मार्कण्डेय उवाच 001
कश्चिद्द्विजातिप्रवरो वेदाध्यायी तपोधनः 001a
तपस्वी धर्मशीलश्च कौशिको नाम भारत 001c
साङ्गोपनिषदान्वेदानधीते द्विजसत्तमः 002a
स वृक्षमूले कस्मिंश्चिद्वेदानुच्चारयन्स्थितः 002c
उपरिष्टाच्च वृक्षस्य बलाका सन्न्यलीयत 003a
तया पुरीषमुत्सृष्टं ब्राह्मणस्य तदोपरि 003c
तामवेक्ष्य ततः क्रुद्धः समपध्यायत द्विजः 004a
भृशं क्रोधाभिभूतेन बलाका सा निरीक्षिता 004c
अपध्याता च विप्रेण न्यपतद्वसुधातले 005a
बलाकां पतितां दृष्ट्वा गतसत्त्वामचेतनाम् 005c
कारुण्यादभिसन्तप्तः पर्यशोचत तां द्विजः 005e
अकार्यं कृतवानस्मि रागद्वेषबलात्कृतः 006a
इत्युक्त्वा बहुशो विद्वान्ग्रामं भैक्षाय संश्रितः 006c
ग्रामे शुचीनि प्रचरन्कुलानि भरतर्षभ 007a
प्रविष्टस्तत्कुलं यत्र पूर्वं चरितवांस्तु सः 007c
देहीति याचमानो वै तिष्ठेत्युक्तः स्त्रिया ततः 008a
शौचं तु यावत्कुरुते भाजनस्य कुटुम्बिनी 008c
एतस्मिन्नन्तरे राजन्क्षुधासम्पीडितो भृशम् 009a
भर्ता प्रविष्टः सहसा तस्या भरतसत्तम 009c
सा तु दृष्ट्वा पतिं साध्वी ब्राह्मणं व्यपहाय तम् 010a
पाद्यमाचमनीयं च ददौ भर्त्रे तथासनम् 010c
प्रह्वा पर्यचरच्चापि भर्तारमसितेक्षणा 011a
आहारेणाथ भक्ष्यैश्च वाक्यैः सुमधुरैस्तथा 011c
उच्छिष्टं भुञ्जते भर्तुः सा तु नित्यं युधिष्ठिर 012a
दैवतं च पतिं मेने भर्तुश्चित्तानुसारिणी 012c
न कर्मणा न मनसा नात्यश्नान्नापि चापिबत् 013a
तं सर्वभावोपगता पतिशुश्रूषणे रता 013c
साध्वाचारा शुचिर्दक्षा कुटुम्बस्य हितैषिणी 014a
भर्तुश्चापि हितं यत्तत्सततं सानुवर्तते 014c
देवतातिथिभृत्यानां श्वश्रूश्वशुरयोस्तथा 015a
शुश्रूषणपरा नित्यं सततं संयतेन्द्रिया 015c
सा ब्राह्मणं तदा दृष्ट्वा संस्थितं भैक्षकाङ्क्षिणम् 016a
कुर्वती पतिशुश्रूषां सस्माराथ शुभेक्षणा 016c
व्रीडिता साभवत्साध्वी तदा भरतसत्तम 017a
भिक्षामादाय विप्राय निर्जगाम यशस्विनी 017c
ब्राह्मण उवाच 018
किमिदं भवति त्वं मां तिष्ठेत्युक्त्वा वराङ्गने 018a
उपरोधं कृतवती न विसर्जितवत्यसि 018c
मार्कण्डेय उवाच 019
ब्राह्मणं क्रोधसन्तप्तं ज्वलन्तमिव तेजसा 019a
दृष्ट्वा साध्वी मनुष्येन्द्र सान्त्वपूर्वं वचोऽब्रवीत् 019c
क्षन्तुमर्हसि मे विप्र भर्ता मे दैवतं महत् 020a
स चापि क्षुधितः श्रान्तः प्राप्तः शुश्रूषितो मया 020c
ब्राह्मण उवाच 021
ब्राह्मणा न गरीयांसो गरीयांस्ते पतिः कृतः 021a
गृहस्थधर्मे वर्तन्ती ब्राह्मणानवमन्यसे 021c
इन्द्रोऽप्येषां प्रणमते किं पुनर्मानुषा भुवि 022a
अवलिप्ते न जानीषे वृद्धानां न श्रुतं त्वया 022c
ब्राह्मणा ह्यग्निसदृशा दहेयुः पृथिवीमपि 022e
स्त्र्युवाच 023
नावजानाम्यहं विप्रान्देवैस्तुल्यान्मनस्विनः 023a
अपराधमिमं विप्र क्षन्तुमर्हसि मेऽनघ 023c
जानामि तेजो विप्राणां महाभाग्यं च धीमताम् 024a
अपेयः सागरः क्रोधात्कृतो हि लवणोदकः 024c
तथैव दीप्ततपसां मुनीनां भावितात्मनाम् 025a
येषां क्रोधाग्निरद्यापि दण्डके नोपशाम्यति 025c
ब्राह्मणानां परिभवाद्वातापिश्च दुरात्मवान् 026a
अगस्त्यमृषिमासाद्य जीर्णः क्रूरो महासुरः 026c
प्रभावा बहवश्चापि श्रूयन्ते ब्रह्मवादिनाम् 027a
क्रोधः सुविपुलो ब्रह्मन्प्रसादश्च महात्मनाम् 027c
अस्मिंस्त्वतिक्रमे ब्रह्मन्क्षन्तुमर्हसि मेऽनघ 028a
पतिशुश्रूषया धर्मो यः स मे रोचते द्विज 028c
दैवतेष्वपि सर्वेषु भर्ता मे दैवतं परम् 029a
अविशेषेण तस्याहं कुर्यां धर्मं द्विजोत्तम 029c
शुश्रूषायाः फलं पश्य पत्युर्ब्राह्मण यादृशम् 030a
बलाका हि त्वया दग्धा रोषात्तद्विदितं मम 030c
क्रोधः शत्रुः शरीरस्थो मनुष्याणां द्विजोत्तम 031a
यः क्रोधमोहौ त्यजति तं देवा ब्राह्मणं विदुः 031c
यो वदेदिह सत्यानि गुरुं सन्तोषयेत च 032a
हिंसितश्च न हिंसेत तं देवा ब्राह्मणं विदुः 032c
जितेन्द्रियो धर्मपरः स्वाध्यायनिरतः शुचिः 033a
कामक्रोधौ वशे यस्य तं देवा ब्राह्मणं विदुः 033c
यस्य चात्मसमो लोको धर्मज्ञस्य मनस्विनः 034a
सर्वधर्मेषु च रतस्तं देवा ब्राह्मणं विदुः 034c
योऽध्यापयेदधीयीत यजेद्वा याजयीत वा 035a
दद्याद्वापि यथाशक्ति तं देवा ब्राह्मणं विदुः 035c
ब्रह्मचारी च वेदान्यो अधीयीत द्विजोत्तमः 036a
स्वाध्याये चाप्रमत्तो वै तं देवा ब्राह्मणं विदुः 036c
यद्ब्राह्मणानां कुशलं तदेषां परिकीर्तयेत् 037a
सत्यं तथा व्याहरतां नानृते रमते मनः 037c
धनं तु ब्राह्मणस्याहुः स्वाध्यायं दममार्जवम् 038a
इन्द्रियाणां निग्रहं च शाश्वतं द्विजसत्तम 038c
सत्यार्जवे धर्ममाहुः परं धर्मविदो जनाः 038e
दुर्ज्ञेयः शाश्वतो धर्मः स तु सत्ये प्रतिष्ठितः 039a
श्रुतिप्रमाणो धर्मः स्यादिति वृद्धानुशासनम् 039c
बहुधा दृश्यते धर्मः सूक्ष्म एव द्विजोत्तम 040a
भवानपि च धर्मज्ञः स्वाध्यायनिरतः शुचिः 040c
न तु तत्त्वेन भगवन्धर्मान्वेत्सीति मे मतिः 040e
मातापितृभ्यां शुश्रूषुः सत्यवादी जितेन्द्रियः 041a
मिथिलायां वसन्व्याधः स ते धर्मान्प्रवक्ष्यति 041c
तत्र गच्छस्व भद्रं ते यथाकामं द्विजोत्तम 041e
अत्युक्तमपि मे सर्वं क्षन्तुमर्हस्यनिन्दित 042a
स्त्रियो ह्यवध्याः सर्वेषां ये धर्मविदुषो जनाः 042c
ब्राह्मण उवाच 043
प्रीतोऽस्मि तव भद्रं ते गतः क्रोधश्च शोभने 043a
उपालम्भस्त्वया ह्युक्तो मम निःश्रेयसं परम् 043c
स्वस्ति तेऽस्तु गमिष्यामि साधयिष्यामि शोभने 043e
मार्कण्डेय उवाच 044
तया विसृष्टो निर्गम्य स्वमेव भवनं ययौ 044a
विनिन्दन्स द्विजोऽऽत्मानं कौशिको नरसत्तम 044c