मार्कण्डेय उवाच 001
स तु विप्रमथोवाच धर्मव्याधो युधिष्ठिर 001a
यदहं ह्याचरे कर्म घोरमेतदसंशयम् 001c
विधिस्तु बलवान्ब्रह्मन्दुस्तरं हि पुराकृतम् 002a
पुराकृतस्य पापस्य कर्मदोषो भवत्ययम् 002c
दोषस्यैतस्य वै ब्रह्मन्विघाते यत्नवानहम् 002e
विधिना विहिते पूर्वं निमित्तं घातको भवेत् 003a
निमित्तभूता हि वयं कर्मणोऽस्य द्विजोत्तम 003c
येषां हतानां मांसानि विक्रीणामो वयं द्विज 004a
तेषामपि भवेद्धर्म उपभोगेन भक्षणात् 004c
देवतातिथिभृत्यानां पितॄणां प्रतिपूजनात् 004e
ओषध्यो वीरुधश्चापि पशवो मृगपक्षिणः 005a
अन्नाद्यभूता लोकस्य इत्यपि श्रूयते श्रुतिः 005c
आत्ममांसप्रदानेन शिबिरौशीनरो नृपः 006a
स्वर्गं सुदुर्लभं प्राप्तः क्षमावान्द्विजसत्तम 006c
राज्ञो महानसे पूर्वं रन्तिदेवस्य वै द्विज 007a
द्वे सहस्रे तु वध्येते पशूनामन्वहं तदा 007c
समांसं ददतो ह्यन्नं रन्तिदेवस्य नित्यशः 008a
अतुला कीर्तिरभवन्नृपस्य द्विजसत्तम 008c
चातुर्मास्येषु पशवो वध्यन्त इति नित्यशः 008e
अग्नयो मांसकामाश्च इत्यपि श्रूयते श्रुतिः 009a
यज्ञेषु पशवो ब्रह्मन्वध्यन्ते सततं द्विजैः 009c
संस्कृताः किल मन्त्रैश्च तेऽपि स्वर्गमवाप्नुवन् 009e
यदि नैवाग्नयो ब्रह्मन्मांसकामाभवन्पुरा 010a
भक्ष्यं नैव भवेन्मांसं कस्यचिद्द्विजसत्तम 010c
अत्रापि विधिरुक्तश्च मुनिभिर्मांसभक्षणे 011a
देवतानां पितॄणां च भुङ्क्ते दत्त्वा तु यः सदा 011c
यथाविधि यथाश्रद्धं न स दुष्यति भक्षणात् 011e
अमांसाशी भवत्येवमित्यपि श्रूयते श्रुतिः 012a
भार्यां गच्छन्ब्रह्मचारी ऋतौ भवति ब्राह्मणः 012c
सत्यानृते विनिश्चित्य अत्रापि विधिरुच्यते 013a
सौदासेन पुरा राज्ञा मानुषा भक्षिता द्विज 013c
शापाभिभूतेन भृशमत्र किं प्रतिभाति ते 013e
स्वधर्म इति कृत्वा तु न त्यजामि द्विजोत्तम 014a
पुराकृतमिति ज्ञात्वा जीवाम्येतेन कर्मणा 014c
स्वकर्म त्यजतो ब्रह्मन्नधर्म इह दृश्यते 015a
स्वकर्मनिरतो यस्तु स धर्म इति निश्चयः 015c
पूर्वं हि विहितं कर्म देहिनं न विमुञ्चति 016a
धात्रा विधिरयं दृष्टो बहुधा कर्मनिर्णये 016c
द्रष्टव्यं तु भवेत्प्राज्ञ क्रूरे कर्मणि वर्तता 017a
कथं कर्म शुभं कुर्यां कथं मुच्ये पराभवात् 017c
कर्मणस्तस्य घोरस्य बहुधा निर्णयो भवेत् 017e
दाने च सत्यवाक्ये च गुरुशुश्रूषणे तथा 018a
द्विजातिपूजने चाहं धर्मे च निरतः सदा 018c
अतिवादातिमानाभ्यां निवृत्तोऽस्मि द्विजोत्तम 018e
कृषिं साध्विति मन्यन्ते तत्र हिंसा परा स्मृता 019a
कर्षन्तो लाङ्गलैः पुंसो घ्नन्ति भूमिशयान्बहून् 019c
जीवानन्यांश्च बहुशस्तत्र किं प्रतिभाति ते 019e
धान्यबीजानि यान्याहुर्व्रीह्यादीनि द्विजोत्तम 020a
सर्वाण्येतानि जीवानि तत्र किं प्रतिभाति ते 020c
अध्याक्रम्य पशूंश्चापि घ्नन्ति वै भक्षयन्ति च 021a
वृक्षानथौषधीश्चैव छिन्दन्ति पुरुषा द्विज 021c
जीवा हि बहवो ब्रह्मन्वृक्षेषु च फलेषु च 022a
उदके बहवश्चापि तत्र किं प्रतिभाति ते 022c
सर्वं व्याप्तमिदं ब्रह्मन्प्राणिभिः प्राणिजीवनैः 023a
मत्स्या ग्रसन्ते मत्स्यांश्च तत्र किं प्रतिभाति ते 023c
सत्त्वैः सत्त्वानि जीवन्ति बहुधा द्विजसत्तम 024a
प्राणिनोऽन्योन्यभक्षाश्च तत्र किं प्रतिभाति ते 024c
चङ्क्रम्यमाणा जीवांश्च धरणीसंश्रितान्बहून् 025a
पद्भ्यां घ्नन्ति नरा विप्र तत्र किं प्रतिभाति ते 025c
उपविष्टाः शयानाश्च घ्नन्ति जीवाननेकशः 026a
ज्ञानविज्ञानवन्तश्च तत्र किं प्रतिभाति ते 026c
जीवैर्ग्रस्तमिदं सर्वमाकाशं पृथिवी तथा 027a
अविज्ञानाच्च हिंसन्ति तत्र किं प्रतिभाति ते 027c
अहिंसेति यदुक्तं हि पुरुषैर्विस्मितैः पुरा 028a
के न हिंसन्ति जीवन्वै लोकेऽस्मिन्द्विजसत्तम 028c
बहु सञ्चिन्त्य इह वै नास्ति कश्चिदहिंसकः 028e
अहिंसायां तु निरता यतयो द्विजसत्तम 029a
कुर्वन्त्येव हि हिंसां ते यत्नादल्पतरा भवेत् 029c
आलक्ष्याश्चैव पुरुषाः कुले जाता महागुणाः 030a
महाघोराणि कर्माणि कृत्वा लज्जन्ति वै न च 030c
सुहृदः सुहृदोऽन्यांश्च दुर्हृदश्चापि दुर्हृदः 031a
सम्यक्प्रवृत्तान्पुरुषान्न सम्यगनुपश्यतः 031c
समृद्धैश्च न नन्दन्ति बान्धवा बान्धवैरपि 032a
गुरूंश्चैव विनिन्दन्ति मूढाः पण्डितमानिनः 032c
बहु लोके विपर्यस्तं दृश्यते द्विजसत्तम 033a
धर्मयुक्तमधर्मं च तत्र किं प्रतिभाति ते 033c
वक्तुं बहुविधं शक्यं धर्माधर्मेषु कर्मसु 034a
स्वकर्मनिरतो यो हि स यशः प्राप्नुयान्महत् 034c