मार्कण्डेय उवाच 001
ब्रह्मणो यस्तृतीयस्तु पुत्रः कुरुकुलोद्वह 001a
तस्यापवसुता भार्या प्रजास्तस्यापि मे शृणु 001c
बृहज्ज्योतिर्बृहत्कीर्तिर्बृहद्ब्रह्मा बृहन्मनाः 002a
बृहन्मन्त्रो बृहद्भासस्तथा राजन्बृहस्पतिः 002c
प्रजासु तासु सर्वासु रूपेणाप्रतिमाभवत् 003a
देवी भानुमती नाम प्रथमाङ्गिरसः सुता 003c
भूतानामेव सर्वेषां यस्यां रागस्तदाभवत् 004a
रागाद्रागेति यामाहुर्द्वितीयाङ्गिरसः सुता 004c
यां कपर्दिसुतामाहुर्दृश्यादृश्येति देहिनः 005a
तनुत्वात्सा सिनीवाली तृतीयाङ्गिरसः सुता 005c
पश्यत्यर्चिष्मती भाभिर्हविर्भिश्च हविष्मती 006a
षष्ठीमङ्गिरसः कन्यां पुण्यामाहुर्हविष्मतीम् 006c
महामखेष्वाङ्गिरसी दीप्तिमत्सु महामती 007a
महामतीति विख्याता सप्तमी कथ्यते सुता 007c
यां तु दृष्ट्वा भगवतीं जनः कुहुकुहायते 008a
एकानंशेति यामाहुः कुहूमङ्गिरसः सुताम् 008c