मार्कण्डेय उवाच 001
उपविष्टं ततः स्कन्दं हिरण्यकवचस्रजम् 001a
हिरण्यचूडमुकुटं हिरण्याक्षं महाप्रभम् 001c
लोहिताम्बरसंवीतं तीक्ष्णदंष्ट्रं मनोरमम् 002a
सर्वलक्षणसम्पन्नं त्रैलोक्यस्यापि सुप्रियम् 002c
ततस्तं वरदं शूरं युवानं मृष्टकुण्डलम् 003a
अभजत्पद्मरूपा श्रीः स्वयमेव शरीरिणी 003c
श्रिया जुष्टः पृथुयशाः स कुमारवरस्तदा 004a
निषण्णो दृश्यते भूतैः पौर्णमास्यां यथा शशी 004c
अपूजयन्महात्मानो ब्राह्मणास्तं महाबलम् 005a
इदमाहुस्तदा चैव स्कन्दं तत्र महर्षयः 005c
हिरण्यवर्ण भद्रं ते लोकानां शङ्करो भव 006a
त्वया षड्रात्रजातेन सर्वे लोका वशीकृताः 006c
अभयं च पुनर्दत्तं त्वयैवैषां सुरोत्तम 007a
तस्मादिन्द्रो भवानस्तु त्रैलोक्यस्याभयङ्करः 007c
स्कन्द उवाच 008
किमिन्द्रः सर्वलोकानां करोतीह तपोधनाः 008a
कथं देवगणांश्चैव पाति नित्यं सुरेश्वरः 008c
ऋषय ऊचुः 009
इन्द्रो दिशति भूतानां बलं तेजः प्रजाः सुखम् 009a
तुष्टः प्रयच्छति तथा सर्वान्दायान्सुरेश्वरः 009c
दुर्वृत्तानां संहरति वृत्तस्थानां प्रयच्छति 010a
अनुशास्ति च भूतानि कार्येषु बलसूदनः 010c
असूर्ये च भवेत्सूर्यस्तथाचन्द्रे च चन्द्रमाः 011a
भवत्यग्निश्च वायुश्च पृथिव्यापश्च कारणैः 011c
एतदिन्द्रेण कर्तव्यमिन्द्रे हि विपुलं बलम् 012a
त्वं च वीर बलश्रेष्ठस्तस्मादिन्द्रो भवस्व नः 012c
शक्र उवाच 013
भवस्वेन्द्रो महाबाहो सर्वेषां नः सुखावहः 013a
अभिषिच्यस्व चैवाद्य प्राप्तरूपोऽसि सत्तम 013c
स्कन्द उवाच 014
शाधि त्वमेव त्रैलोक्यमव्यग्रो विजये रतः 014a
अहं ते किङ्करः शक्र न ममेन्द्रत्वमीप्सितम् 014c
शक्र उवाच 015
बलं तवाद्भुतं वीर त्वं देवानामरीञ्जहि 015a
अवज्ञास्यन्ति मां लोका वीर्येण तव विस्मिताः 015c
इन्द्रत्वेऽपि स्थितं वीर बलहीनं पराजितम् 016a
आवयोश्च मिथो भेदे प्रयतिष्यन्त्यतन्द्रिताः 016c
भेदिते च त्वयि विभो लोको द्वैधमुपेष्यति 017a
द्विधाभूतेषु लोकेषु निश्चितेष्वावयोस्तथा 017c
विग्रहः सम्प्रवर्तेत भूतभेदान्महाबल 017e
तत्र त्वं मां रणे तात यथाश्रद्धं विजेष्यसि 018a
तस्मादिन्द्रो भवानद्य भविता मा विचारय 018c
स्कन्द उवाच 019
त्वमेव राजा भद्रं ते त्रैलोक्यस्य ममैव च 019a
करोमि किं च ते शक्र शासनं तद्ब्रवीहि मे 019c
शक्र उवाच 020
यदि सत्यमिदं वाक्यं निश्चयाद्भाषितं त्वया 020a
यदि वा शासनं स्कन्द कर्तुमिच्छसि मे शृणु 020c
अभिषिच्यस्व देवानां सेनापत्ये महाबल 021a
अहमिन्द्रो भविष्यामि तव वाक्यान्महाबल 021c
स्कन्द उवाच 022
दानवानां विनाशाय देवानामर्थसिद्धये 022a
गोब्राह्मणस्य त्राणार्थं सेनापत्येऽभिषिञ्च माम् 022c
मार्कण्डेय उवाच 023
सोऽभिषिक्तो मघवता सर्वैर्देवगणैः सह 023a
अतीव शुशुभे तत्र पूज्यमानो महर्षिभिः 023c
तस्य तत्काञ्चनं छत्रं ध्रियमाणं व्यरोचत 024a
यथैव सुसमिद्धस्य पावकस्यात्ममण्डलम् 024c
विश्वकर्मकृता चास्य दिव्या माला हिरण्मयी 025a
आबद्धा त्रिपुरघ्नेन स्वयमेव यशस्विना 025c
आगम्य मनुजव्याघ्र सह देव्या परन्तप 026a
अर्चयामास सुप्रीतो भगवान्गोवृषध्वजः 026c
रुद्रमग्निं द्विजाः प्राहू रुद्रसूनुस्ततस्तु सः 027a
रुद्रेण शुक्रमुत्सृष्टं तच्छ्वेतः पर्वतोऽभवत् 027c
पावकस्येन्द्रियं श्वेते कृत्तिकाभिः कृतं नगे 027e
पूज्यमानं तु रुद्रेण दृष्ट्वा सर्वे दिवौकसः 028a
रुद्रसूनुं ततः प्राहुर्गुहं गुणवतां वरम् 028c
अनुप्रविश्य रुद्रेण वह्निं जातो ह्ययं शिशुः 029a
तत्र जातस्ततः स्कन्दो रुद्रसूनुस्ततोऽभवत् 029c
रुद्रस्य वह्नेः स्वाहायाः षण्णां स्त्रीणां च तेजसा 030a
जातः स्कन्दः सुरश्रेष्ठो रुद्रसूनुस्ततोऽभवत् 030c
अरजे वाससी रक्ते वसानः पावकात्मजः 031a
भाति दीप्तवपुः श्रीमान्रक्ताभ्राभ्यामिवांशुमान् 031c
कुक्कुटश्चाग्निना दत्तस्तस्य केतुरलङ्कृतः 032a
रथे समुच्छ्रितो भाति कालाग्निरिव लोहितः 032c
विवेश कवचं चास्य शरीरं सहजं ततः 033a
युध्यमानस्य देवस्य प्रादुर्भवति तत्सदा 033c
शक्तिर्वर्म बलं तेजः कान्तत्वं सत्यमक्षतिः 034a
ब्रह्मण्यत्वमसम्मोहो भक्तानां परिरक्षणम् 034c
निकृन्तनं च शत्रूणां लोकानां चाभिरक्षणम् 035a
स्कन्देन सह जातानि सर्वाण्येव जनाधिप 035c
एवं देवगणैः सर्वैः सोऽभिषिक्तः स्वलङ्कृतः 036a
बभौ प्रतीतः सुमनाः परिपूर्णेन्दुदर्शनः 036c
इष्टैः स्वाध्यायघोषैश्च देवतूर्यरवैरपि 037a
देवगन्धर्वगीतैश्च सर्वैरप्सरसां गणैः 037c
एतैश्चान्यैश्च विविधैर्हृष्टतुष्टैरलङ्कृतैः 038a
क्रीडन्निव तदा देवैरभिषिक्तः स पावकिः 038c
अभिषिक्तं महासेनमपश्यन्त दिवौकसः 039a
विनिहत्य तमः सूर्यं यथेहाभ्युदितं तथा 039c
अथैनमभ्ययुः सर्वा देवसेनाः सहस्रशः 040a
अस्माकं त्वं पतिरिति ब्रुवाणाः सर्वतोदिशम् 040c
ताः समासाद्य भगवान्सर्वभूतगणैर्वृतः 041a
अर्चितश्च स्तुतश्चैव सान्त्वयामास ता अपि 041c
शतक्रतुश्चाभिषिच्य स्कन्दं सेनापतिं तदा 042a
सस्मार तां देवसेनां या सा तेन विमोक्षिता 042c
अयं तस्याः पतिर्नूनं विहितो ब्रह्मणा स्वयम् 043a
इति चिन्त्यानयामास देवसेनां स्वलङ्कृताम् 043c
स्कन्दं चोवाच बलभिदियं कन्या सुरोत्तम 044a
अजाते त्वयि निर्दिष्टा तव पत्नी स्वयम्भुवा 044c
तस्मात्त्वमस्या विधिवत्पाणिं मन्त्रपुरस्कृतम् 045a
गृहाण दक्षिणं देव्याः पाणिना पद्मवर्चसम् 045c
एवमुक्तः स जग्राह तस्याः पाणिं यथाविधि 046a
बृहस्पतिर्मन्त्रविधिं जजाप च जुहाव च 046c
एवं स्कन्दस्य महिषीं देवसेनां विदुर्बुधाः 047a
षष्ठीं यां ब्राह्मणाः प्राहुर्लक्ष्मीमाशां सुखप्रदाम् 047c
सिनीवालीं कुहूं चैव सद्वृत्तिमपराजिताम् 047e
यदा स्कन्दः पतिर्लब्धः शाश्वतो देवसेनया 048a
तदा तमाश्रयल्लक्ष्मीः स्वयं देवी शरीरिणी 048c
श्रीजुष्टः पञ्चमीं स्कन्दस्तस्माच्छ्रीपञ्चमी स्मृता 049a
षष्ठ्यां कृतार्थोऽभूद्यस्मात्तस्मात्षष्ठी महातिथिः 049c