वैशम्पायन उवाच 001
ततो युधिष्ठिरो राजा मार्कण्डेयं महाद्युतिम् 001a
पप्रच्छ भरतश्रेष्ठो धर्मप्रश्नं सुदुर्वचम् 001c
श्रोतुमिच्छामि भगवन्स्त्रीणां माहात्म्यमुत्तमम् 002a
कथ्यमानं त्वया विप्र सूक्ष्मं धर्मं च तत्त्वतः 002c
प्रत्यक्षेण हि विप्रर्षे देवा दृश्यन्ति सत्तम 003a
सूर्याचन्द्रमसौ वायुः पृथिवी वह्निरेव च 003c
पिता माता च भगवन्गाव एव च सत्तम 004a
यच्चान्यदेव विहितं तच्चापि भृगुनन्दन 004c
मन्येऽहं गुरुवत्सर्वमेकपत्न्यस्तथा स्त्रियः 005a
पतिव्रतानां शुश्रूषा दुष्करा प्रतिभाति मे 005c
पतिव्रतानां माहात्म्यं वक्तुमर्हसि नः प्रभो 006a
निरुध्य चेन्द्रियग्रामं मनः संरुध्य चानघ 006c
पतिं दैवतवच्चापि चिन्तयन्त्यः स्थिता हि याः 006e
भगवन्दुष्करं ह्येतत्प्रतिभाति मम प्रभो 007a
मातापितृषु शुश्रूषा स्त्रीणां भर्तृषु च द्विज 007c
स्त्रीणां धर्मात्सुघोराद्धि नान्यं पश्यामि दुष्करम् 008a
साध्वाचाराः स्त्रियो ब्रह्मन्यत्कुर्वन्ति सदादृताः 008c
दुष्करं बत कुर्वन्ति पितरो मातरश्च वै 008e
एकपत्न्यश्च या नार्यो याश्च सत्यं वदन्त्युत 009a
कुक्षिणा दश मासांश्च गर्भं सन्धारयन्ति याः 009c
नार्यः कालेन सम्भूय किमद्भुततरं ततः 009e
संशयं परमं प्राप्य वेदनामतुलामपि 010a
प्रजायन्ते सुतान्नार्यो दुःखेन महता विभो 010c
पुष्णन्ति चापि महता स्नेहेन द्विजसत्तम 010e
ये च क्रूरेषु सर्वेषु वर्तमाना जुगुप्सिताः 011a
स्वकर्म कुर्वन्ति सदा दुष्करं तच्च मे मतम् 011c
क्षत्रधर्मसमाचारं तथ्यं चाख्याहि मे द्विज 012a
धर्मः सुदुर्लभो विप्र नृशंसेन दुरात्मना 012c
एतदिच्छामि भगवन्प्रश्नं प्रश्नविदां वर 013a
श्रोतुं भृगुकुलश्रेष्ठ शुश्रूषे तव सुव्रत 013c
मार्कण्डेय उवाच 014
हन्त ते सर्वमाख्यास्ये प्रश्नमेतं सुदुर्वचम् 014a
तत्त्वेन भरतश्रेष्ठ गदतस्तन्निबोध मे 014c
मातरं सदृशीं तात पितॄनन्ये च मन्यते 015a
दुष्करं कुरुते माता विवर्धयति या प्रजाः 015c
तपसा देवतेज्याभिर्वन्दनेन तितिक्षया 016a
अभिचारैरुपायैश्च ईहन्ते पितरः सुतान् 016c
एवं कृच्छ्रेण महता पुत्रं प्राप्य सुदुर्लभम् 017a
चिन्तयन्ति सदा वीर कीदृशोऽयं भविष्यति 017c
आशंसते च पुत्रेषु पिता माता च भारत 018a
यशः कीर्तिमथैश्वर्यं प्रजा धर्मं तथैव च 018c
तयोराशां तु सफलां यः करोति स धर्मवित् 019a
पिता माता च राजेन्द्र तुष्यतो यस्य नित्यदा 019c
इह प्रेत्य च तस्याथ कीर्तिर्धर्मश्च शाश्वतः 019e
नैव यज्ञः स्त्रियः कश्चिन्न श्राद्धं नोपवासकम् 020a
या तु भर्तरि शुश्रूषा तया स्वर्गमुपाश्नुते 020c
एतत्प्रकरणं राजन्नधिकृत्य युधिष्ठिर 021a
प्रतिव्रतानां नियतं धर्मं चावहितः शृणु 021c