मार्कण्डेय उवाच 001
धर्मव्याधस्तु निपुणं पुनरेव युधिष्ठिर 001a
विप्रर्षभमुवाचेदं सर्वधर्मभृतां वरः 001c
श्रुतिप्रमाणो धर्मो हि वृद्धानामिति भाषितम् 002a
सूक्ष्मा गतिर्हि धर्मस्य बहुशाखा ह्यनन्तिका 002c
प्राणात्यये विवाहे च वक्तव्यमनृतं भवेत् 003a
अनृतं च भवेत्सत्यं सत्यं चैवानृतं भवेत् 003c
यद्भूतहितमत्यन्तं तत्सत्यमिति धारणा 004a
विपर्ययकृतोऽधर्मः पश्य धर्मस्य सूक्ष्मताम् 004c
यत्करोत्यशुभं कर्म शुभं वा द्विजसत्तम 005a
अवश्यं तत्समाप्नोति पुरुषो नात्र संशयः 005c
विषमां च दशां प्राप्य देवान्गर्हति वै भृशम् 006a
आत्मनः कर्मदोषाणि न विजानात्यपण्डितः 006c
मूढो नैकृतिकश्चापि चपलश्च द्विजोत्तम 007a
सुखदुःखविपर्यासो यदा समुपपद्यते 007c
नैनं प्रज्ञा सुनीतं वा त्रायते नैव पौरुषम् 007e
यो यमिच्छेद्यथा कामं तं तं कामं समश्नुयात् 008a
यदि स्यादपराधीनं पुरुषस्य क्रियाफलम् 008c
संयताश्चापि दक्षाश्च मतिमन्तश्च मानवाः 009a
दृश्यन्ते निष्फलाः सन्तः प्रहीणाः सर्वकर्मभिः 009c
भूतानामपरः कश्चिद्धिंसायां सततोत्थितः 010a
वञ्चनायां च लोकस्य स सुखेनेह जीवति 010c
अचेष्टमानमासीनं श्रीः कञ्चिदुपतिष्ठति 011a
कश्चित्कर्माणि कुर्वन्हि न प्राप्यमधिगच्छति 011c
देवानिष्ट्वा तपस्तप्त्वा कृपणैः पुत्रगृद्धिभिः 012a
दशमासधृता गर्भे जायन्ते कुलपांसनाः 012c
अपरे धनधान्यैश्च भोगैश्च पितृसञ्चितैः 013a
विपुलैरभिजायन्ते लब्धास्तैरेव मङ्गलैः 013c
कर्मजा हि मनुष्याणां रोगा नास्त्यत्र संशयः 014a
आधिभिश्चैव बाध्यन्ते व्याधैः क्षुद्रमृगा इव 014c
ते चापि कुशलैर्वैद्यैर्निपुणैः सम्भृतौषधैः 015a
व्याधयो विनिवार्यन्ते मृगा व्याधैरिव द्विज 015c
येषामस्ति च भोक्तव्यं ग्रहणीदोषपीडिताः 016a
न शक्नुवन्ति ते भोक्तुं पश्य धर्मभृतां वर 016c
अपरे बाहुबलिनः क्लिश्यन्ते बहवो जनाः 017a
दुःखेन चाधिगच्छन्ति भोजनं द्विजसत्तम 017c
इति लोकमनाक्रन्दं मोहशोकपरिप्लुतम् 018a
स्रोतसासकृदाक्षिप्तं ह्रियमाणं बलीयसा 018c
न म्रियेयुर्न जीर्येयुः सर्वे स्युः सार्वकामिकाः 019a
नाप्रियं प्रतिपश्येयुर्वशित्वं यदि वै भवेत् 019c
उपर्युपरि लोकस्य सर्वो गन्तुं समीहते 020a
यतते च यथाशक्ति न च तद्वर्तते तथा 020c
बहवः सम्प्रदृश्यन्ते तुल्यनक्षत्रमङ्गलाः 021a
महच्च फलवैषम्यं दृश्यते कर्मसन्धिषु 021c
न कश्चिदीशते ब्रह्मन्स्वयङ्ग्राहस्य सत्तम 022a
कर्मणां प्राकृतानां वै इह सिद्धिः प्रदृश्यते 022c
यथा श्रुतिरियं ब्रह्मञ्जीवः किल सनातनः 023a
शरीरमध्रुवं लोके सर्वेषां प्राणिनामिह 023c
वध्यमाने शरीरे तु देहनाशो भवत्युत 024a
जीवः सङ्क्रमतेऽन्यत्र कर्मबन्धनिबन्धनः 024c
ब्राह्मण उवाच 025
कथं धर्मभृतां श्रेष्ठ जीवो भवति शाश्वतः 025a
एतदिच्छाम्यहं ज्ञातुं तत्त्वेन वदतां वर 025c
व्याध उवाच 026
न जीवनाशोऽस्ति हि देहभेदे मिथ्यैतदाहुर्म्रियतेति मूढाः 026a
जीवस्तु देहान्तरितः प्रयाति दशार्धतैवास्य शरीरभेदः 026c
अन्यो हि नाश्नाति कृतं हि कर्म स एव कर्ता सुखदुःखभागी 027a
यत्तेन किञ्चिद्धि कृतं हि कर्म तदश्नुते नास्ति कृतस्य नाशः 027c
अपुण्यशीलाश्च भवन्ति पुण्या नरोत्तमाः पापकृतो भवन्ति 028a
नरोऽनुयातस्त्विह कर्मभिः स्वैस्ततः समुत्पद्यति भावितस्तैः 028c
ब्राह्मण उवाच 029
कथं सम्भवते योनौ कथं वा पुण्यपापयोः 029a
जातीः पुण्या ह्यपुण्याश्च कथं गच्छति सत्तम 029c
व्याध उवाच 030
गर्भाधानसमायुक्तं कर्मेदं सम्प्रदृश्यते 030a
समासेन तु ते क्षिप्रं प्रवक्ष्यामि द्विजोत्तम 030c
यथा सम्भृतसम्भारः पुनरेव प्रजायते 031a
शुभकृच्छुभयोनीषु पापकृत्पापयोनिषु 031c
शुभैः प्रयोगैर्देवत्वं व्यामिश्रैर्मानुषो भवेत् 032a
मोहनीयैर्वियोनीषु त्वधोगामी च किल्बिषैः 032c
जातिमृत्युजरादुःखैः सततं समभिद्रुतः 033a
संसारे पच्यमानश्च दोषैरात्मकृतैर्नरः 033c
तिर्यग्योनिसहस्राणि गत्वा नरकमेव च 034a
जीवाः सम्परिवर्तन्ते कर्मबन्धनिबन्धनाः 034c
जन्तुस्तु कर्मभिस्तैस्तैः स्वकृतैः प्रेत्य दुःखितः 035a
तद्दुःखप्रतिघातार्थमपुण्यां योनिमश्नुते 035c
ततः कर्म समादत्ते पुनरन्यन्नवं बहु 036a
पच्यते तु पुनस्तेन भुक्त्वापथ्यमिवातुरः 036c
अजस्रमेव दुःखार्तोऽदुःखितः सुखसञ्ज्ञितः 037a
ततोऽनिवृत्तबन्धत्वात्कर्मणामुदयादपि 037c
परिक्रामति संसारे चक्रवद्बहुवेदनः 037e
स चेन्निवृत्तबन्धस्तु विशुद्धश्चापि कर्मभिः 038a
प्राप्नोति सुकृताल्ँलोकान्यत्र गत्वा न शोचति 038c
पापं कुर्वन्पापवृत्तः पापस्यान्तं न गच्छति 039a
तस्मात्पुण्यं यतेत्कर्तुं वर्जयेत च पातकम् 039c
अनसूयुः कृतज्ञश्च कल्याणान्येव सेवते 040a
सुखानि धर्ममर्थं च स्वर्गं च लभते नरः 040c
संस्कृतस्य हि दान्तस्य नियतस्य यतात्मनः 041a
प्राज्ञस्यानन्तरा वृत्तिरिह लोके परत्र च 041c
सतां धर्मेण वर्तेत क्रियां शिष्टवदाचरेत् 042a
असङ्क्लेशेन लोकस्य वृत्तिं लिप्सेत वै द्विज 042c
सन्ति ह्यागतविज्ञानाः शिष्टाः शास्त्रविचक्षणाः 043a
स्वधर्मेण क्रिया लोके कर्मणः सोऽप्यसङ्करः 043c
प्राज्ञो धर्मेण रमते धर्मं चैवोपजीवति 044a
तस्य धर्मादवाप्तेषु धनेषु द्विजसत्तम 044c
तस्यैव सिञ्चते मूलं गुणान्पश्यति यत्र वै 044e
धर्मात्मा भवति ह्येवं चित्तं चास्य प्रसीदति 045a
स मैत्रजनसन्तुष्ट इह प्रेत्य च नन्दति 045c
शब्दं स्पर्शं तथा रूपं गन्धानिष्टांश्च सत्तम 046a
प्रभुत्वं लभते चापि धर्मस्यैतत्फलं विदुः 046c
धर्मस्य च फलं लब्ध्वा न तृप्यति महाद्विज 047a
अतृप्यमाणो निर्वेदमादत्ते ज्ञानचक्षुषा 047c
प्रज्ञाचक्षुर्नर इह दोषं नैवानुरुध्यते 048a
विरज्यति यथाकामं न च धर्मं विमुञ्चति 048c
सर्वत्यागे च यतते दृष्ट्वा लोकं क्षयात्मकम् 049a
ततो मोक्षे प्रयतते नानुपायादुपायतः 049c
एवं निर्वेदमादत्ते पापं कर्म जहाति च 050a
धार्मिकश्चापि भवति मोक्षं च लभते परम् 050c
तपो निःश्रेयसं जन्तोस्तस्य मूलं शमो दमः 051a
तेन सर्वानवाप्नोति कामान्यान्मनसेच्छति 051c
इन्द्रियाणां निरोधेन सत्येन च दमेन च 052a
ब्रह्मणः पदमाप्नोति यत्परं द्विजसत्तम 052c
ब्राह्मण उवाच 053
इन्द्रियाणि तु यान्याहुः कानि तानि यतव्रत 053a
निग्रहश्च कथं कार्यो निग्रहस्य च किं फलम् 053c
कथं च फलमाप्नोति तेषां धर्मभृतां वर 054a
एतदिच्छामि तत्त्वेन धर्मं ज्ञातुं सुधार्मिक 054c