मार्कण्डेय उवाच 001
श्रिया जुष्टं महासेनं देवसेनापतिं कृतम् 001a
सप्तर्षिपत्न्यः षड्देव्यस्तत्सकाशमथागमन् 001c
ऋषिभिः सम्परित्यक्ता धर्मयुक्ता महाव्रताः 002a
द्रुतमागम्य चोचुस्ता देवसेनापतिं प्रभुम् 002c
वयं पुत्र परित्यक्ता भर्तृभिर्देवसम्मितैः 003a
अकारणाद्रुषा तात पुण्यस्थानात्परिच्युताः 003c
अस्माभिः किल जातस्त्वमिति केनाप्युदाहृतम् 004a
असत्यमेतत्संश्रुत्य तस्मान्नस्त्रातुमर्हसि 004c
अक्षयश्च भवेत्स्वर्गस्त्वत्प्रसादाद्धि नः प्रभो 005a
त्वां पुत्रं चाप्यभीप्सामः कृत्वैतदनृणो भव 005c
स्कन्द उवाच 006
मातरो हि भवत्यो मे सुतो वोऽहमनिन्दिताः 006a
यच्चाभीप्सथ तत्सर्वं सम्भविष्यति वस्तथा 006c
मार्कण्डेय उवाच 007
एवमुक्ते ततः शक्रं किं कार्यमिति सोऽब्रवीत् 007a
उक्तः स्कन्देन ब्रूहीति सोऽब्रवीद्वासवस्ततः 007c
अभिजित्स्पर्धमाना तु रोहिण्या कन्यसी स्वसा 008a
इच्छन्ती ज्येष्ठतां देवी तपस्तप्तुं वनं गता 008c
तत्र मूढोऽस्मि भद्रं ते नक्षत्रं गगनाच्च्युतम् 009a
कालं त्विमं परं स्कन्द ब्रह्मणा सह चिन्तय 009c
धनिष्ठादिस्तदा कालो ब्रह्मणा परिनिर्मितः 010a
रोहिण्याद्योऽभवत्पूर्वमेवं सङ्ख्या समाभवत् 010c
एवमुक्ते तु शक्रेण त्रिदिवं कृत्तिका गताः 011a
नक्षत्रं शकटाकारं भाति तद्वह्निदैवतम् 011c
विनता चाब्रवीत्स्कन्दं मम त्वं पिण्डदः सुतः 012a
इच्छामि नित्यमेवाहं त्वया पुत्र सहासितुम् 012c
स्कन्द उवाच 013
एवमस्तु नमस्तेऽस्तु पुत्रस्नेहात्प्रशाधि माम् 013a
स्नुषया पूज्यमाना वै देवि वत्स्यसि नित्यदा 013c
मार्कण्डेय उवाच 014
अथ मातृगणः सर्वः स्कन्दं वचनमब्रवीत् 014a
वयं सर्वस्य लोकस्य मातरः कविभिः स्तुताः 014c
इच्छामो मातरस्तुभ्यं भवितुं पूजयस्व नः 014e
स्कन्द उवाच 015
मातरस्तु भवत्यो मे भवतीनामहं सुतः 015a
उच्यतां यन्मया कार्यं भवतीनामथेप्सितम् 015c
मातर ऊचुः 016
यास्तु ता मातरः पूर्वं लोकस्यास्य प्रकल्पिताः 016a
अस्माकं तद्भवेत्स्थानं तासां चैव न तद्भवेत् 016c
भवेम पूज्या लोकस्य न ताः पूज्याः सुरर्षभ 017a
प्रजास्माकं हृतास्ताभिस्त्वत्कृते ताः प्रयच्छ नः 017c
स्कन्द उवाच 018
दत्ताः प्रजा न ताः शक्या भवतीभिर्निषेवितुम् 018a
अन्यां वः कां प्रयच्छामि प्रजां यां मनसेच्छथ 018c
मातर ऊचुः 019
इच्छाम तासां मातॄणां प्रजा भोक्तुं प्रयच्छ नः 019a
त्वया सह पृथग्भूता ये च तासामथेश्वराः 019c
स्कन्द उवाच 020
प्रजा वो दद्मि कष्टं तु भवतीभिरुदाहृतम् 020a
परिरक्षत भद्रं वः प्रजाः साधु नमस्कृताः 020c
मातर ऊचुः 021
परिरक्षाम भद्रं ते प्रजाः स्कन्द यथेच्छसि 021a
त्वया नो रोचते स्कन्द सहवासश्चिरं प्रभो 021c
स्कन्द उवाच 022
यावत्षोडश वर्षाणि भवन्ति तरुणाः प्रजाः 022a
प्रबाधत मनुष्याणां तावद्रूपैः पृथग्विधैः 022c
अहं च वः प्रदास्यामि रौद्रमात्मानमव्ययम् 023a
परमं तेन सहिता सुखं वत्स्यथ पूजिताः 023c
मार्कण्डेय उवाच 024
ततः शरीरात्स्कन्दस्य पुरुषः काञ्चनप्रभः 024a
भोक्तुं प्रजाः स मर्त्यानां निष्पपात महाबलः 024c
अपतत्स तदा भूमौ विसञ्ज्ञोऽथ क्षुधान्वितः 025a
स्कन्देन सोऽभ्यनुज्ञातो रौद्ररूपोऽभवद्ग्रहः 025c
स्कन्दापस्मारमित्याहुर्ग्रहं तं द्विजसत्तमाः 025e
विनता तु महारौद्रा कथ्यते शकुनिग्रहः 026a
पूतनां राक्षसीं प्राहुस्तं विद्यात्पूतनाग्रहम् 026c
कष्टा दारुणरूपेण घोररूपा निशाचरी 027a
पिशाची दारुणाकारा कथ्यते शीतपूतना 027c
गर्भान्सा मानुषीणां तु हरते घोरदर्शना 027e
अदितिं रेवतीं प्राहुर्ग्रहस्तस्यास्तु रैवतः 028a
सोऽपि बालाञ्शिशून्घोरो बाधते वै महाग्रहः 028c
दैत्यानां या दितिर्माता तामाहुर्मुखमण्डिकाम् 029a
अत्यर्थं शिशुमांसेन सम्प्रहृष्टा दुरासदा 029c
कुमाराश्च कुमार्यश्च ये प्रोक्ताः स्कन्दसम्भवाः 030a
तेऽपि गर्भभुजः सर्वे कौरव्य सुमहाग्रहाः 030c
तासामेव कुमारीणां पतयस्ते प्रकीर्तिताः 031a
अज्ञायमाना गृह्णन्ति बालकान्रौद्रकर्मिणः 031c
गवां माता तु या प्राज्ञैः कथ्यते सुरभिर्नृप 032a
शकुनिस्तामथारुह्य सह भुङ्क्ते शिशून्भुवि 032c
सरमा नाम या माता शुनां देवी जनाधिप 033a
सापि गर्भान्समादत्ते मानुषीणां सदैव हि 033c
पादपानां च या माता करञ्जनिलया हि सा 034a
करञ्जे तां नमस्यन्ति तस्मात्पुत्रार्थिनो नराः 034c
इमे त्वष्टादशान्ये वै ग्रहा मांसमधुप्रियाः 035a
द्विपञ्चरात्रं तिष्ठन्ति सततं सूतिकागृहे 035c
कद्रूः सूक्ष्मवपुर्भूत्वा गर्भिणीं प्रविशेद्यदा 036a
भुङ्क्ते सा तत्र तं गर्भं सा तु नागं प्रसूयते 036c
गन्धर्वाणां तु या माता सा गर्भं गृह्य गच्छति 037a
ततो विलीनगर्भा सा मानुषी भुवि दृश्यते 037c
या जनित्री त्वप्सरसां गर्भमास्ते प्रगृह्य सा 038a
उपविष्टं ततो गर्भं कथयन्ति मनीषिणः 038c
लोहितस्योदधेः कन्या धात्री स्कन्दस्य सा स्मृता 039a
लोहितायनिरित्येवं कदम्बे सा हि पूज्यते 039c
पुरुषेषु यथा रुद्रस्तथार्या प्रमदास्वपि 040a
आर्या माता कुमारस्य पृथक्कामार्थमिज्यते 040c
एवमेते कुमाराणां मया प्रोक्ता महाग्रहाः 041a
यावत्षोडश वर्षाणि अशिवास्ते शिवास्ततः 041c
ये च मातृगणाः प्रोक्ताः पुरुषाश्चैव ये ग्रहाः 042a
सर्वे स्कन्दग्रहा नाम ज्ञेया नित्यं शरीरिभिः 042c
तेषां प्रशमनं कार्यं स्नानं धूपमथाञ्जनम् 043a
बलिकर्मोपहारश्च स्कन्दस्येज्या विशेषतः 043c
एवमेतेऽर्चिताः सर्वे प्रयच्छन्ति शुभं नृणाम् 044a
आयुर्वीर्यं च राजेन्द्र सम्यक्पूजानमस्कृताः 044c
ऊर्ध्वं तु षोडशाद्वर्षाद्ये भवन्ति ग्रहा नृणाम् 045a
तानहं सम्प्रवक्ष्यामि नमस्कृत्य महेश्वरम् 045c
यः पश्यति नरो देवाञ्जाग्रद्वा शयितोऽपि वा 046a
उन्माद्यति स तु क्षिप्रं तं तु देवग्रहं विदुः 046c
आसीनश्च शयानश्च यः पश्यति नरः पितॄन् 047a
उन्माद्यति स तु क्षिप्रं स ज्ञेयस्तु पितृग्रहः 047c
अवमन्यति यः सिद्धान्क्रुद्धाश्चापि शपन्ति यम् 048a
उन्माद्यति स तु क्षिप्रं ज्ञेयः सिद्धग्रहस्तु सः 048c
उपाघ्राति च यो गन्धान्रसांश्चापि पृथग्विधान् 049a
उन्माद्यति स तु क्षिप्रं स ज्ञेयो राक्षसो ग्रहः 049c
गन्धर्वाश्चापि यं दिव्याः संस्पृशन्ति नरं भुवि 050a
उन्माद्यति स तु क्षिप्रं ग्रहो गान्धर्व एव सः 050c
आविशन्ति च यं यक्षाः पुरुषं कालपर्यये 051a
उन्माद्यति स तु क्षिप्रं ज्ञेयो यक्षग्रहस्तु सः 051c
अधिरोहन्ति यं नित्यं पिशाचाः पुरुषं क्वचित् 052a
उन्माद्यति स तु क्षिप्रं पैशाचं तं ग्रहं विदुः 052c
यस्य दोषैः प्रकुपितं चित्तं मुह्यति देहिनः 053a
उन्माद्यति स तु क्षिप्रं साधनं तस्य शास्त्रतः 053c
वैक्लव्याच्च भयाच्चैव घोराणां चापि दर्शनात् 054a
उन्माद्यति स तु क्षिप्रं सत्त्वं तस्य तु साधनम् 054c
कश्चित्क्रीडितुकामो वै भोक्तुकामस्तथापरः 055a
अभिकामस्तथैवान्य इत्येष त्रिविधो ग्रहः 055c
यावत्सप्ततिवर्षाणि भवन्त्येते ग्रहा नृणाम् 056a
अतः परं देहिनां तु ग्रहतुल्यो भवेज्ज्वरः 056c
अप्रकीर्णेन्द्रियं दान्तं शुचिं नित्यमतन्द्रितम् 057a
आस्तिकं श्रद्दधानं च वर्जयन्ति सदा ग्रहाः 057c
इत्येष ते ग्रहोद्देशो मानुषाणां प्रकीर्तितः 058a
न स्पृशन्ति ग्रहा भक्तान्नरान्देवं महेश्वरम् 058c