मार्कण्डेय उवाच 001
एवमुक्तः स विप्रस्तु धर्मव्याधेन भारत 001a
कथामकथयद्भूयो मनसः प्रीतिवर्धनीम् 001c
ब्राह्मण 002
महाभूतानि यान्याहुः पञ्च धर्मविदां वर 002a
एकैकस्य गुणान्सम्यक्पञ्चानामपि मे वद 002c
व्याध उवाच 003
भूमिरापस्तथा ज्योतिर्वायुराकाशमेव च 003a
गुणोत्तराणि सर्वाणि तेषां वक्ष्यामि ते गुणान् 003c
भूमिः पञ्चगुणा ब्रह्मन्नुदकं च चतुर्गुणम् 004a
गुणास्त्रयस्तेजसि च त्रयश्चाकाशवातयोः 004c
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः 005a
एते गुणाः पञ्च भूमेः सर्वेभ्यो गुणवत्तराः 005c
शब्दः स्पर्शश्च रूपं च रसश्चापि द्विजोत्तम 006a
अपामेते गुणा ब्रह्मन्कीर्तितास्तव सुव्रत 006c
शब्दः स्पर्शश्च रूपं च तेजसोऽथ गुणास्त्रयः 007a
शब्दः स्पर्शश्च वायौ तु शब्द आकाश एव च 007c
एते पञ्चदश ब्रह्मन्गुणा भूतेषु पञ्चसु 008a
वर्तन्ते सर्वभूतेषु येषु लोकाः प्रतिष्ठिताः 008c
अन्योन्यं नातिवर्तन्ते सम्पच्च भवति द्विज 008e
यदा तु विषमीभावमाचरन्ति चराचराः 009a
तदा देही देहमन्यं व्यतिरोहति कालतः 009c
आनुपूर्व्या विनश्यन्ति जायन्ते चानुपूर्वशः 010a
तत्र तत्र हि दृश्यन्ते धातवः पाञ्चभौतिकाः 010c
यैरावृतमिदं सर्वं जगत्स्थावरजङ्गमम् 010e
इन्द्रियैः सृज्यते यद्यत्तत्तद्व्यक्तमिति स्मृतम् 011a
अव्यक्तमिति विज्ञेयं लिङ्गग्राह्यमतीन्द्रियम् 011c
यथास्वं ग्राहकान्येषां शब्दादीनामिमानि तु 012a
इन्द्रियाणि यदा देही धारयन्निह तप्यते 012c
लोके विततमात्मानं लोकं चात्मनि पश्यति 013a
परावरज्ञः सक्तः सन्सर्वभूतानि पश्यति 013c
पश्यतः सर्वभूतानि सर्वावस्थासु सर्वदा 014a
ब्रह्मभूतस्य संयोगो नाशुभेनोपपद्यते 014c
ज्ञानमूलात्मकं क्लेशमतिवृत्तस्य मोहजम् 015a
लोको बुद्धिप्रकाशेन ज्ञेयमार्गेण दृश्यते 015c
अनादिनिधनं जन्तुमात्मयोनिं सदाव्ययम् 016a
अनौपम्यममूर्तं च भगवानाह बुद्धिमान् 016c
तपोमूलमिदं सर्वं यन्मां विप्रानुपृच्छसि 016e
इन्द्रियाण्येव तत्सर्वं यत्स्वर्गनरकावुभौ 017a
निगृहीतविसृष्टानि स्वर्गाय नरकाय च 017c
एष योगविधिः कृत्स्नो यावदिन्द्रियधारणम् 018a
एतन्मूलं हि तपसः कृत्स्नस्य नरकस्य च 018c
इन्द्रियाणां प्रसङ्गेन दोषमृच्छत्यसंशयम् 019a
सन्नियम्य तु तान्येव ततः सिद्धिमवाप्नुते 019c
षण्णामात्मनि नित्यानामैश्वर्यं योऽधिगच्छति 020a
न स पापैः कुतोऽनर्थैर्युज्यते विजितेन्द्रियः 020c
रथः शरीरं पुरुषस्य दृष्टमात्मा नियन्तेन्द्रियाण्याहुरश्वान् 021a
तैरप्रमत्तः कुशली सदश्वैर्दान्तैः सुखं याति रथीव धीरः 021c
षण्णामात्मनि नित्यानामिन्द्रियाणां प्रमाथिनाम् 022a
यो धीरो धारयेद्रश्मीन्स स्यात्परमसारथिः 022c
इन्द्रियाणां प्रसृष्टानां हयानामिव वर्त्मसु 023a
धृतिं कुर्वीत सारथ्ये धृत्या तानि जयेद्ध्रुवम् 023c
इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते 024a
तदस्य हरते बुद्धिं नावं वायुरिवाम्भसि 024c
येषु विप्रतिपद्यन्ते षट्सु मोहात्फलागमे 025a
तेष्वध्यवसिताध्यायी विन्दते ध्यानजं फलम् 025c