मार्कण्डेय उवाच 001
ग्रहाः सोपग्रहाश्चैव ऋषयो मातरस्तथा 001a
हुताशनमुखाश्चापि दीप्ताः पारिषदां गणाः 001c
एते चान्ये च बहवो घोरास्त्रिदिववासिनः 002a
परिवार्य महासेनं स्थिता मातृगणैः सह 002c
सन्दिग्धं विजयं दृष्ट्वा विजयेप्सुः सुरेश्वरः 003a
आरुह्यैरावतस्कन्धं प्रययौ दैवतैः सह 003c
विजिघांसुर्महासेनमिन्द्रस्तूर्णतरं ययौ 003e
उग्रं तच्च महावेगं देवानीकं महाप्रभम् 004a
विचित्रध्वजसन्नाहं नानावाहनकार्मुकम् 004c
प्रवराम्बरसंवीतं श्रिया जुष्टमलङ्कृतम् 004e
विजिघांसुं तदायान्तं कुमारः शक्रमभ्ययात् 005a
विनदन्पथि शक्रस्तु द्रुतं याति महाबलः 005c
संहर्षयन्देवसेनां जिघांसुः पावकात्मजम् 005e
सम्पूज्यमानस्त्रिदशैस्तथैव परमर्षिभिः 006a
समीपमुपसम्प्राप्तः कार्त्तिकेयस्य वासवः 006c
सिंहनादं ततश्चक्रे देवेशः सहितः सुरैः 007a
गुहोऽपि शब्दं तं श्रुत्वा व्यनदत्सागरो यथा 007c
तस्य शब्देन महता समुद्धूतोदधिप्रभम् 008a
बभ्राम तत्र तत्रैव देवसैन्यमचेतनम् 008c
जिघांसूनुपसम्प्राप्तान्देवान्दृष्ट्वा स पावकिः 009a
विससर्ज मुखात्क्रुद्धः प्रवृद्धाः पावकार्चिषः 009c
ता देवसैन्यान्यदहन्वेष्टमानानि भूतले 009e
ते प्रदीप्तशिरोदेहाः प्रदीप्तायुधवाहनाः 010a
प्रच्युताः सहसा भान्ति चित्रास्तारागणा इव 010c
दह्यमानाः प्रपन्नास्ते शरणं पावकात्मजम् 011a
देवा वज्रधरं त्यक्त्वा ततः शान्तिमुपागताः 011c
त्यक्तो देवैस्ततः स्कन्दे वज्रं शक्रोऽभ्यवासृजत् 012a
तद्विसृष्टं जघानाशु पार्श्वं स्कन्दस्य दक्षिणम् 012c
बिभेद च महाराज पार्श्वं तस्य महात्मनः 012e
वज्रप्रहारात्स्कन्दस्य सञ्जातः पुरुषोऽपरः 013a
युवा काञ्चनसन्नाहः शक्तिधृग्दिव्यकुण्डलः 013c
यद्वज्रविशनाज्जातो विशाखस्तेन सोऽभवत् 013e
तं जातमपरं दृष्ट्वा कालानलसमद्युतिम् 014a
भयादिन्द्रस्ततः स्कन्दं प्राञ्जलिः शरणं गतः 014c
तस्याभयं ददौ स्कन्दः सहसैन्यस्य सत्तम 015a
ततः प्रहृष्टास्त्रिदशा वादित्राण्यभ्यवादयन् 015c