मार्कण्डेय उवाच 001
आपस्य मुदिता भार्या सहस्य परमा प्रिया 001a
भूपतिर्भुवभर्ता च जनयत्पावकं परम् 001c
भूतानां चापि सर्वेषां यं प्राहुः पावकं पतिम् 002a
आत्मा भुवनभर्तेति सान्वयेषु द्विजातिषु 002c
महतां चैव भूतानां सर्वेषामिह यः पतिः 003a
भगवान्स महातेजा नित्यं चरति पावकः 003c
अग्निर्गृहपतिर्नाम नित्यं यज्ञेषु पूज्यते 004a
हुतं वहति यो हव्यमस्य लोकस्य पावकः 004c
अपां गर्भो महाभागः सहपुत्रो महाद्भुतः 005a
भूपतिर्भुवभर्ता च महतः पतिरुच्यते 005c
दहन्मृतानि भूतानि तस्याग्निर्भरतोऽभवत् 006a
अग्निष्टोमे च नियतः क्रतुश्रेष्ठो भरस्य तु 006c
आयान्तं नियतं दृष्ट्वा प्रविवेशार्णवं भयात् 007a
देवास्तं नाधिगच्छन्ति मार्गमाणा यथादिशम् 007c
दृष्ट्वा त्वग्निरथर्वाणं ततो वचनमब्रवीत् 008a
देवानां वह हव्यं त्वमहं वीर सुदुर्बलः 008c
अथर्वन्गच्छ मध्वक्षं प्रियमेतत्कुरुष्व मे 008e
प्रेष्य चाग्निरथर्वाणमन्यं देशं ततोऽगमत् 009a
मत्स्यास्तस्य समाचख्युः क्रुद्धस्तानग्निरब्रवीत् 009c
भक्ष्या वै विविधैर्भावैर्भविष्यथ शरीरिणाम् 010a
अथर्वाणं तथा चापि हव्यवाहोऽब्रवीद्वचः 010c
अनुनीयमानोऽपि भृशं देववाक्याद्धि तेन सः 011a
नैच्छद्वोढुं हविः सर्वं शरीरं च समत्यजत् 011c
स तच्छरीरं सन्त्यज्य प्रविवेश धरां तदा 012a
भूमिं स्पृष्ट्वासृजद्धातून्पृथक्पृथगतीव हि 012c
आस्यात्सुगन्धि तेजश्च अस्थिभ्यो देवदारु च 013a
श्लेष्मणः स्फटिकं तस्य पित्तान्मरकतं तथा 013c
यकृत्कृष्णायसं तस्य त्रिभिरेव बभुः प्रजाः 014a
नखास्तस्याभ्रपटलं शिराजालानि विद्रुमम् 014c
शरीराद्विविधाश्चान्ये धातवोऽस्याभवन्नृप 014e
एवं त्यक्त्वा शरीरं तु परमे तपसि स्थितः 015a
भृग्वङ्गिरादिभिर्भूयस्तपसोत्थापितस्तदा 015c
भृशं जज्वाल तेजस्वी तपसाप्यायितः शिखी 016a
दृष्ट्वा ऋषीन्भयाच्चापि प्रविवेश महार्णवम् 016c
तस्मिन्नष्टे जगद्भीतमथर्वाणमथाश्रितम् 017a
अर्चयामासुरेवैनमथर्वाणं सुरर्षयः 017c
अथर्वा त्वसृजल्लोकानात्मनालोक्य पावकम् 018a
मिषतां सर्वभूतानामुन्ममाथ महार्णवम् 018c
एवमग्निर्भगवता नष्टः पूर्वमथर्वणा 019a
आहूतः सर्वभूतानां हव्यं वहति सर्वदा 019c
एवं त्वजनयद्धिष्ण्यान्वेदोक्तान्विबुधान्बहून् 020a
विचरन्विविधान्देशान्भ्रममाणस्तु तत्र वै 020c
सिन्धुवर्जं पञ्च नद्यो देविकाथ सरस्वती 021a
गङ्गा च शतकुम्भा च शरयूर्गण्डसाह्वया 021c
चर्मण्वती मही चैव मेध्या मेधातिथिस्तथा 022a
ताम्रावती वेत्रवती नद्यस्तिस्रोऽथ कौशिकी 022c
तमसा नर्मदा चैव नदी गोदावरी तथा 023a
वेण्णा प्रवेणी भीमा च मेद्रथा चैव भारत 023c
भारती सुप्रयोगा च कावेरी मुर्मुरा तथा 024a
कृष्णा च कृष्णवेण्णा च कपिला शोण एव च 024c
एता नद्यस्तु धिष्ण्यानां मातरो याः प्रकीर्तिताः 024e
अद्भुतस्य प्रिया भार्या तस्याः पुत्रो विडूरथः 025a
यावन्तः पावकाः प्रोक्ताः सोमास्तावन्त एव च 025c
अत्रेश्चाप्यन्वये जाता ब्रह्मणो मानसाः प्रजाः 026a
अत्रिः पुत्रान्स्रष्टुकामस्तानेवात्मन्यधारयत् 026c
तस्य तद्ब्रह्मणः कायान्निर्हरन्ति हुताशनाः 026e
एवमेते महात्मानः कीर्तितास्तेऽग्नयो मया 027a
अप्रमेया यथोत्पन्नाः श्रीमन्तस्तिमिरापहाः 027c
अद्भुतस्य तु माहात्म्यं यथा वेदेषु कीर्तितम् 028a
तादृशं विद्धि सर्वेषामेको ह्येष हुताशनः 028c
एक एवैष भगवान्विज्ञेयः प्रथमोऽङ्गिराः 029a
बहुधा निःसृतः कायाज्ज्योतिष्टोमः क्रतुर्यथा 029c
इत्येष वंशः सुमहानग्नीनां कीर्तितो मया 030a
पावितो विविधैर्मन्त्रैर्हव्यं वहति देहिनाम् 030c