मार्कण्डेय उवाच 001
धुन्धुर्नाम महातेजास्तयोः पुत्रो महाद्युतिः 001a
स तपोऽतप्यत महन्महावीर्यपराक्रमः 001c
अतिष्ठदेकपादेन कृशो धमनिसन्ततः 002a
तस्मै ब्रह्मा ददौ प्रीतो वरं वव्रे स च प्रभो 002c
देवदानवयक्षाणां सर्पगन्धर्वरक्षसाम् 003a
अवध्योऽहं भवेयं वै वर एष वृतो मया 003c
एवं भवतु गच्छेति तमुवाच पितामहः 004a
स एवमुक्तस्तत्पादौ मूर्ध्ना स्पृश्य जगाम ह 004c
स तु धुन्धुर्वरं लब्ध्वा महावीर्यपराक्रमः 005a
अनुस्मरन्पितृवधं ततो विष्णुमुपाद्रवत् 005c
स तु देवान्सगन्धर्वाञ्जित्वा धुन्धुरमर्षणः 006a
बबाध सर्वानसकृद्देवान्विष्णुं च वै भृशम् 006c
समुद्रो वालुकापूर्ण उज्जानक इति स्मृतः 007a
आगम्य च स दुष्टात्मा तं देशं भरतर्षभ 007c
बाधते स्म परं शक्त्या तमुत्तङ्काश्रमं प्रभो 007e
अन्तर्भूमिगतस्तत्र वालुकान्तर्हितस्तदा 008a
मधुकैटभयोः पुत्रो धुन्धुर्भीमपराक्रमः 008c
शेते लोकविनाशाय तपोबलसमाश्रितः 009a
उत्तङ्कस्याश्रमाभ्याशे निःश्वसन्पावकार्चिषः 009c
एतस्मिन्नेव काले तु सभृत्यबलवाहनः 010a
कुवलाश्वो नरपतिरन्वितो बलशालिनाम् 010c
सहस्रैरेकविंशत्या पुत्राणामरिमर्दनः 011a
प्रायादुत्तङ्कसहितो धुन्धोस्तस्य निवेशनम् 011c
तमाविशत्ततो विष्णुर्भगवांस्तेजसा प्रभुः 012a
उत्तङ्कस्य नियोगेन लोकानां हितकाम्यया 012c
तस्मिन्प्रयाते दुर्धर्षे दिवि शब्दो महानभूत् 013a
एष श्रीमान्नृपसुतो धुन्धुमारो भविष्यति 013c
दिव्यैश्च पुष्पैस्तं देवाः समन्तात्पर्यवाकिरन् 014a
देवदुन्दुभयश्चैव नेदुः स्वयमुदीरिताः 014c
शीतश्च वायुः प्रववौ प्रयाणे तस्य धीमतः 015a
विपांसुलां महीं कुर्वन्ववर्ष च सुरेश्वरः 015c
अन्तरिक्षे विमानानि देवतानां युधिष्ठिर 016a
तत्रैव समदृश्यन्त धुन्धुर्यत्र महासुरः 016c
कुवलाश्वस्य धुन्धोश्च युद्धकौतूहलान्विताः 017a
देवगन्धर्वसहिताः समवैक्षन्महर्षयः 017c
नारायणेन कौरव्य तेजसाप्यायितस्तदा 018a
स गतो नृपतिः क्षिप्रं पुत्रैस्तैः सर्वतोदिशम् 018c
अर्णवं खानयामास कुवलाश्वो महीपतिः 019a
कुवलाश्वस्य पुत्रैस्तु तस्मिन्वै वालुकार्णवे 019c
सप्तभिर्दिवसैः खात्वा दृष्टो धुन्धुर्महाबलः 020a
आसीद्घोरं वपुस्तस्य वालुकान्तर्हितं महत् 020c
दीप्यमानं यथा सूर्यस्तेजसा भरतर्षभ 020e
ततो धुन्धुर्महाराज दिशमाश्रित्य पश्चिमाम् 021a
सुप्तोऽभूद्राजशार्दूल कालानलसमद्युतिः 021c
कुवलाश्वस्य पुत्रैस्तु सर्वतः परिवारितः 022a
अभिद्रुतः शरैस्तीक्ष्णैर्गदाभिर्मुसलैरपि 022c
पट्टिशैः परिघैः प्रासैः खड्गैश्च विमलैः शितैः 022e
स वध्यमानः सङ्क्रुद्धः समुत्तस्थौ महाबलः 023a
क्रुद्धश्चाभक्षयत्तेषां शस्त्राणि विविधानि च 023c
आस्याद्वमन्पावकं स संवर्तकसमं तदा 024a
तान्सर्वान्नृपतेः पुत्रानदहत्स्वेन तेजसा 024c
मुखजेनाग्निना क्रुद्धो लोकानुद्वर्तयन्निव 025a
क्षणेन राजशार्दूल पुरेव कपिलः प्रभुः 025c
सगरस्यात्मजान्क्रुद्धस्तदद्भुतमिवाभवत् 025e
तेषु क्रोधाग्निदग्धेषु तदा भरतसत्तम 026a
तं प्रबुद्धं महात्मानं कुम्भकर्णमिवापरम् 026c
आससाद महातेजाः कुवलाश्वो महीपतिः 026e
तस्य वारि महाराज सुस्राव बहु देहतः 027a
तदापीयत तत्तेजो राजा वारिमयं नृप 027c
योगी योगेन वह्निं च शमयामास वारिणा 027e
ब्रह्मास्त्रेण तदा राजा दैत्यं क्रूरपराक्रमम् 028a
ददाह भरतश्रेष्ठ सर्वलोकाभयाय वै 028c
सोऽस्त्रेण दग्ध्वा राजर्षिः कुवलाश्वो महासुरम् 029a
सुरशत्रुममित्रघ्नस्त्रिलोकेश इवापरः 029c
धुन्धुमार इति ख्यातो नाम्ना समभवत्ततः 029e
प्रीतैश्च त्रिदशैः सर्वैर्महर्षिसहितैस्तदा 030a
वरं वृणीष्वेत्युक्तः स प्राञ्जलिः प्रणतस्तदा 030c
अतीव मुदितो राजन्निदं वचनमब्रवीत् 030e
दद्यां वित्तं द्विजाग्र्येभ्यः शत्रूणां चापि दुर्जयः 031a
सख्यं च विष्णुना मे स्याद्भूतेष्वद्रोह एव च 031c
धर्मे रतिश्च सततं स्वर्गे वासस्तथाक्षयः 031e
तथास्त्विति ततो देवैः प्रीतैरुक्तः स पार्थिवः 032a
ऋषिभिश्च सगन्धर्वैरुत्तङ्केन च धीमता 032c
सभाज्य चैनं विविधैराशीर्वादैस्ततो नृपम् 033a
देवा महर्षयश्चैव स्वानि स्थानानि भेजिरे 033c
तस्य पुत्रास्त्रयः शिष्टा युधिष्ठिर तदाभवन् 034a
दृढाश्वः कपिलाश्वश्च चन्द्राश्वश्चैव भारत 034c
तेभ्यः परम्परा राजन्निक्ष्वाकूणां महात्मनाम् 034e
एवं स निहतस्तेन कुवलाश्वेन सत्तम 035a
धुन्धुर्दैत्यो महावीर्यो मधुकैटभयोः सुतः 035c
कुवलाश्वस्तु नृपतिर्धुन्धुमार इति स्मृतः 036a
नाम्ना च गुणसंयुक्तस्तदा प्रभृति सोऽभवत् 036c
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि 037a
धौन्धुमारमुपाख्यानं प्रथितं यस्य कर्मणा 037c
इदं तु पुण्यमाख्यानं विष्णोः समनुकीर्तनम् 038a
शृणुयाद्यः स धर्मात्मा पुत्रवांश्च भवेन्नरः 038c
आयुष्मान्धृतिमांश्चैव श्रुत्वा भवति पर्वसु 039a
न च व्याधिभयं किञ्चित्प्राप्नोति विगतज्वरः 039c