मार्कण्डेय उवाच 001
बृहस्पतेश्चान्द्रमसी भार्याभूद्या यशस्विनी 001a
अग्नीन्साजनयत्पुण्यान्षडेकां चापि पुत्रिकाम् 001c
आहुतिष्वेव यस्याग्नेर्हविषाज्यं विधीयते 002a
सोऽग्निर्बृहस्पतेः पुत्रः शंयुर्नाम महाप्रभः 002c
चातुर्मास्येषु यस्येष्ट्यामश्वमेधेऽग्रजः पशुः 003a
दीप्तो ज्वालैरनेकाभैरग्निरेकोऽथ वीर्यवान् 003c
शंयोरप्रतिमा भार्या सत्या सत्या च धर्मजा 004a
अग्निस्तस्य सुतो दीप्तस्तिस्रः कन्याश्च सुव्रताः 004c
प्रथमेनाज्यभागेन पूज्यते योऽग्निरध्वरे 005a
अग्निस्तस्य भरद्वाजः प्रथमः पुत्र उच्यते 005c
पौर्णमास्येषु सर्वेषु हविषाज्यं स्रुवोद्यतम् 006a
भरतो नामतः सोऽग्निर्द्वितीयः शंयुतः सुतः 006c
तिस्रः कन्या भवन्त्यन्या यासां स भरतः पतिः 007a
भरतस्तु सुतस्तस्य भरत्येका च पुत्रिका 007c
भरतो भरतस्याग्नेः पावकस्तु प्रजापतेः 008a
महानत्यर्थमहितस्तथा भरतसत्तम 008c
भरद्वाजस्य भार्या तु वीरा वीरश्च पिण्डदः 009a
प्राहुराज्येन तस्येज्यां सोमस्येव द्विजाः शनैः 009c
हविषा यो द्वितीयेन सोमेन सह युज्यते 010a
रथप्रभू रथध्वानः कुम्भरेताः स उच्यते 010c
सरय्वां जनयत्सिद्धिं भानुं भाभिः समावृणोत् 011a
आग्नेयमानयन्नित्यमाह्वानेष्वेष कथ्यते 011c
यस्तु न च्यवते नित्यं यशसा वर्चसा श्रिया 012a
अग्निर्निश्च्यवनो नाम पृथिवीं स्तौति केवलम् 012c
विपाप्मा कलुषैर्मुक्तो विशुद्धश्चार्चिषा ज्वलन् 013a
विपापोऽग्निः सुतस्तस्य सत्यः समयकर्मसु 013c
आक्रोशतां हि भूतानां यः करोति हि निष्कृतिम् 014a
अग्निः स निष्कृतिर्नाम शोभयत्यभिसेवितः 014c
अनुकूजन्ति येनेह वेदनार्ताः स्वयं जनाः 015a
तस्य पुत्रः स्वनो नाम पावकः स रुजस्करः 015c
यस्तु विश्वस्य जगतो बुद्धिमाक्रम्य तिष्ठति 016a
तं प्राहुरध्यात्मविदो विश्वजिन्नाम पावकम् 016c
अन्तराग्निः श्रितो यो हि भुक्तं पचति देहिनाम् 017a
स यज्ञे विश्वभुङ्नाम सर्वलोकेषु भारत 017c
ब्रह्मचारी यतात्मा च सततं विपुलव्रतः 018a
ब्राह्मणाः पूजयन्त्येनं पाकयज्ञेषु पावकम् 018c
प्रथितो गोपतिर्नाम नदी यस्याभवत्प्रिया 019a
तस्मिन्सर्वाणि कर्माणि क्रियन्ते कर्मकर्तृभिः 019c
वडवामुखः पिबत्यम्भो योऽसौ परमदारुणः 020a
ऊर्ध्वभागूर्ध्वभाङ्नाम कविः प्राणाश्रितस्तु सः 020c
उदग्द्वारं हविर्यस्य गृहे नित्यं प्रदीयते 021a
ततः स्विष्टं भवेदाज्यं स्विष्टकृत्परमः स्मृतः 021c
यः प्रशान्तेषु भूतेषु मन्युर्भवति पावकः 022a
क्रोधस्य तु रसो जज्ञे मन्यती चाथ पुत्रिका 022c
स्वाहेति दारुणा क्रूरा सर्वभूतेषु तिष्ठति 022e
त्रिदिवे यस्य सदृशो नास्ति रूपेण कश्चन 023a
अतुल्यत्वात्कृतो देवैर्नाम्ना कामस्तु पावकः 023c
संहर्षाद्धारयन्क्रोधं धन्वी स्रग्वी रथे स्थितः 024a
समरे नाशयेच्छत्रूनमोघो नाम पावकः 024c
उक्थो नाम महाभाग त्रिभिरुक्थैरभिष्टुतः 025a
महावाचं त्वजनयत्सकामाश्वं हि यं विदुः 025c