वैशम्पायन उवाच 001
श्रुत्वेमां धर्मसंयुक्तां धर्मराजः कथां शुभाम् 001a
पुनः पप्रच्छ तमृषिं मार्कण्डेयं तपस्विनम् 001c
युधिष्ठिर उवाच 002
कथमग्निर्वनं यातः कथं चाप्यङ्गिराः पुरा 002a
नष्टेऽग्नौ हव्यमवहदग्निर्भूत्वा महानृषिः 002c
अग्निर्यदा त्वेक एव बहुत्वं चास्य कर्मसु 003a
दृश्यते भगवन्सर्वमेतदिच्छामि वेदितुम् 003c
कुमारश्च यथोत्पन्नो यथा चाग्नेः सुतोऽभवत् 004a
यथा रुद्राच्च सम्भूतो गङ्गायां कृत्तिकासु च 004c
एतदिच्छाम्यहं त्वत्तः श्रोतुं भार्गवनन्दन 005a
कौतूहलसमाविष्टो यथातथ्यं महामुने 005c
मार्कण्डेय उवाच 006
अत्राप्युदाहरन्तीममितिहासं पुरातनम् 006a
यथा क्रुद्धो हुतवहस्तपस्तप्तुं वनं गतः 006c
यथा च भगवानग्निः स्वयमेवाङ्गिराभवत् 007a
सन्तापयन्स्वप्रभया नाशयंस्तिमिराणि च 007c
आश्रमस्थो महाभागो हव्यवाहं विशेषयन् 008a
तथा स भूत्वा तु तदा जगत्सर्वं प्रकाशयन् 008c
तपश्चरंश्च हुतभुक्सन्तप्तस्तस्य तेजसा 009a
भृशं ग्लानश्च तेजस्वी न स किञ्चित्प्रजज्ञिवान् 009c
अथ सञ्चिन्तयामास भगवान्हव्यवाहनः 010a
अन्योऽग्निरिह लोकानां ब्रह्मणा सम्प्रवर्तितः 010c
अग्नित्वं विप्रनष्टं हि तप्यमानस्य मे तपः 010e
कथमग्निः पुनरहं भवेयमिति चिन्त्य सः 011a
अपश्यदग्निवल्लोकांस्तापयन्तं महामुनिम् 011c
सोपासर्पच्छनैर्भीतस्तमुवाच तदाङ्गिराः 012a
शीघ्रमेव भवस्वाग्निस्त्वं पुनर्लोकभावनः 012c
विज्ञातश्चासि लोकेषु त्रिषु संस्थानचारिषु 012e
त्वमग्ने प्रथमः सृष्टो ब्रह्मणा तिमिरापहः 013a
स्वस्थानं प्रतिपद्यस्व शीघ्रमेव तमोनुद 013c
अग्निरुवाच 014
नष्टकीर्तिरहं लोके भवाञ्जातो हुताशनः 014a
भवन्तमेव ज्ञास्यन्ति पावकं न तु मां जनाः 014c
निक्षिपाम्यहमग्नित्वं त्वमग्निः प्रथमो भव 015a
भविष्यामि द्वितीयोऽहं प्राजापत्यक एव च 015c
अङ्गिरा उवाच 016
कुरु पुण्यं प्रजास्वर्ग्यं भवाग्निस्तिमिरापहः 016a
मां च देव कुरुष्वाग्ने प्रथमं पुत्रमञ्जसा 016c
मार्कण्डेय उवाच 017
तच्छ्रुत्वाङ्गिरसो वाक्यं जातवेदास्तथाकरोत् 017a
राजन्बृहस्पतिर्नाम तस्याप्यङ्गिरसः सुतः 017c
ज्ञात्वा प्रथमजं तं तु वह्नेराङ्गिरसं सुतम् 018a
उपेत्य देवाः पप्रच्छुः कारणं तत्र भारत 018c
स तु पृष्टस्तदा देवैस्ततः कारणमब्रवीत् 019a
प्रत्यगृह्णंस्तु देवाश्च तद्वचोऽङ्गिरसस्तदा 019c
अत्र नानाविधानग्नीन्प्रवक्ष्यामि महाप्रभान् 020a
कर्मभिर्बहुभिः ख्यातान्नानात्वं ब्राह्मणेष्विह 020c