मार्कण्डेय उवाच 001
गुरू निवेद्य विप्राय तौ मातापितरावुभौ 001a
पुनरेव स धर्मात्मा व्याधो ब्राह्मणमब्रवीत् 001c
प्रवृत्तचक्षुर्जातोऽस्मि सम्पश्य तपसो बलम् 002a
यदर्थमुक्तोऽसि तया गच्छस्व मिथिलामिति 002c
पतिशुश्रूषपरया दान्तया सत्यशीलया 003a
मिथिलायां वसन्व्याधः स ते धर्मान्प्रवक्ष्यति 003c
ब्राह्मण उवाच 004
पतिव्रतायाः सत्यायाः शीलाढ्याया यतव्रत 004a
संस्मृत्य वाक्यं धर्मज्ञ गुणवानसि मे मतः 004c
व्याध उवाच 005
यत्तदा त्वं द्विजश्रेष्ठ तयोक्तो मां प्रति प्रभो 005a
दृष्टमेतत्तया सम्यगेकपत्न्या न संशयः 005c
त्वदनुग्रहबुद्ध्या तु विप्रैतद्दर्शितं मया 006a
वाक्यं च शृणु मे तात यत्ते वक्ष्ये हितं द्विज 006c
त्वया विनिकृता माता पिता च द्विजसत्तम 007a
अनिसृष्टोऽसि निष्क्रान्तो गृहात्ताभ्यामनिन्दित 007c
वेदोच्चारणकार्यार्थमयुक्तं तत्त्वया कृतम् 007e
तव शोकेन वृद्धौ तावन्धौ जातौ तपस्विनौ 008a
तौ प्रसादयितुं गच्छ मा त्वा धर्मोऽत्यगान्महान् 008c
तपस्वी त्वं महात्मा च धर्मे च निरतः सदा 009a
सर्वमेतदपार्थं ते क्षिप्रं तौ सम्प्रसादय 009c
श्रद्दधस्व मम ब्रह्मन्नान्यथा कर्तुमर्हसि 010a
गम्यतामद्य विप्रर्षे श्रेयस्ते कथयाम्यहम् 010c
ब्राह्मण उवाच 011
यदेतदुक्तं भवता सर्वं सत्यमसंशयम् 011a
प्रीतोऽस्मि तव धर्मज्ञ साध्वाचार गुणान्वित 011c
व्याध उवाच 012
दैवतप्रतिमो हि त्वं यस्त्वं धर्ममनुव्रतः 012a
पुराणं शाश्वतं दिव्यं दुष्प्रापमकृतात्मभिः 012c
अतन्द्रितः कुरु क्षिप्रं मातापित्रोर्हि पूजनम् 013a
अतः परमहं धर्मं नान्यं पश्यामि कञ्चन 013c
ब्राह्मण उवाच 014
इहाहमागतो दिष्ट्या दिष्ट्या मे सङ्गतं त्वया 014a
ईदृशा दुर्लभा लोके नरा धर्मप्रदर्शकाः 014c
एको नरसहस्रेषु धर्मविद्विद्यते न वा 015a
प्रीतोऽस्मि तव सत्येन भद्रं ते पुरुषोत्तम 015c
पतमानो हि नरके भवतास्मि समुद्धृतः 016a
भवितव्यमथैवं च यद्दृष्टोऽसि मयानघ 016c
राजा ययातिर्दौहित्रैः पतितस्तारितो यथा 017a
सद्भिः पुरुषशार्दूल तथाहं भवता त्विह 017c
मातापितृभ्यां शुश्रूषां करिष्ये वचनात्तव 018a
नाकृतात्मा वेदयति धर्माधर्मविनिश्चयम् 018c
दुर्ज्ञेयः शाश्वतो धर्मः शूद्रयोनौ हि वर्तता 019a
न त्वां शूद्रमहं मन्ये भवितव्यं हि कारणम् 019c
येन कर्मविपाकेन प्राप्तेयं शूद्रता त्वया 019e
एतदिच्छामि विज्ञातुं तत्त्वेन हि महामते 020a
कामया ब्रूहि मे तथ्यं सर्वं त्वं प्रयतात्मवान् 020c
व्याध उवाच 021
अनतिक्रमणीया हि ब्राह्मणा वै द्विजोत्तम 021a
शृणु सर्वमिदं वृत्तं पूर्वदेहे ममानघ 021c
अहं हि ब्राह्मणः पूर्वमासं द्विजवरात्मज 022a
वेदाध्यायी सुकुशलो वेदाङ्गानां च पारगः 022c
आत्मदोषकृतैर्ब्रह्मन्नवस्थां प्राप्तवानिमाम् 022e
कश्चिद्राजा मम सखा धनुर्वेदपरायणः 023a
संसर्गाद्धनुषि श्रेष्ठस्ततोऽहमभवं द्विज 023c
एतस्मिन्नेव काले तु मृगयां निर्गतो नृपः 024a
सहितो योधमुख्यैश्च मन्त्रिभिश्च सुसंवृतः 024c
ततोऽभ्यहन्मृगांस्तत्र सुबहूनाश्रमं प्रति 024e
अथ क्षिप्तः शरो घोरो मयापि द्विजसत्तम 025a
ताडितश्च मुनिस्तेन शरेणानतपर्वणा 025c
भूमौ निपतितो ब्रह्मन्नुवाच प्रतिनादयन् 026a
नापराध्याम्यहं किञ्चित्केन पापमिदं कृतम् 026c
मन्वानस्तं मृगं चाहं सम्प्राप्तः सहसा मुनिम् 027a
अपश्यं तमृषिं विद्धं शरेणानतपर्वणा 027c
तमुग्रतपसं विप्रं निष्टनन्तं महीतले 027e
अकार्यकरणाच्चापि भृशं मे व्यथितं मनः 028a
अजानता कृतमिदं मयेत्यथ तमब्रुवम् 028c
क्षन्तुमर्हसि मे ब्रह्मन्निति चोक्तो मया मुनिः 028e
ततः प्रत्यब्रवीद्वाक्यमृषिर्मां क्रोधमूर्छितः 029a
व्याधस्त्वं भविता क्रूर शूद्रयोनाविति द्विज 029c