मार्कण्डेय उवाच 001
गुरुभिर्नियमैर्युक्तो भरतो नाम पावकः 001a
अग्निः पुष्टिमतिर्नाम तुष्टः पुष्टिं प्रयच्छति 001c
भरत्येष प्रजाः सर्वास्ततो भरत उच्यते 001e
अग्निर्यस्तु शिवो नाम शक्तिपूजापरश्च सः 002a
दुःखार्तानां स सर्वेषां शिवकृत्सततं शिवः 002c
तपसस्तु फलं दृष्ट्वा सम्प्रवृद्धं तपो महत् 003a
उद्धर्तुकामो मतिमान्पुत्रो जज्ञे पुरन्दरः 003c
ऊष्मा चैवोष्मणो जज्ञे सोऽग्निर्भूतेषु लक्ष्यते 004a
अग्निश्चापि मनुर्नाम प्राजापत्यमकारयत् 004c
शम्भुमग्निमथ प्राहुर्ब्राह्मणा वेदपारगाः 005a
आवसथ्यं द्विजाः प्राहुर्दीप्तमग्निं महाप्रभम् 005c
ऊर्जस्करान्हव्यवाहान्सुवर्णसदृशप्रभान् 006a
अग्निस्तपो ह्यजनयत्पञ्च यज्ञसुतानिह 006c
प्रशान्तेऽग्निर्महाभाग परिश्रान्तो गवाम्पतिः 007a
असुराञ्जनयन्घोरान्मर्त्यांश्चैव पृथग्विधान् 007c
तपसश्च मनुं पुत्रं भानुं चाप्यङ्गिरासृजत् 008a
बृहद्भानुं तु तं प्राहुर्ब्राह्मणा वेदपारगाः 008c
भानोर्भार्या सुप्रजा तु बृहद्भासा तु सोमजा 009a
असृजेतां तु षट्पुत्राञ्शृणु तासां प्रजाविधिम् 009c
दुर्बलानां तु भूतानां तनुं यः सम्प्रयच्छति 010a
तमग्निं बलदं प्राहुः प्रथमं भानुतः सुतम् 010c
यः प्रशान्तेषु भूतेषु मन्युर्भवति दारुणः 011a
अग्निः स मन्युमान्नाम द्वितीयो भानुतः सुतः 011c
दर्शे च पौर्णमासे च यस्येह हविरुच्यते 012a
विष्णुर्नामेह योऽग्निस्तु धृतिमान्नाम सोऽङ्गिराः 012c
इन्द्रेण सहितं यस्य हविराग्रयणं स्मृतम् 013a
अग्निराग्रयणो नाम भानोरेवान्वयस्तु सः 013c
चातुर्मास्येषु नित्यानां हविषां यो निरग्रहः 014a
चतुर्भिः सहितः पुत्रैर्भानोरेवान्वयस्तु सः 014c
निशां त्वजनयत्कन्यामग्नीषोमावुभौ तथा 015a
मनोरेवाभवद्भार्या सुषुवे पञ्च पावकान् 015c
पूज्यते हविषाग्र्येण चातुर्मास्येषु पावकः 016a
पर्जन्यसहितः श्रीमानग्निर्वैश्वानरस्तु सः 016c
अस्य लोकस्य सर्वस्य यः पतिः परिपठ्यते 017a
सोऽग्निर्विश्वपतिर्नाम द्वितीयो वै मनोः सुतः 017c
ततः स्विष्टं भवेदाज्यं स्विष्टकृत्परमः स्मृतः 017e
कन्या सा रोहिणी नाम हिरण्यकशिपोः सुता 018a
कर्मणासौ बभौ भार्या स वह्निः स प्रजापतिः 018c
प्राणमाश्रित्य यो देहं प्रवर्तयति देहिनाम् 019a
तस्य सन्निहितो नाम शब्दरूपस्य साधनः 019c
शुक्लकृष्णगतिर्देवो यो बिभर्ति हुताशनम् 020a
अकल्मषः कल्मषाणां कर्ता क्रोधाश्रितस्तु सः 020c
कपिलं परमर्षिं च यं प्राहुर्यतयः सदा 021a
अग्निः स कपिलो नाम साङ्ख्ययोगप्रवर्तकः 021c
अग्निर्यच्छति भूतानि येन भूतानि नित्यदा 022a
कर्मस्विह विचित्रेषु सोऽग्रणीर्वह्निरुच्यते 022c
इमानन्यान्समसृजत्पावकान्प्रथितान्भुवि 023a
अग्निहोत्रस्य दुष्टस्य प्रायश्चित्तार्थमुल्बणान् 023c
संस्पृशेयुर्यदान्योन्यं कथञ्चिद्वायुनाग्नयः 024a
इष्टिरष्टाकपालेन कार्या वै शुचयेऽग्नये 024c
दक्षिणाग्निर्यदा द्वाभ्यां संसृजेत तदा किल 025a
इष्टिरष्टाकपालेन कार्या वै वीतयेऽग्नये 025c
यद्यग्नयो हि स्पृश्येयुर्निवेशस्था दवाग्निना 026a
इष्टिरष्टाकपालेन कार्या तु शुचयेऽग्नये 026c
अग्निं रजस्वला चेत्स्त्री संस्पृशेदग्निहोत्रिकम् 027a
इष्टिरष्टाकपालेन कार्या दस्युमतेऽग्नये 027c
मृतः श्रूयेत यो जीवन्परेयुः पशवो यथा 028a
इष्टिरष्टाकपालेन कर्तव्याभिमतेऽग्नये 028c
आर्तो न जुहुयादग्निं त्रिरात्रं यस्तु ब्राह्मणः 029a
इष्टिरष्टाकपालेन कार्या स्यादुत्तराग्नये 029c
दर्शं च पौर्णमासं च यस्य तिष्ठेत्प्रतिष्ठितम् 030a
इष्टिरष्टाकपालेन कार्या पथिकृतेऽग्नये 030c
सूतिकाग्निर्यदा चाग्निं संस्पृशेदग्निहोत्रिकम् 031a
इष्टिरष्टाकपालेन कार्या चाग्निमतेऽग्नये 031c