प्रत्युद्ययुर्महावेगाः साध्याश्च वसुभिः सह 043c
तैर्विसृष्टान्यनीकेषु क्रुद्धैः शस्त्राणि संयुगे 044a
शराश्च दैत्यकायेषु पिबन्ति स्मासृगुल्बणम् 044c
तेषां देहान्विनिर्भिद्य शरास्ते निशितास्तदा 045a
निष्पतन्तो अदृश्यन्त नगेभ्य इव पन्नगाः 045c
तानि दैत्यशरीराणि निर्भिन्नानि स्म सायकैः 046a
अपतन्भूतले राजंश्छिन्नाभ्राणीव सर्वशः 046c
ततस्तद्दानवं सैन्यं सर्वैर्देवगणैर्युधि 047a
त्रासितं विविधैर्बाणैः कृतं चैव पराङ्मुखम् 047c
अथोत्क्रुष्टं तदा हृष्टैः सर्वैर्देवैरुदायुधैः 048a
संहतानि च तूर्याणि तदा सर्वाण्यनेकशः 048c
एवमन्योन्यसंयुक्तं युद्धमासीत्सुदारुणम् 049a
देवानां दानवानां च मांसशोणितकर्दमम् 049c
अनयो देवलोकस्य सहसैव व्यदृश्यत 050a
तथा हि दानवा घोरा विनिघ्नन्ति दिवौकसः 050c
ततस्तूर्यप्रणादाश्च भेरीणां च महास्वनाः 051a
बभूवुर्दानवेन्द्राणां सिंहनादाश्च दारुणाः 051c
अथ दैत्यबलाद्घोरान्निष्पपात महाबलः 052a
दानवो महिषो नाम प्रगृह्य विपुलं गिरिम् 052c
ते तं घनैरिवादित्यं दृष्ट्वा सम्परिवारितम् 053a
समुद्यतगिरिं राजन्व्यद्रवन्त दिवौकसः 053c
अथाभिद्रुत्य महिषो देवांश्चिक्षेप तं गिरिम् 054a
पतता तेन गिरिणा देवसैन्यस्य पार्थिव 054c
भीमरूपेण निहतमयुतं प्रापतद्भुवि 054e
अथ तैर्दानवैः सार्धं महिषस्त्रासयन्सुरान् 055a
अभ्यद्रवद्रणे तूर्णं सिंहः क्षुद्रमृगानिव 055c
तमापतन्तं महिषं दृष्ट्वा सेन्द्रा दिवौकसः 056a
व्यद्रवन्त रणे भीता विशीर्णायुधकेतनाः 056c
ततः स महिषः क्रुद्धस्तूर्णं रुद्ररथं ययौ 057a
अभिद्रुत्य च जग्राह रुद्रस्य रथकूबरम् 057c
यदा रुद्ररथं क्रुद्धो महिषः सहसा गतः 058a
रेसतू रोदसी गाढं मुमुहुश्च महर्षयः 058c
व्यनदंश्च महाकाया दैत्या जलधरोपमाः 059a
आसीच्च निश्चितं तेषां जितमस्माभिरित्युत 059c
तथाभूते तु भगवान्नावधीन्महिषं रणे 060a
सस्मार च तदा स्कन्दं मृत्युं तस्य दुरात्मनः 060c
महिषोऽपि रथं दृष्ट्वा रौद्रं रुद्रस्य नानदत् 061a
देवान्सन्त्रासयंश्चापि दैत्यांश्चापि प्रहर्षयन् 061c
ततस्तस्मिन्भये घोरे देवानां समुपस्थिते 062a
आजगाम महासेनः क्रोधात्सूर्य इव ज्वलन् 062c
लोहिताम्बरसंवीतो लोहितस्रग्विभूषणः 063a
लोहितास्यो महाबाहुर्हिरण्यकवचः प्रभुः 063c
रथमादित्यसङ्काशमास्थितः कनकप्रभम् 064a
तं दृष्ट्वा दैत्यसेना सा व्यद्रवत्सहसा रणे 064c
स चापि तां प्रज्वलितां महिषस्य विदारिणीम् 065a
मुमोच शक्तिं राजेन्द्र महासेनो महाबलः 065c
सा मुक्ताभ्यहनच्छक्तिर्महिषस्य शिरो महत् 066a
पपात भिन्ने शिरसि महिषस्त्यक्तजीवितः 066c
क्षिप्ताक्षिप्ता तु सा शक्तिर्हत्वा शत्रून्सहस्रशः 067a
स्कन्दहस्तमनुप्राप्ता दृश्यते देवदानवैः 067c
प्रायः शरैर्विनिहता महासेनेन धीमता 068a
शेषा दैत्यगणा घोरा भीतास्त्रस्ता दुरासदैः 068c
स्कन्दस्य पार्षदैर्हत्वा भक्षिताः शतसङ्घशः 068e
दानवान्भक्षयन्तस्ते प्रपिबन्तश्च शोणितम् 069a
क्षणान्निर्दानवं सर्वमकार्षुर्भृशहर्षिताः 069c
तमांसीव यथा सूर्यो वृक्षानग्निर्घनान्खगः 070a
तथा स्कन्दोऽजयच्छत्रून्स्वेन वीर्येण कीर्तिमान् 070c
सम्पूज्यमानस्त्रिदशैरभिवाद्य महेश्वरम् 071a
शुशुभे कृत्तिकापुत्रः प्रकीर्णांशुरिवांशुमान् 071c
नष्टशत्रुर्यदा स्कन्दः प्रयातश्च महेश्वरम् 072a
अथाब्रवीन्महासेनं परिष्वज्य पुरन्दरः 072c
ब्रह्मदत्तवरः स्कन्द त्वयायं महिषो हतः 073a
देवास्तृणमया यस्य बभूवुर्जयतां वर 073c
सोऽयं त्वया महाबाहो शमितो देवकण्टकः 073e
शतं महिषतुल्यानां दानवानां त्वया रणे 074a
निहतं देवशत्रूणां यैर्वयं पूर्वतापिताः 074c
तावकैर्भक्षिताश्चान्ये दानवाः शतसङ्घशः 075a
अजेयस्त्वं रणेऽरीणामुमापतिरिव प्रभुः 075c
एतत्ते प्रथमं देव ख्यातं कर्म भविष्यति 076a
त्रिषु लोकेषु कीर्तिश्च तवाक्षय्या भविष्यति 076c
वशगाश्च भविष्यन्ति सुरास्तव सुरात्मज 076e
महासेनेत्येवमुक्त्वा निवृत्तः सह दैवतैः 077a
अनुज्ञातो भगवता त्र्यम्बकेन शचीपतिः 077c
गतो भद्रवटं रुद्रो निवृत्ताश्च दिवौकसः 078a
उक्ताश्च देवा रुद्रेण स्कन्दं पश्यत मामिव 078c
स हत्वा दानवगणान्पूज्यमानो महर्षिभिः 079a
एकाह्नैवाजयत्सर्वं त्रैलोक्यं वह्निनन्दनः 079c
स्कन्दस्य य इदं जन्म पठते सुसमाहितः 080a
स पुष्टिमिह सम्प्राप्य स्कन्दसालोक्यतामियात् 080c