मार्कण्डेय उवाच 001
एवमुक्तस्तु विप्रेण धर्मव्याधो युधिष्ठिर 001a
प्रत्युवाच यथा विप्रं तच्छृणुष्व नराधिप 001c
व्याध उवाच 002
विज्ञानार्थं मनुष्याणां मनः पूर्वं प्रवर्तते 002a
तत्प्राप्य कामं भजते क्रोधं च द्विजसत्तम 002c
ततस्तदर्थं यतते कर्म चारभते महत् 003a
इष्टानां रूपगन्धानामभ्यासं च निषेवते 003c
ततो रागः प्रभवति द्वेषश्च तदनन्तरम् 004a
ततो लोभः प्रभवति मोहश्च तदनन्तरम् 004c
तस्य लोभाभिभूतस्य रागद्वेषहतस्य च 005a
न धर्मे जायते बुद्धिर्व्याजाद्धर्मं करोति च 005c
व्याजेन चरते धर्ममर्थं व्याजेन रोचते 006a
व्याजेन सिध्यमानेषु धनेषु द्विजसत्तम 006c
तत्रैव रमते बुद्धिस्ततः पापं चिकीर्षति 006e
सुहृद्भिर्वार्यमाणश्च पण्डितैश्च द्विजोत्तम 007a
उत्तरं श्रुतिसम्बद्धं ब्रवीति श्रुतियोजितम् 007c
अधर्मस्त्रिविधस्तस्य वर्धते रागदोषतः 008a
पापं चिन्तयते चापि ब्रवीति च करोति च 008c
तस्याधर्मप्रवृत्तस्य गुणा नश्यन्ति साधवः 009a
एकशीलाश्च मित्रत्वं भजन्ते पापकर्मिणः 009c
स तेनासुखमाप्नोति परत्र च विहन्यते 010a
पापात्मा भवति ह्येवं धर्मलाभं तु मे शृणु 010c
यस्त्वेतान्प्रज्ञया दोषान्पूर्वमेवानुपश्यति 011a
कुशलः सुखदुःखेषु साधूंश्चाप्युपसेवते 011c
तस्य साधुसमारम्भाद्बुद्धिर्धर्मेषु जायते 011e
ब्राह्मण उवाच 012
ब्रवीषि सूनृतं धर्मं यस्य वक्ता न विद्यते 012a
दिव्यप्रभावः सुमहानृषिरेव मतोऽसि मे 012c
व्याध उवाच 013
ब्राह्मणा वै महाभागाः पितरोऽग्रभुजः सदा 013a
तेषां सर्वात्मना कार्यं प्रियं लोके मनीषिणा 013c
यत्तेषां च प्रियं तत्ते वक्ष्यामि द्विजसत्तम 014a
नमस्कृत्वा ब्राह्मणेभ्यो ब्राह्मीं विद्यां निबोध मे 014c
इदं विश्वं जगत्सर्वमजय्यं चापि सर्वशः 015a
महाभूतात्मकं ब्रह्मन्नातः परतरं भवेत् 015c
महाभूतानि खं वायुरग्निरापस्तथा च भूः 016a
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च तद्गुणाः 016c
तेषामपि गुणाः सर्वे गुणवृत्तिः परस्परम् 017a
पूर्वपूर्वगुणाः सर्वे क्रमशो गुणिषु त्रिषु 017c
षष्ठस्तु चेतना नाम मन इत्यभिधीयते 018a
सप्तमी तु भवेद्बुद्धिरहङ्कारस्ततः परम् 018c
इन्द्रियाणि च पञ्चैव रजः सत्त्वं तमस्तथा 019a
इत्येष सप्तदशको राशिरव्यक्तसञ्ज्ञकः 019c
सर्वैरिहेन्द्रियार्थैस्तु व्यक्ताव्यक्तैः सुसंवृतः 020a
चतुर्विंशक इत्येष व्यक्ताव्यक्तमयो गुणः 020c
एतत्ते सर्वमाख्यातं किं भूयो श्रोतुमिच्छसि 020e