मार्कण्डेय उवाच 001
एवं तु सूक्ष्मे कथिते धर्मव्याधेन भारत 001a
ब्राह्मणः स पुनः सूक्ष्मं पप्रच्छ सुसमाहितः 001c
ब्राह्मण उवाच 002
सत्त्वस्य रजसश्चैव तमसश्च यथातथम् 002a
गुणांस्तत्त्वेन मे ब्रूहि यथावदिह पृच्छतः 002c
व्याध उवाच 003
हन्त ते कथयिष्यामि यन्मां त्वं परिपृच्छसि 003a
एषां गुणान्पृथक्त्वेन निबोध गदतो मम 003c
मोहात्मकं तमस्तेषां रज एषां प्रवर्तकम् 004a
प्रकाशबहुलत्वाच्च सत्त्वं ज्याय इहोच्यते 004c
अविद्याबहुलो मूढः स्वप्नशीलो विचेतनः 005a
दुर्दृशीकस्तमोध्वस्तः सक्रोधस्तामसोऽलसः 005c
प्रवृत्तवाक्यो मन्त्री च योऽनुराग्यभ्यसूयकः 006a
विवित्समानो विप्रर्षे स्तब्धो मानी स राजसः 006c
प्रकाशबहुलो धीरो निर्विवित्सोऽनसूयकः 007a
अक्रोधनो नरो धीमान्दान्तश्चैव स सात्त्विकः 007c
सात्त्विकस्त्वथ सम्बुद्धो लोकवृत्तेन क्लिश्यते 008a
यदा बुध्यति बोद्धव्यं लोकवृत्तं जुगुप्सते 008c
वैराग्यस्य हि रूपं तु पूर्वमेव प्रवर्तते 009a
मृदुर्भवत्यहङ्कारः प्रसीदत्यार्जवं च यत् 009c
ततोऽस्य सर्वद्वन्द्वानि प्रशाम्यन्ति परस्परम् 010a
न चास्य संयमो नाम क्वचिद्भवति कश्चन 010c
शूद्रयोनौ हि जातस्य सद्गुणानुपतिष्ठतः 011a
वैश्यत्वं भवति ब्रह्मन्क्षत्रियत्वं तथैव च 011c
आर्जवे वर्तमानस्य ब्राह्मण्यमभिजायते 012a
गुणास्ते कीर्तिताः सर्वे किं भूयः श्रोतुमिच्छसि 012c
ब्राह्मण उवाच 013
पार्थिवं धातुमासाद्य शारीरोऽग्निः कथं भवेत् 013a
अवकाशविशेषेण कथं वर्तयतेऽनिलः 013c
मार्कण्डेय उवाच 014
प्रश्नमेतं समुद्दिष्टं ब्राह्मणेन युधिष्ठिर 014a
व्याधः स कथयामास ब्राह्मणाय महात्मने 014c
व्याध उवाच 015
मूर्धानमाश्रितो वह्निः शरीरं परिपालयन् 015a
प्राणो मूर्धनि चाग्नौ च वर्तमानो विचेष्टते 015c
भूतं भव्यं भविष्यच्च सर्वं प्राणे प्रतिष्ठितम् 015e
श्रेष्ठं तदेव भूतानां ब्रह्मज्योतिरुपास्महे 016a
स जन्तुः सर्वभूतात्मा पुरुषः स सनातनः 016c
मनो बुद्धिरहङ्कारो भूतानां विषयश्च सः 016e
एवं त्विह स सर्वत्र प्राणेन परिपाल्यते 017a
पृष्ठतस्तु समानेन स्वां स्वां गतिमुपाश्रितः 017c
बस्तिमूले गुदे चैव पावकः समुपाश्रितः 018a
वहन्मूत्रं पुरीषं चाप्यपानः परिवर्तते 018c
प्रयत्ने कर्मणि बले य एकस्त्रिषु वर्तते 019a
उदान इति तं प्राहुरध्यात्मविदुषो जनाः 019c
सन्धौ सन्धौ सन्निविष्टः सर्वेष्वपि तथानिलः 020a
शरीरेषु मनुष्याणां व्यान इत्युपदिष्यते 020c
धातुष्वग्निस्तु विततः स तु वायुसमीरितः 021a
रसान्धातूंश्च दोषांश्च वर्तयन्परिधावति 021c
प्राणानां सन्निपातात्तु सन्निपातः प्रजायते 022a
ऊष्मा चाग्निरिति ज्ञेयो योऽन्नं पचति देहिनाम् 022c
अपानोदानयोर्मध्ये प्राणव्यानौ समाहितौ 023a
समन्वितस्त्वधिष्ठानं सम्यक्पचति पावकः 023c
तस्यापि पायुपर्यन्तस्तथा स्याद्गुदसञ्ज्ञितः 024a
स्रोतांसि तस्माज्जायन्ते सर्वप्राणेषु देहिनाम् 024c
अग्निवेगवहः प्राणो गुदान्ते प्रतिहन्यते 025a
स ऊर्ध्वमागम्य पुनः समुत्क्षिपति पावकम् 025c
पक्वाशयस्त्वधो नाभ्या ऊर्ध्वमामाशयः स्थितः 026a
नाभिमध्ये शरीरस्य प्राणाः सर्वे प्रतिष्ठिताः 026c
प्रवृत्ता हृदयात्सर्वास्तिर्यगूर्ध्वमधस्तथा 027a
वहन्त्यन्नरसान्नाड्यो दश प्राणप्रचोदिताः 027c
योगिनामेष मार्गस्तु येन गच्छन्ति तत्परम् 028a
जितक्लमासना धीरा मूर्धन्यात्मानमादधुः 028c
एवं सर्वेषु विततौ प्राणापानौ हि देहिषु 028e
एकादशविकारात्मा कलासम्भारसम्भृतः 029a
मूर्तिमन्तं हि तं विद्धि नित्यं कर्मजितात्मकम् 029c
तस्मिन्यः संस्थितो ह्यग्निर्नित्यं स्थाल्यामिवाहितः 030a
आत्मानं तं विजानीहि नित्यं योगजितात्मकम् 030c
देवो यः संस्थितस्तस्मिन्नब्बिन्दुरिव पुष्करे 031a
क्षेत्रज्ञं तं विजानीहि नित्यं त्यागजितात्मकम् 031c
जीवात्मकानि जानीहि रजः सत्त्वं तमस्तथा 032a
जीवमात्मगुणं विद्धि तथात्मानं परात्मकम् 032c
सचेतनं जीवगुणं वदन्ति स चेष्टते चेष्टयते च सर्वम् 033a
ततः परं क्षेत्रविदो वदन्ति प्राकल्पयद्यो भुवनानि सप्त 033c
एवं सर्वेषु भूतेषु भूतात्मा न प्रकाशते 034a
दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया ज्ञानवेदिभिः 034c
चित्तस्य हि प्रसादेन हन्ति कर्म शुभाशुभम् 035a
प्रसन्नात्मात्मनि स्थित्वा सुखमानन्त्यमश्नुते 035c
लक्षणं तु प्रसादस्य यथा तृप्तः सुखं स्वपेत् 036a
निवाते वा यथा दीपो दीप्येत्कुशलदीपितः 036c
पूर्वरात्रे परे चैव युञ्जानः सततं मनः 037a
लघ्वाहारो विशुद्धात्मा पश्यन्नात्मानमात्मनि 037c
प्रदीप्तेनेव दीपेन मनोदीपेन पश्यति 038a
दृष्ट्वात्मानं निरात्मानं तदा स तु विमुच्यते 038c
सर्वोपायैस्तु लोभस्य क्रोधस्य च विनिग्रहः 039a
एतत्पवित्रं यज्ञानां तपो वै सङ्क्रमो मतः 039c
नित्यं क्रोधात्तपो रक्षेच्छ्रियं रक्षेत मत्सरात् 040a
विद्यां मानापमानाभ्यामात्मानं तु प्रमादतः 040c
आनृशंस्यं परो धर्मः क्षमा च परमं बलम् 041a
आत्मज्ञानं परं ज्ञानं परं सत्यव्रतं व्रतम् 041c
सत्यस्य वचनं श्रेयः सत्यं ज्ञानं हितं भवेत् 042a
यद्भूतहितमत्यन्तं तद्वै सत्यं परं मतम् 042c
यस्य सर्वे समारम्भाः निराशीर्बन्धनाः सदा 043a
त्यागे यस्य हुतं सर्वं स त्यागी स च बुद्धिमान् 043c
यतो न गुरुरप्येनं च्यावयेदुपपादयन् 044a
तं विद्याद्ब्रह्मणो योगं वियोगं योगसञ्ज्ञितम् 044c
न हिंस्यात्सर्वभूतानि मैत्रायणगतश्चरेत् 045a
नेदं जीवितमासाद्य वैरं कुर्वीत केनचित् 045c
आकिञ्चन्यं सुसन्तोषो निराशित्वमचापलम् 046a
एतदेव परं ज्ञानं सदात्मज्ञानमुत्तमम् 046c
परिग्रहं परित्यज्य भव बुद्ध्या यतव्रतः 047a
अशोकं स्थानमातिष्ठेन्निश्चलं प्रेत्य चेह च 047c
तपोनित्येन दान्तेन मुनिना संयतात्मना 048a
अजितं जेतुकामेन भाव्यं सङ्गेष्वसङ्गिना 048c
गुणागुणमनासङ्गमेककार्यमनन्तरम् 049a
एतद्ब्राह्मण ते वृत्तमाहुरेकपदं सुखम् 049c
परित्यजति यो दुःखं सुखं चाप्युभयं नरः 050a
ब्रह्म प्राप्नोति सोऽत्यन्तमसङ्गेन च गच्छति 050c
यथाश्रुतमिदं सर्वं समासेन द्विजोत्तम 051a
एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि 051c