मार्कण्डेय उवाच 001
ऋषयस्तु महाघोरान्दृष्ट्वोत्पातान्पृथग्विधान् 001a
अकुर्वञ्शान्तिमुद्विग्ना लोकानां लोकभावनाः 001c
निवसन्ति वने ये तु तस्मिंश्चैत्ररथे जनाः 002a
तेऽब्रुवन्नेष नोऽनर्थः पावकेनाहृतो महान् 002c
सङ्गम्य षड्भिः पत्नीभिः सप्तर्षीणामिति स्म ह 002e
अपरे गरुडीमाहुस्त्वयानर्थोऽयमाहृतः 003a
यैर्दृष्टा सा तदा देवी तस्या रूपेण गच्छती 003c
न तु तत्स्वाहया कर्म कृतं जानाति वै जनः 003e
सुपर्णी तु वचः श्रुत्वा ममायं तनयस्त्विति 004a
उपगम्य शनैः स्कन्दमाहाहं जननी तव 004c
अथ सप्तर्षयः श्रुत्वा जातं पुत्रं महौजसम् 005a
तत्यजुः षट्तदा पत्नीर्विना देवीमरुन्धतीम् 005c
षड्भिरेव तदा जातमाहुस्तद्वनवासिनः 006a
सप्तर्षीनाह च स्वाहा मम पुत्रोऽयमित्युत 006c
अहं जाने नैतदेवमिति राजन्पुनः पुनः 006e
विश्वामित्रस्तु कृत्वेष्टिं सप्तर्षीणां महामुनिः 007a
पावकं कामसन्तप्तमदृष्टः पृष्ठतोऽन्वगात् 007c
तत्तेन निखिलं सर्वमवबुद्धं यथातथम् 007e
विश्वामित्रस्तु प्रथमं कुमारं शरणं गतः 008a
स्तवं दिव्यं सम्प्रचक्रे महासेनस्य चापि सः 008c
मङ्गलानि च सर्वाणि कौमाराणि त्रयोदश 009a
जातकर्मादिकास्तस्य क्रियाश्चक्रे महामुनिः 009c
षड्वक्त्रस्य तु माहात्म्यं कुक्कुटस्य च साधनम् 010a
शक्त्या देव्याः साधनं च तथा पारिषदामपि 010c
विश्वामित्रश्चकारैतत्कर्म लोकहिताय वै 011a
तस्मादृषिः कुमारस्य विश्वामित्रोऽभवत्प्रियः 011c
अन्वजानाच्च स्वाहाया रूपान्यत्वं महामुनिः 012a
अब्रवीच्च मुनीन्सर्वान्नापराध्यन्ति वै स्त्रियः 012c
श्रुत्वा तु तत्त्वतस्तस्मात्ते पत्नीः सर्वतोऽत्यजन् 012e
स्कन्दं श्रुत्वा ततो देवा वासवं सहिताब्रुवन् 013a
अविषह्यबलं स्कन्दं जहि शक्राशु माचिरम् 013c
यदि वा न निहंस्येनमद्येन्द्रोऽयं भविष्यति 014a
त्रैलोक्यं सन्निगृह्यास्मांस्त्वां च शक्र महाबलः 014c
स तानुवाच व्यथितो बालोऽयं सुमहाबलः 015a
स्रष्टारमपि लोकानां युधि विक्रम्य नाशयेत् 015c
सर्वास्त्वद्याभिगच्छन्तु स्कन्दं लोकस्य मातरः 016a
कामवीर्या घ्नन्तु चैनं तथेत्युक्त्वा च ता ययुः 016c
तमप्रतिबलं दृष्ट्वा विषण्णवदनास्तु ताः 017a
अशक्योऽयं विचिन्त्यैवं तमेव शरणं ययुः 017c
ऊचुश्चापि त्वमस्माकं पुत्रोऽस्माभिर्धृतं जगत् 018a
अभिनन्दस्व नः सर्वाः प्रस्नुताः स्नेहविक्लवाः 018c
ताः सम्पूज्य महासेनः कामांश्चासां प्रदाय सः 019a
अपश्यदग्निमायान्तं पितरं बलिनां बली 019c
स तु सम्पूजितस्तेन सह मातृगणेन ह 020a
परिवार्य महासेनं रक्षमाणः स्थितः स्थिरम् 020c
सर्वासां या तु मातॄणां नारी क्रोधसमुद्भवा 021a
धात्री सा पुत्रवत्स्कन्दं शूलहस्ताभ्यरक्षत 021c
लोहितस्योदधेः कन्या क्रूरा लोहितभोजना 022a
परिष्वज्य महासेनं पुत्रवत्पर्यरक्षत 022c
अग्निर्भूत्वा नैगमेयश्छागवक्त्रो बहुप्रजः 023a
रमयामास शैलस्थं बालं क्रीडनकैरिव 023c