मार्कण्डेय उवाच 001
शिवा भार्या त्वङ्गिरसः शीलरूपगुणान्विता 001a
तस्याः सा प्रथमं रूपं कृत्वा देवी जनाधिप 001c
जगाम पावकाभ्याशं तं चोवाच वराङ्गना 001e
मामग्ने कामसन्तप्तां त्वं कामयितुमर्हसि 002a
करिष्यसि न चेदेवं मृतां मामुपधारय 002c
अहमङ्गिरसो भार्या शिवा नाम हुताशन 003a
सखीभिः सहिता प्राप्ता मन्त्रयित्वा विनिश्चयम् 003c
अग्निरुवाच 004
कथं मां त्वं विजानीषे कामार्तमितराः कथम् 004a
यास्त्वया कीर्तिताः सर्वाः सप्तर्षीणां प्रियाः स्त्रियः 004c
शिवोवाच 005
अस्माकं त्वं प्रियो नित्यं बिभीमस्तु वयं तव 005a
त्वच्चित्तमिङ्गितैर्ज्ञात्वा प्रेषितास्मि तवान्तिकम् 005c
मैथुनायेह सम्प्राप्ता कामं प्राप्तं द्रुतं चर 006a
मातरो मां प्रतीक्षन्ते गमिष्यामि हुताशन 006c
मार्कण्डेय उवाच 007
ततोऽग्निरुपयेमे तां शिवां प्रीतिमुदायुतः 007a
प्रीत्या देवी च संयुक्ता शुक्रं जग्राह पाणिना 007c
अचिन्तयन्ममेदं ये रूपं द्रक्ष्यन्ति कानने 008a
ते ब्राह्मणीनामनृतं दोषं वक्ष्यन्ति पावके 008c
तस्मादेतद्रक्ष्यमाणा गरुडी सम्भवाम्यहम् 009a
वनान्निर्गमनं चैव सुखं मम भविष्यति 009c
सुपर्णी सा तदा भूत्वा निर्जगाम महावनात् 010a
अपश्यत्पर्वतं श्वेतं शरस्तम्बैः सुसंवृतम् 010c
दृष्टीविषैः सप्तशीर्षैर्गुप्तं भोगिभिरद्भुतैः 011a
रक्षोभिश्च पिशाचैश्च रौद्रैर्भूतगणैस्तथा 011c
राक्षसीभिश्च सम्पूर्णमनेकैश्च मृगद्विजैः 011e
सा तत्र सहसा गत्वा शैलपृष्ठं सुदुर्गमम् 012a
प्राक्षिपत्काञ्चने कुण्डे शुक्रं सा त्वरिता सती 012c
शिष्टानामपि सा देवी सप्तर्षीणां महात्मनाम् 013a
पत्नीसरूपतां कृत्वा कामयामास पावकम् 013c
दिव्यरूपमरुन्धत्याः कर्तुं न शकितं तया 014a
तस्यास्तपःप्रभावेण भर्तृशुश्रूषणेन च 014c
षट्कृत्वस्तत्तु निक्षिप्तमग्ने रेतः कुरूत्तम 015a
तस्मिन्कुण्डे प्रतिपदि कामिन्या स्वाहया तदा 015c
तत्स्कन्नं तेजसा तत्र सम्भृतं जनयत्सुतम् 016a
ऋषिभिः पूजितं स्कन्नमनयत्स्कन्दतां ततः 016c
षट्शिरा द्विगुणश्रोत्रो द्वादशाक्षिभुजक्रमः 017a
एकग्रीवस्त्वेककायः कुमारः समपद्यत 017c
द्वितीयायामभिव्यक्तस्तृतीयायां शिशुर्बभौ 018a
अङ्गप्रत्यङ्गसम्भूतश्चतुर्थ्यामभवद्गुहः 018c
लोहिताभ्रेण महता संवृतः सह विद्युता 019a
लोहिताभ्रे सुमहति भाति सूर्य इवोदितः 019c
गृहीतं तु धनुस्तेन विपुलं लोमहर्षणम् 020a
न्यस्तं यत्त्रिपुरघ्नेन सुरारिविनिकृन्तनम् 020c
तद्गृहीत्वा धनुःश्रेष्ठं ननाद बलवांस्तदा 021a
सम्मोहयन्निवेमान्स त्रील्ँलोकान्सचराचरान् 021c
तस्य तं निनदं श्रुत्वा महामेघौघनिस्वनम् 022a
उत्पेततुर्महानागौ चित्रश्चैरावतश्च ह 022c
तावापतन्तौ सम्प्रेक्ष्य स बालार्कसमद्युतिः 023a
द्वाभ्यां गृहीत्वा पाणिभ्यां शक्तिं चान्येन पाणिना 023c
अपरेणाग्निदायादस्ताम्रचूडं भुजेन सः 023e
महाकायमुपश्लिष्टं कुक्कुटं बलिनां वरम् 024a
गृहीत्वा व्यनदद्भीमं चिक्रीड च महाबलः 024c
द्वाभ्यां भुजाभ्यां बलवान्गृहीत्वा शङ्खमुत्तमम् 025a
प्राध्मापयत भूतानां त्रासनं बलिनामपि 025c
द्वाभ्यां भुजाभ्यामाकाशं बहुशो निजघान सः 026a
क्रीडन्भाति महासेनस्त्रील्ँलोकान्वदनैः पिबन् 026c
पर्वताग्रेऽप्रमेयात्मा रश्मिमानुदये यथा 026e
स तस्य पर्वतस्याग्रे निषण्णोऽद्भुतविक्रमः 027a
व्यलोकयदमेयात्मा मुखैर्नानाविधैर्दिशः 027c
स पश्यन्विविधान्भावांश्चकार निनदं पुनः 027e
तस्य तं निनदं श्रुत्वा न्यपतन्बहुधा जनाः 028a
भीताश्चोद्विग्नमनसस्तमेव शरणं ययुः 028c
ये तु तं संश्रिता देवं नानावर्णास्तदा जनाः 029a
तानप्याहुः पारिषदान्ब्राह्मणाः सुमहाबलान् 029c
स तूत्थाय महाबाहुरुपसान्त्व्य च ताञ्जनान् 030a
धनुर्विकृष्य व्यसृजद्बाणाञ्श्वेते महागिरौ 030c
बिभेद स शरैः शैलं क्रौञ्चं हिमवतः सुतम् 031a
तेन हंसाश्च गृध्राश्च मेरुं गच्छन्ति पर्वतम् 031c
स विशीर्णोऽपतच्छैलो भृशमार्तस्वरान्रुवन् 032a
तस्मिन्निपतिते त्वन्ये नेदुः शैला भृशं भयात् 032c
स तं नादं भृशार्तानां श्रुत्वापि बलिनां वरः 033a
न प्राव्यथदमेयात्मा शक्तिमुद्यम्य चानदत् 033c
सा तदा विपुला शक्तिः क्षिप्ता तेन महात्मना 034a
बिभेद शिखरं घोरं श्वेतस्य तरसा गिरेः 034c
स तेनाभिहतो दीनो गिरिः श्वेतोऽचलैः सह 035a
उत्पपात महीं त्यक्त्वा भीतस्तस्मान्महात्मनः 035c
ततः प्रव्यथिता भूमिर्व्यशीर्यत समन्ततः 036a
आर्ता स्कन्दं समासाद्य पुनर्बलवती बभौ 036c
पर्वताश्च नमस्कृत्य तमेव पृथिवीं गताः 037a
अथायमभजल्लोकः स्कन्दं शुक्लस्य पञ्चमीम् 037c