मार्कण्डेय उवाच 001
यदा स्कन्देन मातॄणामेवमेतत्प्रियं कृतम् 001a
अथैनमब्रवीत्स्वाहा मम पुत्रस्त्वमौरसः 001c
इच्छाम्यहं त्वया दत्तां प्रीतिं परमदुर्लभाम् 002a
तामब्रवीत्ततः स्कन्दः प्रीतिमिच्छसि कीदृशीम् 002c
स्वाहोवाच 003
दक्षस्याहं प्रिया कन्या स्वाहा नाम महाभुज 003a
बाल्यात्प्रभृति नित्यं च जातकामा हुताशने 003c
न च मां कामिनीं पुत्र सम्यग्जानाति पावकः 004a
इच्छामि शाश्वतं वासं वस्तुं पुत्र सहाग्निना 004c
स्कन्द उवाच 005
हव्यं कव्यं च यत्किञ्चिद्द्विजा मन्त्रपुरस्कृतम् 005a
होष्यन्त्यग्नौ सदा देवि स्वाहेत्युक्त्वा समुद्यतम् 005c
अद्य प्रभृति दास्यन्ति सुवृत्ताः सत्पथे स्थिताः 006a
एवमग्निस्त्वया सार्धं सदा वत्स्यति शोभने 006c
मार्कण्डेय उवाच 007
एवमुक्ता ततः स्वाहा तुष्टा स्कन्देन पूजिता 007a
पावकेन समायुक्ता भर्त्रा स्कन्दमपूजयत् 007c
ततो ब्रह्मा महासेनं प्रजापतिरथाब्रवीत् 008a
अभिगच्छ महादेवं पितरं त्रिपुरार्दनम् 008c
रुद्रेणाग्निं समाविश्य स्वाहामाविश्य चोमया 009a
हितार्थं सर्वलोकानां जातस्त्वमपराजितः 009c
उमायोन्यां च रुद्रेण शुक्रं सिक्तं महात्मना 010a
आस्ते गिरौ निपतितं मिञ्जिकामिञ्जिकं यतः 010c
सम्भूतं लोहितोदे तु शुक्रशेषमवापतत् 011a
सूर्यरश्मिषु चाप्यन्यदन्यच्चैवापतद्भुवि 011c
आसक्तमन्यद्वृक्षेषु तदेवं पञ्चधापतत् 011e
त एते विविधाकारा गणा ज्ञेया मनीषिभिः 012a
तव पारिषदा घोरा य एते पिशिताशनाः 012c
एवमस्त्विति चाप्युक्त्वा महासेनो महेश्वरम् 013a
अपूजयदमेयात्मा पितरं पितृवत्सलः 013c
अर्कपुष्पैस्तु ते पञ्च गणाः पूज्या धनार्थिभिः 014a
व्याधिप्रशमनार्थं च तेषां पूजां समाचरेत् 014c
मिञ्जिकामिञ्जिकं चैव मिथुनं रुद्रसम्भवम् 015a
नमस्कार्यं सदैवेह बालानां हितमिच्छता 015c
स्त्रियो मानुषमांसादा वृद्धिका नाम नामतः 016a
वृक्षेषु जातास्ता देव्यो नमस्कार्याः प्रजार्थिभिः 016c
एवमेते पिशाचानामसङ्ख्येया गणाः स्मृताः 017a
घण्टायाः सपताकायाः शृणु मे सम्भवं नृप 017c
ऐरावतस्य घण्टे द्वे वैजयन्त्याविति श्रुते 018a
गुहस्य ते स्वयं दत्ते शक्रेणानाय्य धीमता 018c
एका तत्र विशाखस्य घण्टा स्कन्दस्य चापरा 019a
पताका कार्त्तिकेयस्य विशाखस्य च लोहिता 019c
यानि क्रीडनकान्यस्य देवैर्दत्तानि वै तदा 020a
तैरेव रमते देवो महासेनो महाबलः 020c
स संवृतः पिशाचानां गणैर्देवगणैस्तथा 021a
शुशुभे काञ्चने शैले दीप्यमानः श्रिया वृतः 021c
तेन वीरेण शुशुभे स शैलः शुभकाननः 022a
आदित्येनेवांशुमता मन्दरश्चारुकन्दरः 022c
सन्तानकवनैः फुल्लैः करवीरवनैरपि 023a
पारिजातवनैश्चैव जपाशोकवनैस्तथा 023c
कदम्बतरुषण्डैश्च दिव्यैर्मृगगणैरपि 024a
दिव्यैः पक्षिगणैश्चैव शुशुभे श्वेतपर्वतः 024c
तत्र देवगणाः सर्वे सर्वे चैव महर्षयः 025a
मेघतूर्यरवाश्चैव क्षुब्धोदधिसमस्वनाः 025c
तत्र दिव्याश्च गन्धर्वा नृत्यन्त्यप्सरसस्तथा 026a
हृष्टानां तत्र भूतानां श्रूयते निनदो महान् 026c
एवं सेन्द्रं जगत्सर्वं श्वेतपर्वतसंस्थितम् 027a
प्रहृष्टं प्रेक्षते स्कन्दं न च ग्लायति दर्शनात् 027c