मार्कण्डेय उवाच 001
स्कन्दस्य पार्षदान्घोराञ्शृणुष्वाद्भुतदर्शनान् 001a
वज्रप्रहारात्स्कन्दस्य जज्ञुस्तत्र कुमारकाः 001c
ये हरन्ति शिशूञ्जातान्गर्भस्थांश्चैव दारुणाः 001e
वज्रप्रहारात्कन्याश्च जज्ञिरेऽस्य महाबलाः 002a
कुमाराश्च विशाखं तं पितृत्वे समकल्पयन् 002c
स भूत्वा भगवान्सङ्ख्ये रक्षंश्छागमुखस्तदा 003a
वृतः कन्यागणैः सर्वैरात्मनीनैश्च पुत्रकैः 003c
मातॄणां प्रेक्षतीनां च भद्रशाखश्च कौशलः 004a
ततः कुमारपितरं स्कन्दमाहुर्जना भुवि 004c
रुद्रमग्निमुमां स्वाहां प्रदेशेषु महाबलाम् 005a
यजन्ति पुत्रकामाश्च पुत्रिणश्च सदा जनाः 005c
यास्तास्त्वजनयत्कन्यास्तपो नाम हुताशनः 006a
किं करोमीति ताः स्कन्दं सम्प्राप्ताः समभाषत 006c
मातर ऊचुः 007
भवेम सर्वलोकस्य वयं मातर उत्तमाः 007a
प्रसादात्तव पूज्याश्च प्रियमेतत्कुरुष्व नः 007c
मार्कण्डेय उवाच 008
सोऽब्रवीद्बाढमित्येवं भविष्यध्वं पृथग्विधाः 008a
अशिवाश्च शिवाश्चैव पुनः पुनरुदारधीः 008c
ततः सङ्कल्प्य पुत्रत्वे स्कन्दं मातृगणोऽगमत् 009a
काकी च हलिमा चैव रुद्राथ बृहली तथा 009c
आर्या पलाला वै मित्रा सप्तैताः शिशुमातरः 009e
एतासां वीर्यसम्पन्नः शिशुर्नामातिदारुणः 010a
स्कन्दप्रसादजः पुत्रो लोहिताक्षो भयङ्करः 010c
एष वीराष्टकः प्रोक्तः स्कन्दमातृगणोद्भवः 011a
छागवक्त्रेण सहितो नवकः परिकीर्त्यते 011c
षष्ठं छागमयं वक्त्रं स्कन्दस्यैवेति विद्धि तत् 012a
षट्शिरोऽभ्यन्तरं राजन्नित्यं मातृगणार्चितम् 012c
षण्णां तु प्रवरं तस्य शीर्षाणामिह शब्द्यते 013a
शक्तिं येनासृजद्दिव्यां भद्रशाख इति स्म ह 013c
इत्येतद्विविधाकारं वृत्तं शुक्लस्य पञ्चमीम् 014a
तत्र युद्धं महाघोरं वृत्तं षष्ठ्यां जनाधिप 014c