मार्कण्डेय उवाच 001
अग्नीनां विविधो वंशः कीर्तितस्ते मयानघ 001a
शृणु जन्म तु कौरव्य कार्त्तिकेयस्य धीमतः 001c
अद्भुतस्याद्भुतं पुत्रं प्रवक्ष्याम्यमितौजसम् 002a
जातं सप्तर्षिभार्याभिर्ब्रह्मण्यं कीर्तिवर्धनम् 002c
देवासुराः पुरा यत्ता विनिघ्नन्तः परस्परम् 003a
तत्राजयन्सदा देवान्दानवा घोररूपिणः 003c
वध्यमानं बलं दृष्ट्वा बहुशस्तैः पुरन्दरः 004a
स्वसैन्यनायकार्थाय चिन्तामाप भृशं तदा 004c
देवसेनां दानवैर्यो भग्नां दृष्ट्वा महाबलः 005a
पालयेद्वीर्यमाश्रित्य स ज्ञेयः पुरुषो मया 005c
स शैलं मानसं गत्वा ध्यायन्नर्थमिमं भृशम् 006a
शुश्रावार्तस्वरं घोरमथ मुक्तं स्त्रिया तदा 006c
अभिधावतु मा कश्चित्पुरुषस्त्रातु चैव ह 007a
पतिं च मे प्रदिशतु स्वयं वा पतिरस्तु मे 007c
पुरन्दरस्तु तामाह मा भैर्नास्ति भयं तव 008a
एवमुक्त्वा ततोऽपश्यत्केशिनं स्थितमग्रतः 008c
किरीटिनं गदापाणिं धातुमन्तमिवाचलम् 009a
हस्ते गृहीत्वा तां कन्यामथैनं वासवोऽब्रवीत् 009c
अनार्यकर्मन्कस्मात्त्वमिमां कन्यां जिहीर्षसि 010a
वज्रिणं मां विजानीहि विरमास्याः प्रबाधनात् 010c
केश्युवाच 011
विसृजस्व त्वमेवैनां शक्रैषा प्रार्थिता मया 011a
क्षमं ते जीवतो गन्तुं स्वपुरं पाकशासन 011c
मार्कण्डेय उवाच 012
एवमुक्त्वा गदां केशी चिक्षेपेन्द्रवधाय वै 012a
तामापतन्तीं चिच्छेद मध्ये वज्रेण वासवः 012c
अथास्य शैलशिखरं केशी क्रुद्धो व्यवासृजत् 013a
तदापतन्तं सम्प्रेक्ष्य शैलशृङ्गं शतक्रतुः 013c
बिभेद राजन्वज्रेण भुवि तन्निपपात ह 013e
पतता तु तदा केशी तेन शृङ्गेण ताडितः 014a
हित्वा कन्यां महाभागां प्राद्रवद्भृशपीडितः 014c
अपयातेऽसुरे तस्मिंस्तां कन्यां वासवोऽब्रवीत् 015a
कासि कस्यासि किं चेह कुरुषे त्वं शुभानने 015c
कन्योवाच 016
अहं प्रजापतेः कन्या देवसेनेति विश्रुता 016a
भगिनी दैत्यसेना मे सा पूर्वं केशिना हृता 016c
सहैवावां भगिन्यौ तु सखीभिः सह मानसम् 017a
आगच्छावेह रत्यर्थमनुज्ञाप्य प्रजापतिम् 017c
नित्यं चावां प्रार्थयते हर्तुं केशी महासुरः 018a
इच्छत्येनं दैत्यसेना न त्वहं पाकशासन 018c
सा हृता तेन भगवन्मुक्ताहं त्वद्बलेन तु 019a
त्वया देवेन्द्र निर्दिष्टं पतिमिच्छामि दुर्जयम् 019c
इन्द्र उवाच 020
मम मातृष्वसेया त्वं माता दाक्षायणी मम 020a
आख्यातं त्वहमिच्छामि स्वयमात्मबलं त्वया 020c
कन्योवाच 021
अबलाहं महाबाहो पतिस्तु बलवान्मम 021a
वरदानात्पितुर्भावी सुरासुरनमस्कृतः 021c
इन्द्र उवाच 022
कीदृशं वै बलं देवि पत्युस्तव भविष्यति 022a
एतदिच्छाम्यहं श्रोतुं तव वाक्यमनिन्दिते 022c
कन्योवाच 023
देवदानवयक्षाणां किन्नरोरगरक्षसाम् 023a
जेता स दृष्टो दुष्टानां महावीर्यो महाबलः 023c
यस्तु सर्वाणि भूतानि त्वया सह विजेष्यति 024a
स हि मे भविता भर्ता ब्रह्मण्यः कीर्तिवर्धनः 024c
मार्कण्डेय उवाच 025
इन्द्रस्तस्या वचः श्रुत्वा दुःखितोऽचिन्तयद्भृशम् 025a
अस्या देव्याः पतिर्नास्ति यादृशं सम्प्रभाषते 025c
अथापश्यत्स उदये भास्करं भास्करद्युतिः 026a
सोमं चैव महाभागं विशमानं दिवाकरम् 026c
अमावास्यां सम्प्रवृत्तं मुहूर्तं रौद्रमेव च 027a
देवासुरं च सङ्ग्रामं सोऽपश्यदुदये गिरौ 027c
लोहितैश्च घनैर्युक्तां पूर्वां सन्ध्यां शतक्रतुः 028a
अपश्यल्लोहितोदं च भगवान्वरुणालयम् 028c
भृगुभिश्चाङ्गिरोभिश्च हुतं मन्त्रैः पृथग्विधैः 029a
हव्यं गृहीत्वा वह्निं च प्रविशन्तं दिवाकरम् 029c
पर्व चैव चतुर्विंशं तदा सूर्यमुपस्थितम् 030a
तथा धर्मगतं रौद्रं सोमं सूर्यगतं च तम् 030c
समालोक्यैकतामेव शशिनो भास्करस्य च 031a
समवायं तु तं रौद्रं दृष्ट्वा शक्रो व्यचिन्तयत् 031c
एष रौद्रश्च सङ्घातो महान्युक्तश्च तेजसा 032a
सोमस्य वह्निसूर्याभ्यामद्भुतोऽयं समागमः 032c
जनयेद्यं सुतं सोमः सोऽस्या देव्याः पतिर्भवेत् 032e
अग्निश्चैतैर्गुणैर्युक्तः सर्वैरग्निश्च देवता 033a
एष चेज्जनयेद्गर्भं सोऽस्या देव्याः पतिर्भवेत् 033c
एवं सञ्चिन्त्य भगवान्ब्रह्मलोकं तदा गतः 034a
गृहीत्वा देवसेनां तामवन्दत्स पितामहम् 034c
उवाच चास्या देव्यास्त्वं साधु शूरं पतिं दिश 034e
ब्रह्मोवाच 035
यथैतच्चिन्तितं कार्यं त्वया दानवसूदन 035a
तथा स भविता गर्भो बलवानुरुविक्रमः 035c
स भविष्यति सेनानीस्त्वया सह शतक्रतो 036a
अस्या देव्याः पतिश्चैव स भविष्यति वीर्यवान् 036c
मार्कण्डेय उवाच 037
एतच्छ्रुत्वा नमस्तस्मै कृत्वासौ सह कन्यया 037a
तत्राभ्यगच्छद्देवेन्द्रो यत्र देवर्षयोऽभवन् 037c
वसिष्ठप्रमुखा मुख्या विप्रेन्द्राः सुमहाव्रताः 037e
भागार्थं तपसोपात्तं तेषां सोमं तथाध्वरे 038a
पिपासवो ययुर्देवाः शतक्रतुपुरोगमाः 038c
इष्टिं कृत्वा यथान्यायं सुसमिद्धे हुताशने 039a
जुहुवुस्ते महात्मानो हव्यं सर्वदिवौकसाम् 039c
समाहूतो हुतवहः सोऽद्भुतः सूर्यमण्डलात् 040a
विनिःसृत्याययौ वह्निर्वाग्यतो विधिवत्प्रभुः 040c
आगम्याहवनीयं वै तैर्द्विजैर्मन्त्रतो हुतम् 040e
स तत्र विविधं हव्यं प्रतिगृह्य हुताशनः 041a
ऋषिभ्यो भरतश्रेष्ठ प्रायच्छत दिवौकसाम् 041c
निष्क्रामंश्चाप्यपश्यत्स पत्नीस्तेषां महात्मनाम् 042a
स्वेष्वाश्रमेषूपविष्टाः स्नायन्तीश्च यथासुखम् 042c
रुक्मवेदिनिभास्तास्तु चन्द्रलेखा इवामलाः 043a
हुताशनार्चिप्रतिमाः सर्वास्तारा इवाद्भुताः 043c
स तद्गतेन मनसा बभूव क्षुभितेन्द्रियः 044a
पत्नीर्दृष्ट्वा द्विजेन्द्राणां वह्निः कामवशं ययौ 044c
स भूयश्चिन्तयामास न न्याय्यं क्षुभितोऽस्मि यत् 045a
साध्वीः पत्नीर्द्विजेन्द्राणामकामाः कामयाम्यहम् 045c
नैताः शक्या मया द्रष्टुं स्प्रष्टुं वाप्यनिमित्ततः 046a
गार्हपत्यं समाविश्य तस्मात्पश्याम्यभीक्ष्णशः 046c
संस्पृशन्निव सर्वास्ताः शिखाभिः काञ्चनप्रभाः 047a
पश्यमानश्च मुमुदे गार्हपत्यं समाश्रितः 047c
निरुष्य तत्र सुचिरमेवं वह्निर्वशं गतः 048a
मनस्तासु विनिक्षिप्य कामयानो वराङ्गनाः 048c
कामसन्तप्तहृदयो देहत्यागे सुनिश्चितः 049a
अलाभे ब्राह्मणस्त्रीणामग्निर्वनमुपागतः 049c
स्वाहा तं दक्षदुहिता प्रथमं कामयत्तदा 050a
सा तस्य छिद्रमन्वैच्छच्चिरात्प्रभृति भामिनी 050c
अप्रमत्तस्य देवस्य न चापश्यदनिन्दिता 050e
सा तं ज्ञात्वा यथावत्तु वह्निं वनमुपागतम् 051a
तत्त्वतः कामसन्तप्तं चिन्तयामास भामिनी 051c
अहं सप्तर्षिपत्नीनां कृत्वा रूपाणि पावकम् 052a
कामयिष्यामि कामार्तं तासां रूपेण मोहितम् 052c
एवं कृते प्रीतिरस्य कामावाप्तिश्च मे भवेत् 052e