मार्कण्डेय उवाच 001
चिन्तयित्वा तदाश्चर्यं स्त्रिया प्रोक्तमशेषतः 001a
विनिन्दन्स द्विजोऽऽत्मानमागस्कृत इवाबभौ 001c
चिन्तयानः स धर्मस्य सूक्ष्मां गतिमथाब्रवीत् 002a
श्रद्दधानेन भाव्यं वै गच्छामि मिथिलामहम् 002c
कृतात्मा धर्मवित्तस्यां व्याधो निवसते किल 003a
तं गच्छाम्यहमद्यैव धर्मं प्रष्टुं तपोधनम् 003c
इति सञ्चिन्त्य मनसा श्रद्दधानः स्त्रिया वचः 004a
बलाकाप्रत्ययेनासौ धर्म्यैश्च वचनैः शुभैः 004c
सम्प्रतस्थे स मिथिलां कौतूहलसमन्वितः 004e
अतिक्रामन्नरण्यानि ग्रामांश्च नगराणि च 005a
ततो जगाम मिथिलां जनकेन सुरक्षिताम् 005c
धर्मसेतुसमाकीर्णां यज्ञोत्सववतीं शुभाम् 006a
गोपुराट्टालकवतीं गृहप्राकारशोभिताम् 006c
प्रविश्य स पुरीं रम्यां विमानैर्बहुभिर्वृताम् 007a
पण्यैश्च बहुभिर्युक्तां सुविभक्तमहापथाम् 007c
अश्वै रथैस्तथा नागैर्यानैश्च बहुभिर्वृताम् 008a
हृष्टपुष्टजनाकीर्णां नित्योत्सवसमाकुलाम् 008c
सोऽपश्यद्बहुवृत्तान्तां ब्राह्मणः समतिक्रमन् 009a
धर्मव्याधमपृच्छच्च स चास्य कथितो द्विजैः 009c
अपश्यत्तत्र गत्वा तं सूनामध्ये व्यवस्थितम् 010a
मार्गमाहिषमांसानि विक्रीणन्तं तपस्विनम् 010c
आकुलत्वात्तु क्रेतॄणामेकान्ते संस्थितो द्विजः 010e
स तु ज्ञात्वा द्विजं प्राप्तं सहसा सम्भ्रमोत्थितः 011a
आजगाम यतो विप्रः स्थित एकान्त आसने 011c
व्याध उवाच 012
अभिवादये त्वा भगवन्स्वागतं ते द्विजोत्तम 012a
अहं व्याधस्तु भद्रं ते किं करोमि प्रशाधि माम् 012c
एकपत्न्या यदुक्तोऽसि गच्छ त्वं मिथिलामिति 013a
जानाम्येतदहं सर्वं यदर्थं त्वमिहागतः 013c
मार्कण्डेय उवाच 014
श्रुत्वा तु तस्य तद्वाक्यं स विप्रो भृशहर्षितः 014a
द्वितीयमिदमाश्चर्यमित्यचिन्तयत द्विजः 014c
अदेशस्थं हि ते स्थानमिति व्याधोऽब्रवीद्द्विजम् 015a
गृहं गच्छाव भगवन्यदि रोचयसेऽनघ 015c
बाढमित्येव संहृष्टो विप्रो वचनमब्रवीत् 016a
अग्रतस्तु द्विजं कृत्वा स जगाम गृहान्प्रति 016c
प्रविश्य च गृहं रम्यमासनेनाभिपूजितः 017a
पाद्यमाचमनीयं च प्रतिगृह्य द्विजोत्तमः 017c
ततः सुखोपविष्टस्तं व्याधं वचनमब्रवीत् 018a
कर्मैतद्वै न सदृशं भवतः प्रतिभाति मे 018c
अनुतप्ये भृशं तात तव घोरेण कर्मणा 018e
व्याध उवाच 019
कुलोचितमिदं कर्म पितृपैतामहं मम 019a
वर्तमानस्य मे धर्मे स्वे मन्युं मा कृथा द्विज 019c
धात्रा तु विहितं पूर्वं कर्म स्वं पालयाम्यहम् 020a
प्रयत्नाच्च गुरू वृद्धौ शुश्रूषेऽहं द्विजोत्तम 020c
सत्यं वदे नाभ्यसूये यथाशक्ति ददामि च 021a
देवतातिथिभृत्यानामवशिष्टेन वर्तये 021c
न कुत्सयाम्यहं किञ्चिन्न गर्हे बलवत्तरम् 022a
कृतमन्वेति कर्तारं पुरा कर्म द्विजोत्तम 022c
कृषिगोरक्ष्यवाणिज्यमिह लोकस्य जीवनम् 023a
दण्डनीतिस्त्रयी विद्या तेन लोका भवन्त्युत 023c
कर्म शूद्रे कृषिर्वैश्ये सङ्ग्रामः क्षत्रिये स्मृतः 024a
ब्रह्मचर्यं तपो मन्त्राः सत्यं च ब्राह्मणे सदा 024c
राजा प्रशास्ति धर्मेण स्वकर्मनिरताः प्रजाः 025a
विकर्माणश्च ये केचित्तान्युनक्ति स्वकर्मसु 025c
भेतव्यं हि सदा राज्ञां प्रजानामधिपा हि ते 026a
मारयन्ति विकर्मस्थं लुब्धा मृगमिवेषुभिः 026c
जनकस्येह विप्रर्षे विकर्मस्थो न विद्यते 027a
स्वकर्मनिरता वर्णाश्चत्वारोऽपि द्विजोत्तम 027c
स एष जनको राजा दुर्वृत्तमपि चेत्सुतम् 028a
दण्ड्यं दण्डे निक्षिपति तथा न ग्लाति धार्मिकम् 028c
सुयुक्तचारो नृपतिः सर्वं धर्मेण पश्यति 029a
श्रीश्च राज्यं च दण्डश्च क्षत्रियाणां द्विजोत्तम 029c
राजानो हि स्वधर्मेण श्रियमिच्छन्ति भूयसीम् 030a
सर्वेषामेव वर्णानां त्राता राजा भवत्युत 030c
परेण हि हतान्ब्रह्मन्वराहमहिषानहम् 031a
न स्वयं हन्मि विप्रर्षे विक्रीणामि सदा त्वहम् 031c
न भक्षयामि मांसानि ऋतुगामी तथा ह्यहम् 032a
सदोपवासी च तथा नक्तभोजी तथा द्विज 032c
अशीलश्चापि पुरुषो भूत्वा भवति शीलवान् 033a
प्राणिहिंसारतश्चापि भवते धार्मिकः पुनः 033c
व्यभिचारान्नरेन्द्राणां धर्मः सङ्कीर्यते महान् 034a
अधर्मो वर्धते चापि सङ्कीर्यन्ते तथा प्रजाः 034c
उरुण्डा वामनाः कुब्जाः स्थूलशीर्षास्तथैव च 035a
क्लीबाश्चान्धाश्च जायन्ते बधिरा लम्बचूचुकाः 035c
पार्थिवानामधर्मत्वात्प्रजानामभवः सदा 035e
स एष राजा जनकः सर्वं धर्मेण पश्यति 036a
अनुगृह्णन्प्रजाः सर्वाः स्वधर्मनिरताः सदा 036c
ये चैव मां प्रशंसन्ति ये च निन्दन्ति मानवाः 037a
सर्वान्सुपरिणीतेन कर्मणा तोषयाम्यहम् 037c
ये जीवन्ति स्वधर्मेण सम्भुञ्जन्ते च पार्थिवाः 038a
न किञ्चिदुपजीवन्ति दक्षा उत्थानशीलिनः 038c
शक्त्यान्नदानं सततं तितिक्षा धर्मनित्यता 039a
यथार्हं प्रतिपूजा च सर्वभूतेषु वै दया 039c
त्यागान्नान्यत्र मर्त्यानां गुणास्तिष्ठन्ति पूरुषे 039e
मृषावादं परिहरेत्कुर्यात्प्रियमयाचितः 040a
न च कामान्न संरम्भान्न द्वेषाद्धर्ममुत्सृजेत् 040c
प्रिये नातिभृशं हृष्येदप्रिये न च सञ्ज्वरेत् 041a
न मुह्येदर्थकृच्छ्रेषु न च धर्मं परित्यजेत् 041c
कर्म चेत्किञ्चिदन्यत्स्यादितरन्न समाचरेत् 042a
यत्कल्याणमभिध्यायेत्तत्रात्मानं नियोजयेत् 042c
न पापं प्रति पापः स्यात्साधुरेव सदा भवेत् 043a
आत्मनैव हतः पापो यः पापं कर्तुमिच्छति 043c
कर्म चैतदसाधूनां वृजिनानामसाधुवत् 044a
न धर्मोऽस्तीति मन्वानाः शुचीनवहसन्ति ये 044c
अश्रद्दधाना धर्मस्य ते नश्यन्ति न संशयः 044e
महादृतिरिवाध्मातः पापो भवति नित्यदा 045a
मूढानामवलिप्तानामसारं भाषितं भवेत् 045c
दर्शयत्यन्तरात्मानं दिवा रूपमिवांशुमान् 045e
न लोके राजते मूर्खः केवलात्मप्रशंसया 046a
अपि चेह मृजा हीनः कृतविद्यः प्रकाशते 046c
अब्रुवन्कस्यचिन्निन्दामात्मपूजामवर्णयन् 047a
न कश्चिद्गुणसम्पन्नः प्रकाशो भुवि दृश्यते 047c
विकर्मणा तप्यमानः पापाद्विपरिमुच्यते 048a
नैतत्कुर्यां पुनरिति द्वितीयात्परिमुच्यते 048c
कर्मणा येन तेनेह पापाद्द्विजवरोत्तम 049a
एवं श्रुतिरियं ब्रह्मन्धर्मेषु परिदृश्यते 049c
पापान्यबुद्ध्वेह पुरा कृतानि प्राग्धर्मशीलो विनिहन्ति पश्चात् 050a
धर्मो ब्रह्मन्नुदते पूरुषाणां यत्कुर्वते पापमिह प्रमादात् 050c
पापं कृत्वा हि मन्येत नाहमस्मीति पूरुषः 051a
चिकीर्षेदेव कल्याणं श्रद्दधानोऽनसूयकः 051c
वसनस्येव छिद्राणि साधूनां विवृणोति यः 052a
पापं चेत्पुरुषः कृत्वा कल्याणमभिपद्यते 052c
मुच्यते सर्वपापेभ्यो महाभ्रैरिव चन्द्रमाः 052e
यथादित्यः समुद्यन्वै तमः सर्वं व्यपोहति 053a
एवं कल्याणमातिष्ठन्सर्वपापैः प्रमुच्यते 053c
पापानां विद्ध्यधिष्ठानं लोभमेव द्विजोत्तम 054a
लुब्धाः पापं व्यवस्यन्ति नरा नातिबहुश्रुताः 054c
अधर्मा धर्मरूपेण तृणैः कूपा इवावृताः 054e
तेषां दमः पवित्राणि प्रलापा धर्मसंश्रिताः 055a
सर्वं हि विद्यते तेषु शिष्टाचारः सुदुर्लभः 055c
मार्कण्डेय उवाच 056
स तु विप्रो महाप्राज्ञो धर्मव्याधमपृच्छत 056a
शिष्टाचारं कथमहं विद्यामिति नरोत्तम 056c
एतन्महामते व्याध प्रब्रवीहि यथातथम् 056e
व्याध उवाच 057
यज्ञो दानं तपो वेदाः सत्यं च द्विजसत्तम 057a
पञ्चैतानि पवित्राणि शिष्टाचारेषु नित्यदा 057c
कामक्रोधौ वशे कृत्वा दम्भं लोभमनार्जवम् 058a
धर्म इत्येव सन्तुष्टास्ते शिष्टाः शिष्टसम्मताः 058c
न तेषां विद्यतेऽवृत्तं यज्ञस्वाध्यायशीलिनाम् 059a
आचारपालनं चैव द्वितीयं शिष्टलक्षणम् 059c
गुरुशुश्रूषणं सत्यमक्रोधो दानमेव च 060a
एतच्चतुष्टयं ब्रह्मञ्शिष्टाचारेषु नित्यदा 060c
शिष्टाचारे मनः कृत्वा प्रतिष्ठाप्य च सर्वशः 061a
यामयं लभते तुष्टिं सा न शक्या ह्यतोऽन्यथा 061c
वेदस्योपनिषत्सत्यं सत्यस्योपनिषद्दमः 062a
दमस्योपनिषत्त्यागः शिष्टाचारेषु नित्यदा 062c
ये तु धर्ममसूयन्ते बुद्धिमोहान्विता नराः 063a
अपथा गच्छतां तेषामनुयातापि पीड्यते 063c
ये तु शिष्टाः सुनियताः श्रुतित्यागपरायणाः 064a
धर्म्यं पन्थानमारूढाः सत्यधर्मपरायणाः 064c
नियच्छन्ति परां बुद्धिं शिष्टाचारान्विता नराः 065a
उपाध्यायमते युक्ताः स्थित्या धर्मार्थदर्शिनः 065c
नास्तिकान्भिन्नमर्यादान्क्रूरान्पापमतौ स्थितान् 066a
त्यज ताञ्ज्ञानमाश्रित्य धार्मिकानुपसेव्य च 066c
कामलोभग्रहाकीर्णां पञ्चेन्द्रियजलां नदीम् 067a
नावं धृतिमयीं कृत्वा जन्मदुर्गाणि सन्तर 067c
क्रमेण सञ्चितो धर्मो बुद्धियोगमयो महान् 068a
शिष्टाचारे भवेत्साधू रागः शुक्लेव वाससि 068c
अहिंसा सत्यवचनं सर्वभूतहितं परम् 069a
अहिंसा परमो धर्मः स च सत्ये प्रतिष्ठितः 069c
सत्ये कृत्वा प्रतिष्ठां तु प्रवर्तन्ते प्रवृत्तयः 069e
सत्यमेव गरीयस्तु शिष्टाचारनिषेवितम् 070a
आचारश्च सतां धर्मः सन्तश्चाचारलक्षणाः 070c
यो यथाप्रकृतिर्जन्तुः स्वां स्वां प्रकृतिमश्नुते 071a
पापात्मा क्रोधकामादीन्दोषानाप्नोत्यनात्मवान् 071c
आरम्भो न्याययुक्तो यः स हि धर्म इति स्मृतः 072a
अनाचारस्त्वधर्मेति एतच्छिष्टानुशासनम् 072c
अक्रुध्यन्तोऽनसूयन्तो निरहङ्कारमत्सराः 073a
ऋजवः शमसम्पन्नाः शिष्टाचारा भवन्ति ते 073c
त्रैविद्यवृद्धाः शुचयो वृत्तवन्तो मनस्विनः 074a
गुरुशुश्रूषवो दान्ताः शिष्टाचारा भवन्त्युत 074c
तेषामदीनसत्त्वानां दुष्कराचारकर्मणाम् 075a
स्वैः कर्मभिः सत्कृतानां घोरत्वं सम्प्रणश्यति 075c
तं सदाचारमाश्चर्यं पुराणं शाश्वतं ध्रुवम् 076a
धर्मं धर्मेण पश्यन्तः स्वर्गं यान्ति मनीषिणः 076c
आस्तिका मानहीनाश्च द्विजातिजनपूजकाः 077a
श्रुतवृत्तोपसम्पन्नाः ते सन्तः स्वर्गगामिनः 077c
वेदोक्तः परमो धर्मो धर्मशास्त्रेषु चापरः 078a
शिष्टाचीर्णश्च शिष्टानां त्रिविधं धर्मलक्षणम् 078c
पारणं चापि विद्यानां तीर्थानामवगाहनम् 079a
क्षमा सत्यार्जवं शौचं शिष्टाचारनिदर्शनम् 079c
सर्वभूतदयावन्तो अहिंसानिरताः सदा 080a
परुषं न प्रभाषन्ते सदा सन्तो द्विजप्रियाः 080c
शुभानामशुभानां च कर्मणां फलसञ्चये 081a
विपाकमभिजानन्ति ते शिष्टाः शिष्टसम्मताः 081c
न्यायोपेता गुणोपेताः सर्वलोकहितैषिणः 082a
सन्तः स्वर्गजितः शुक्लाः सन्निविष्टाश्च सत्पथे 082c
दातारः संविभक्तारो दीनानुग्रहकारिणः 083a
सर्वभूतदयावन्तस्ते शिष्टाः शिष्टसम्मताः 083c
सर्वपूज्याः श्रुतधनास्तथैव च तपस्विनः 084a
दाननित्याः सुखाल्ँलोकानाप्नुवन्तीह च श्रियम् 084c
पीडया च कलत्रस्य भृत्यानां च समाहिताः 085a
अतिशक्त्या प्रयच्छन्ति सन्तः सद्भिः समागताः 085c
लोकयात्रां च पश्यन्तो धर्ममात्महितानि च 086a
एवं सन्तो वर्तमाना एधन्ते शाश्वतीः समाः 086c
अहिंसा सत्यवचनमानृशंस्यमथार्जवम् 087a
अद्रोहो नातिमानश्च ह्रीस्तितिक्षा दमः शमः 087c
धीमन्तो धृतिमन्तश्च भूतानामनुकम्पकाः 088a
अकामद्वेषसंयुक्तास्ते सन्तो लोकसत्कृताः 088c
त्रीण्येव तु पदान्याहुः सतां वृत्तमनुत्तमम् 089a
न द्रुह्येच्चैव दद्याच्च सत्यं चैव सदा वदेत् 089c
सर्वत्र च दयावन्तः सन्तः करुणवेदिनः 090a
गच्छन्तीह सुसन्तुष्टा धर्म्यं पन्थानमुत्तमम् 090c
शिष्टाचारा महात्मानो येषां धर्मः सुनिश्चितः 090e
अनसूया क्षमा शान्तिः सन्तोषः प्रियवादिता 091a
कामक्रोधपरित्यागः शिष्टाचारनिषेवणम् 091c
कर्मणा श्रुतसम्पन्नं सतां मार्गमनुत्तमम् 092a
शिष्टाचारं निषेवन्ते नित्यं धर्मेष्वतन्द्रिताः 092c
प्रज्ञाप्रासादमारुह्य मुह्यतो महतो जनान् 093a
प्रेक्षन्तो लोकवृत्तानि विविधानि द्विजोत्तम 093c
अतिपुण्यानि पापानि तानि द्विजवरोत्तम 093e
एतत्ते सर्वमाख्यातं यथाप्रज्ञं यथाश्रुतम् 094a
शिष्टाचारगुणान्ब्रह्मन्पुरस्कृत्य द्विजर्षभ 094c