व्याध उवाच 001
एवं शप्तोऽहमृषिणा तदा द्विजवरोत्तम 001a
अभिप्रसादयमृषिं गिरा वाक्यविशारदम् 001c
अजानता मयाकार्यमिदमद्य कृतं मुने 002a
क्षन्तुमर्हसि तत्सर्वं प्रसीद भगवन्निति 002c
ऋषिरुवाच 003
नान्यथा भविता शाप एवमेतदसंशयम् 003a
आनृशंस्यादहं किञ्चित्कर्तानुग्रहमद्य ते 003c
शूद्रयोनौ वर्तमानो धर्मज्ञो भविता ह्यसि 004a
मातापित्रोश्च शुश्रूषां करिष्यसि न संशयः 004c
तया शुश्रूषया सिद्धिं महतीं समवाप्स्यसि 005a
जातिस्मरश्च भविता स्वर्गं चैव गमिष्यसि 005c
शापक्षयान्ते निर्वृत्ते भवितासि पुनर्द्विजः 005e
व्याध उवाच 006
एवं शप्तः पुरा तेन ऋषिणास्म्युग्रतेजसा 006a
प्रसादश्च कृतस्तेन ममैवं द्विपदां वर 006c
शरं चोद्धृतवानस्मि तस्य वै द्विजसत्तम 007a
आश्रमं च मया नीतो न च प्राणैर्व्ययुज्यत 007c
एतत्ते सर्वमाख्यातं यथा मम पुराभवत् 008a
अभितश्चापि गन्तव्यं मया स्वर्गं द्विजोत्तम 008c
ब्राह्मण उवाच 009
एवमेतानि पुरुषा दुःखानि च सुखानि च 009a
प्राप्नुवन्ति महाबुद्धे नोत्कण्ठां कर्तुमर्हसि 009c
दुष्करं हि कृतं तात जानता जातिमात्मनः 009e
कर्मदोषश्च वै विद्वन्नात्मजातिकृतेन वै 010a
कञ्चित्कालं मृष्यतां वै ततोऽसि भविता द्विजः 010c
साम्प्रतं च मतो मेऽसि ब्राह्मणो नात्र संशयः 010e
ब्राह्मणः पतनीयेषु वर्तमानो विकर्मसु 011a
दाम्भिको दुष्कृतप्रायः शूद्रेण सदृशो भवेत् 011c
यस्तु शूद्रो दमे सत्ये धर्मे च सततोत्थितः 012a
तं ब्राह्मणमहं मन्ये वृत्तेन हि भवेद्द्विजः 012c
कर्मदोषेण विषमां गतिमाप्नोति दारुणाम् 013a
क्षीणदोषमहं मन्ये चाभितस्त्वां नरोत्तम 013c
कर्तुमर्हसि नोत्कण्ठां त्वद्विधा ह्यविषादिनः 014a
लोकवृत्तान्तवृत्तज्ञा नित्यं धर्मपरायणाः 014c
व्याध उवाच 015
प्रज्ञया मानसं दुःखं हन्याच्छारीरमौषधैः 015a
एतद्विज्ञानसामर्थ्यं न बालैः समतां व्रजेत् 015c
अनिष्टसम्प्रयोगाच्च विप्रयोगात्प्रियस्य च 016a
मानुषा मानसैर्दुःखैर्युज्यन्ते अल्पबुद्धयः 016c
गुणैर्भूतानि युज्यन्ते वियुज्यन्ते तथैव च 017a
सर्वाणि नैतदेकस्य शोकस्थानं हि विद्यते 017c
अनिष्टेनान्वितं पश्यंस्तथा क्षिप्रं विरज्यते 018a
ततश्च प्रतिकुर्वन्ति यदि पश्यन्त्युपक्रमम् 018c
शोचतो न भवेत्किञ्चित्केवलं परितप्यते 018e
परित्यजन्ति ये दुःखं सुखं वाप्युभयं नराः 019a
त एव सुखमेधन्ते ज्ञानतृप्ता मनीषिणः 019c
असन्तोषपरा मूढाः सन्तोषं यान्ति पण्डिताः 020a
असन्तोषस्य नास्त्यन्तस्तुष्टिस्तु परमं सुखम् 020c
न शोचन्ति गताध्वानः पश्यन्तः परमां गतिम् 020e
न विषादे मनः कार्यं विषादो विषमुत्तमम् 021a
मारयत्यकृतप्रज्ञं बालं क्रुद्ध इवोरगः 021c
यं विषादोऽभिभवति विषमे समुपस्थिते 022a
तेजसा तस्य हीनस्य पुरुषार्थो न विद्यते 022c
अवश्यं क्रियमाणस्य कर्मणो दृश्यते फलम् 023a
न हि निर्वेदमागम्य किञ्चित्प्राप्नोति शोभनम् 023c
अथाप्युपायं पश्येत दुःखस्य परिमोक्षणे 024a
अशोचन्नारभेतैव युक्तश्चाव्यसनी भवेत् 024c
भूतेष्वभावं सञ्चिन्त्य ये तु बुद्धेः परं गताः 025a
न शोचन्ति कृतप्रज्ञाः पश्यन्तः परमां गतिम् 025c
न शोचामि च वै विद्वन्कालाकाङ्क्षी स्थितोऽस्म्यहम् 026a
एतैर्निदर्शनैर्ब्रह्मन्नावसीदामि सत्तम 026c
ब्राह्मण उवाच 027
कृतप्रज्ञोऽसि मेधावी बुद्धिश्च विपुला तव 027a
नाहं भवन्तं शोचामि ज्ञानतृप्तोऽसि धर्मवित् 027c
आपृच्छे त्वां स्वस्ति तेऽस्तु धर्मस्त्वा परिरक्षतु 028a
अप्रमादस्तु कर्तव्यो धर्मे धर्मभृतां वर 028c
मार्कण्डेय उवाच 029
बाढमित्येव तं व्याधः कृताञ्जलिरुवाच ह 029a
प्रदक्षिणमथो कृत्वा प्रस्थितो द्विजसत्तमः 029c
स तु गत्वा द्विजः सर्वां शुश्रूषां कृतवांस्तदा 030a
मातापितृभ्यां वृद्धाभ्यां यथान्यायं सुसंशितः 030c
एतत्ते सर्वमाख्यातं निखिलेन युधिष्ठिर 031a
पृष्टवानसि यं तात धर्मं धर्मभृतां वर 031c
पतिव्रताया माहात्म्यं ब्राह्मणस्य च सत्तम 032a
मातापित्रोश्च शुश्रूषा व्याधे धर्मश्च कीर्तितः 032c
युधिष्ठिर उवाच 033
अत्यद्भुतमिदं ब्रह्मन्धर्माख्यानमनुत्तमम् 033a
सर्वधर्मभृतां श्रेष्ठ कथितं द्विजसत्तम 033c
सुखश्रव्यतया विद्वन्मुहूर्तमिव मे गतम् 034a
न हि तृप्तोऽस्मि भगवञ्शृण्वानो धर्ममुत्तमम् 034c