मार्कण्डेय उवाच 001
एवं सङ्कथिते कृत्स्ने मोक्षधर्मे युधिष्ठिर 001a
दृढं प्रीतमना विप्रो धर्मव्याधमुवाच ह 001c
न्याययुक्तमिदं सर्वं भवता परिकीर्तितम् 002a
न तेऽस्त्यविदितं किञ्चिद्धर्मेष्विह हि दृश्यते 002c
व्याध उवाच 003
प्रत्यक्षं मम यो धर्मस्तं पश्य द्विजसत्तम 003a
येन सिद्धिरियं प्राप्ता मया ब्राह्मणपुङ्गव 003c
उत्तिष्ठ भगवन्क्षिप्रं प्रविश्याभ्यन्तरं गृहम् 004a
द्रष्टुमर्हसि धर्मज्ञ मातरं पितरं च मे 004c
मार्कण्डेय उवाच 005
इत्युक्तः स प्रविश्याथ ददर्श परमार्चितम् 005a
सौधं हृद्यं चतुःशालमतीव च मनोहरम् 005c
देवतागृहसङ्काशं दैवतैश्च सुपूजितम् 006a
शयनासनसम्बाधं गन्धैश्च परमैर्युतम् 006c
तत्र शुक्लाम्बरधरौ पितरावस्य पूजितौ 007a
कृताहारौ सुतुष्टौ तावुपविष्टौ वरासने 007c
धर्मव्याधस्तु तौ दृष्ट्वा पादेषु शिरसापतत् 007e
वृद्धावूचतुः 008
उत्तिष्ठोत्तिष्ठ धर्मज्ञ धर्मस्त्वामभिरक्षतु 008a
प्रीतौ स्वस्तव शौचेन दीर्घमायुरवाप्नुहि 008c
सत्पुत्रेण त्वया पुत्र नित्यकालं सुपूजितौ 008e
न तेऽन्यद्दैवतं किञ्चिद्दैवतेष्वपि वर्तते 009a
प्रयतत्वाद्द्विजातीनां दमेनासि समन्वितः 009c
पितुः पितामहा ये च तथैव प्रपितामहाः 010a
प्रीतास्ते सततं पुत्र दमेनावां च पूजया 010c
मनसा कर्मणा वाचा शुश्रूषा नैव हीयते 011a
न चान्या वितथा बुद्धिर्दृश्यते साम्प्रतं तव 011c
जामदग्न्येन रामेण यथा वृद्धौ सुपूजितौ 012a
तथा त्वया कृतं सर्वं तद्विशिष्टं च पुत्रक 012c
मार्कण्डेय उवाच 013
ततस्तं ब्राह्मणं ताभ्यां धर्मव्याधो न्यवेदयत् 013a
तौ स्वागतेन तं विप्रमर्चयामासतुस्तदा 013c
प्रतिगृह्य च तां पूजां द्विजः पप्रच्छ तावुभौ 014a
सपुत्राभ्यां सभृत्याभ्यां कच्चिद्वां कुशलं गृहे 014c
अनामयं च वां कच्चित्सदैवेह शरीरयोः 014e
वृद्धावूचतुः 015
कुशलं नो गृहे विप्र भृत्यवर्गे च सर्वशः 015a
कच्चित्त्वमप्यविघ्नेन सम्प्राप्तो भगवन्निह 015c
मार्कण्डेय उवाच 016
बाढमित्येव तौ विप्रः प्रत्युवाच मुदान्वितः 016a
धर्मव्याधस्तु तं विप्रमर्थवद्वाक्यमब्रवीत् 016c
पिता माता च भगवन्नेतौ मे दैवतं परम् 017a
यद्दैवतेभ्यः कर्तव्यं तदेताभ्यां करोम्यहम् 017c
त्रयस्त्रिंशद्यथा देवाः सर्वे शक्रपुरोगमाः 018a
सम्पूज्याः सर्वलोकस्य तथा वृद्धाविमौ मम 018c
उपहारानाहरन्तो देवतानां यथा द्विजाः 019a
कुर्वते तद्वदेताभ्यां करोम्यहमतन्द्रितः 019c
एतौ मे परमं ब्रह्मन्पिता माता च दैवतम् 020a
एतौ पुष्पैः फलै रत्नैस्तोषयामि सदा द्विज 020c
एतावेवाग्नयो मह्यं यान्वदन्ति मनीषिणः 021a
यज्ञा वेदाश्च चत्वारः सर्वमेतौ मम द्विज 021c
एतदर्थं मम प्राणा भार्या पुत्राः सुहृज्जनाः 022a
सपुत्रदारः शुश्रूषां नित्यमेव करोम्यहम् 022c
स्वयं च स्नापयाम्येतौ तथा पादौ प्रधावये 023a
आहारं सम्प्रयच्छामि स्वयं च द्विजसत्तम 023c
अनुकूलाः कथा वच्मि विप्रियं परिवर्जयन् 024a
अधर्मेणापि संयुक्तं प्रियमाभ्यां करोम्यहम् 024c
धर्ममेव गुरुं ज्ञात्वा करोमि द्विजसत्तम 025a
अतन्द्रितः सदा विप्र शुश्रूषां वै करोम्यहम् 025c
पञ्चैव गुरवो ब्रह्मन्पुरुषस्य बुभूषतः 026a
पिता माताग्निरात्मा च गुरुश्च द्विजसत्तम 026c
एतेषु यस्तु वर्तेत सम्यगेव द्विजोत्तम 027a
भवेयुरग्नयस्तस्य परिचीर्णास्तु नित्यशः 027c
गार्हस्थ्ये वर्तमानस्य धर्म एष सनातनः 027e