मार्कण्डेय उवाच 001
काश्यपो ह्यथ वासिष्ठः प्राणश्च प्राणपुत्रकः 001a
अग्निराङ्गिरसश्चैव च्यवनस्त्रिषुवर्चकः 001c
अचरन्त तपस्तीव्रं पुत्रार्थे बहुवार्षिकम् 002a
पुत्रं लभेम धर्मिष्ठं यशसा ब्रह्मणा समम् 002c
महाव्याहृतिभिर्ध्यातः पञ्चभिस्तैस्तदा त्वथ 003a
जज्ञे तेजोमयोऽर्चिष्मान्पञ्चवर्णः प्रभावनः 003c
समिद्धोऽग्निः शिरस्तस्य बाहू सूर्यनिभौ तथा 004a
त्वङ्नेत्रे च सुवर्णाभे कृष्णे जङ्घे च भारत 004c
पञ्चवर्णः स तपसा कृतस्तैः पञ्चभिर्जनैः 005a
पाञ्चजन्यः श्रुतो वेदे पञ्चवंशकरस्तु सः 005c
दश वर्षसहस्राणि तपस्तप्त्वा महातपाः 006a
जनयत्पावकं घोरं पितॄणां स प्रजाः सृजन् 006c
बृहद्रथन्तरं मूर्ध्नो वक्त्राच्च तरसाहरौ 007a
शिवं नाभ्यां बलादिन्द्रं वाय्वग्नी प्राणतोऽसृजत् 007c
बाहुभ्यामनुदात्तौ च विश्वे भूतानि चैव ह 008a
एतान्सृष्ट्वा ततः पञ्च पितॄणामसृजत्सुतान् 008c
बृहदूर्जस्य प्रणिधिः काश्यपस्य बृहत्तरः 009a
भानुरङ्गिरसो वीरः पुत्रो वर्चस्य सौभरः 009c
प्राणस्य चानुदात्तश्च व्याख्याताः पञ्च वंशजाः 010a
देवान्यज्ञमुषश्चान्यान्सृजन्पञ्चदशोत्तरान् 010c
अभीममतिभीमं च भीमं भीमबलाबलम् 011a
एतान्यज्ञमुषः पञ्च देवानभ्यसृजत्तपः 011c
सुमित्रं मित्रवन्तं च मित्रज्ञं मित्रवर्धनम् 012a
मित्रधर्माणमित्येतान्देवानभ्यसृजत्तपः 012c
सुरप्रवीरं वीरं च सुकेशं च सुवर्चसम् 013a
सुराणामपि हन्तारं पञ्चैतानसृजत्तपः 013c
त्रिविधं संस्थिता ह्येते पञ्च पञ्च पृथक्पृथक् 014a
मुष्णन्त्यत्र स्थिता ह्येते स्वर्गतो यज्ञयाजिनः 014c
तेषामिष्टं हरन्त्येते निघ्नन्ति च महद्भुवि 015a
स्पर्धया हव्यवाहानां निघ्नन्त्येते हरन्ति च 015c
हविर्वेद्यां तदादानं कुशलैः सम्प्रवर्तितम् 016a
तदेते नोपसर्पन्ति यत्र चाग्निः स्थितो भवेत् 016c
चितोऽग्निरुद्वहन्यज्ञं पक्षाभ्यां तान्प्रबाधते 017a
मन्त्रैः प्रशमिता ह्येते नेष्टं मुष्णन्ति यज्ञियम् 017c
बृहदुक्थतपस्यैव पुत्रो भूमिमुपाश्रितः 018a
अग्निहोत्रे हूयमाने पृथिव्यां सद्भिरिज्यते 018c
रथन्तरश्च तपसः पुत्रोऽग्निः परिपठ्यते 019a
मित्रविन्दाय वै तस्य हविरध्वर्यवो विदुः 019c
मुमुदे परमप्रीतः सह पुत्रैर्महायशाः 019e